वामावर्तो मलिनकिरणः सस्फुलिंगोऽल्पमूर्तिः क्षिप्रं नाशं व्रजति विमलस्नेहवर्त्यन्वितोऽपि । दीपः पापं कथयति फलं शब्दवान् वेपनश्च व्याकीर्णार्चिः विशलभमरुद्यश्च नाशं प्रयाति ॥१॥
दीपः संहतमूर्तिः आयततनुः निर्वेपनो दीप्तिमान् निःशब्दो रुचिरः प्रदक्षिणगतिः वैदूर्य ( वैडूर्य) हेमद्युतिः । लक्ष्मीं क्षिप्रमभिव्यनक्ति सुचिरं ( रुचिरं, सुचिरं) यश्चौद्यतं दीप्यते शेषं लक्षणमग्निलक्षणसमं योज्यं यथायुक्तितः ॥२॥