सर्वत्र भूः विरलसस्ययुता वनानि ॥१॥
दैवाद् बिभक्षयिषुदंष्ट्रिसमावृतानि ॥ नद्यः च नैव हि पयः प्रचुरं स्रवन्ति ॥२॥
रुग्भेषजानि न तथातिबलान्वितानि ॥२॥
तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले ॥ नात्यंबुदा जलमुचोऽचलसन्निकाशाः ॥३॥
नष्टप्रभऋक्षगणशीतकरं नभश्च ॥ सीदन्ति तापसकुलानि सगोकुलानि ॥४॥
हस्त्यश्वपत्तिमदसह्यबलैरुपेता ॥ बाणासनासिमुशलातिशयाश्चरन्ति ॥
घ्नन्तो नृपा युधि नृपानुचरैश्च देशान् ॥ संवत्सरे दिनकरस्य दिनेऽथ मासे ॥५॥
व्याप्तं नभः प्रचलिताचलसन्निकाशैः ॥ व्यालाञ्जनालिगवलच्छविभिः पयोदैः ॥
गां पूरयद्भिः अखिलाममलाभिः अद्भिः ॥ उत्कण्ठितेन गुरुणा ध्वनितेन चाशाः ॥६॥
तोयानि पद्मकुमुदौत्पलवन्त्यतीव ॥ फुल्लद्रुमाणि उपवनानि अलिनादितानि ॥
गावः प्रभूतपयसो नयनाभिरामा ॥ रामा रतैः अविरतं रमयन्ति रामान् ॥७॥
गोधूमशालियवधान्यवरैक्षुवाटा ॥ भूः पाल्यते नृपतिभिः नगराकराड्या ॥
चित्यंकिता क्रतुवरेष्टिविघुष्टनादा ॥ संवत्सरे शिशिरगोरभिसंप्रवृत्ते ॥८॥
वातोद्धतश्चरति वह्निरतिप्रचण्डो ॥ ग्रामान् वनानि नगराणि च सन्दिधक्षुः ॥
हाहा इति दस्युगणपातहता रटन्ति ॥ निःस्वीकृता विपशवो भुवि मर्त्यसंघाः ॥९॥
अभ्युन्नता वियति संहतमूर्तयोऽपि ॥ मुंचन्ति कुत्रचिद् अपः प्रचुरं पयोदाः ॥
सीम्नि प्रजातमपि शोषमुपैति सस्यं ॥ निष्पन्नमपि अविनयादपरे हरन्ति ॥१०॥
भूपा न सम्यगभिपालनसक्तचित्ताः ॥॥ पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः ॥
एवंविधैरुपहृता भवति प्रजा इयं ॥॥ संवत्सरेऽवनिसुतस्य विपन्नसस्या ॥११॥
माया इन्द्रजालकुहकाकरनागराणां गान्धर्वलेख्यगणितास्त्रविदां च वृद्धिः ॥
पिप्रीषया नृपतयोऽद्भुतदर्शनानि दित्सन्ति तुष्टिजननानि परस्परेभ्यः ॥१२॥
वार्ता ( वार्त्ता) जगत्यवितथा विकला त्रयी च ॥ सम्यक् चरत्यपि मनोः इव दण्डनीतिः ॥
अध्यक्षर ( अध्यक्षरं) स्वभिनिविष्टधियोऽपि केचिद् ॥ आन्वीक्षिकीषु च परं पदमीहमानाः ॥१३॥
हास्यज्ञदूतकविबालनपुंसकानां ॥ युक्तिज्ञसेतुजलपर्वतवासिनां च ॥
हार्दिं करोति मृगलांछनजः स्वकेऽब्दे ॥ मासेऽथवा प्रचुरता ( प्रचुरतां) भुवि चाउषधीनाम् ॥१४॥
ध्वनिरुच्चरितोऽध्वरे द्युगामी ॥ विपुलो यज्ञमुषां मनांसि भिन्दन् ॥
विचरत्यनिशं द्विजोत्तमानां ॥ हृदयानन्दकरोऽध्वरांशभाजाम् ॥१५॥
क्षितिरुत्तमसस्यवत्यनेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या ॥ क्षितिपैः अभिपालनप्रवृद्धा द्युचरस्पर्धिजना तदा विभाति ॥१६॥
विविधैः वियदुन्नतैः पयोदैः वृतमुर्वीं पयसाभितर्पयद्भिः ॥ सुरराजगुरोः शुभे तु वर्षे बहुसस्या क्षितिरुत्तमऋद्धियुक्ता ॥१७॥
शालीक्षुमत्यपि धरा धरणीधराभ ॥ धाराधरौज्झितपयःपरिपूर्णवप्रा ॥
श्रीमत्सरोरुहततांबुतडागकीर्णा ॥ योषा इव भात्यभिनवाभरणौज्ज्वलांगी ॥१८॥
क्षत्रं क्षितौ क्षपितभूरिबलारिपक्षम् ॥ उद्घुष्टनैकजयशब्दविराविताशम् ॥
संहृष्टशिष्टजनदुष्टविनष्टवर्गां ॥ गां पालयन्त्यवनिपा नगराकराढ्याम् ॥१९॥
पेपीयते मधु मधौ सह कामिनीभिः ॥ जेगीयते श्रवणहारि सवेणुवीणम् ॥
बोभुज्यतेऽतिथिसुहृत्स्वजनैः सहान्नम् ॥ अब्दे सितस्य मदनस्य जयावघोषह् ॥२०॥
उद्वृत्तदस्युगणभूरिरणाकुलानि ॥ राष्ट्राणि अनेकपशुवित्तविनाकृतानि ॥
रोरूयमाणहतबन्धुजनैः जनैश्च ॥ रोगौत्तमाकुलकुलानि बुभुक्षया च ॥२१॥
वातोद्धतांबुधरवर्जितमन्तरिक्षम् ॥ आरुग्णनैकविटपं च धरातलं द्यौः ॥
नष्टार्कचन्द्रकिरणातिरजोऽवनद्धा ॥ तोयाशयाश्च विजलाः सरितोऽपि तन्व्यः ॥२२॥
जातानि कुत्रचिदतोयतया विनाशम् ॥॥ ऋच्छन्ति पुष्टिमपराणि जलोक्षितानि ॥
सस्यानि मन्दमभिवर्षति वृत्रशत्रुः ॥॥ वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥२३॥
अणुः अपटुमयूखो नीचगोऽन्यैः जितो वा ॥ न सकलफलदाता पुष्टिदोऽतोऽन्यथा यः ॥
यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिः ॥ शुभफलमपि चैवं याप्यमन्योन्यतायाम् ॥२४॥