अंगुलशतार्धमुत्तम ऊनः स्यात् पंचविंशतिः ( पञ्चविंशतिं) खड्गः । अंगुलमानाज्ञेयो व्रणोऽशुभो विषमपर्वस्थः ॥१॥
श्रीवृक्षवर्धमानातपत्रशिवलिंगकुण्डलाब्जानाम् । सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च ॥२॥
कृकलासकाककंकक्रव्यादकबन्धवृश्चिकाकृतयः । खड्गे व्रणा न शुभदा वंशानुगताः प्रभूताश्च ॥३॥
स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृग्मनोऽनुगतः । अस्वन इति चानिष्टः प्रोक्तविपर्यस्त इष्टफलः ॥४॥
क्वणितं मरणायौक्तं पराजयाय प्रवर्तनं कोशात् । स्वयमुद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे ॥५॥
नाकारणं विवृणुयान् न विघट्टयेग पश्येन् न तत्र वदनं न वदेग मूल्यम् । देशं न चास्य कथयेत् प्रतिमान् आनयेन् न नैव स्पृशेन् नृपतिः अप्रयतोऽसियष्टिम् ॥६॥
गोजिह्वासंस्थानो नीलोत्पलवंशपत्रसदृशश्च । करवीरपत्रशूलाग्रमण्डलाग्राः प्रशस्ताः स्युः ॥७॥
निष्पन्नो न छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः । मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्ने ॥८॥
यस्मिन् त्सरुप्रदेशे व्रणो भवेत् तद्वदेव खड्गस्य । वनितानामिव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा ॥९॥
अथवा स्पृशति यदंगं प्रष्टा निस्त्रिंशभृत् तदवधार्य । कोशस्थस्यादेश्यो व्रणोऽस्ति शास्त्रं विदित्वेदम् ॥१०॥
शिरसि स्पृष्टे प्रथमे अंगुले द्वितीये ललाटसंस्पर्शे । भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चत्रुथे च ॥११॥
नासौष्ठ ( नासोष्ठ) कपोलहनुश्रवणग्रीवांसके च ( अंसकेषु) पंचाद्याः । उरसि द्वादशसंस्थः त्रयोदशे कक्षयोः ज्ञेयः ॥१२॥
स्तनहृदयोदरकुक्षिनाभौ ( कुक्षिनाभीषु) तु चतुर्दशादयो ज्ञेयाः । नाभिमूले कठ्यां गुह्ये चैकोनविंशतितः ॥१३॥
ऊर्वोः द्वाविंशे स्यादूर्वोः मध्ये व्रणः त्रयोविंशे । जानुनि च चतुर्विंशे जंघायां पंचविंशे च ॥१४॥
जंघामध्ये गुल्फे पार्ष्ण्यां पादे तदंगुलीष्वपि च । षड्विंशतिकाद् यावत् त्रिंशदिति मतेन गर्गस्य ॥१५॥
पुत्रमरणं धनाप्तिः धनहानिः संपदश्च बन्धश्च । एकाद्यंगुलसंस्थैः व्रणैः फलं निर्दिशेत् क्रमशः ॥१६॥
सुतलाभः कलहो हस्तिलब्धयः पुत्रमरणधनलाभौ । क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ॥१७॥
लब्धिः हानिः स्त्रीलब्धयो ( हानिस्त्रीलब्धयो) बधो वृद्धिमरणपरितोषाः । ज्ञेयाश्चतुर्दशादिषु धनहानिश्चैकविंशे स्यात् ॥१८॥
वित्ताप्तिः अनिर्वाणं धनागमो मृत्युसंपदोऽस्वत्वम् । ऐश्वर्यमृत्युराज्यानि च क्रमात् त्रिंशदिति यावत् ॥१९॥
परतो न विशेषफलं विषमसमस्थाः तु पापशुभफलदाः । कैश्चिदफलाः प्रदिष्टाः त्रिंशत्परतोऽग्रमिति यावत् ॥२०॥
करवीरौत्पलगजमदघृतकुंकुमकुन्दचंपकसगन्धः । शुभदोऽनिष्टो गोमूत्रपंकमेदःसदृशगन्धः ॥२१॥
कूर्मवसासृक्क्षारोपमश्च भयदुःखदो भवति गन्धः । वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥२२॥
इदमौशनसं च शस्त्रपानं रुधिरेण श्रियमिच्छतः प्रदीप्ताम् । हविषा गुणवत्सुताभिलिप्सोः सलिलेनाक्षयमिच्छतश्च वित्तम् ॥२३॥
वडवौष्ट्रकरेणुदुग्धपानं यदि पापेन समीहतेऽर्थसिद्धिम् । झषपित्तमृगाश्वबस्तदुग्धैः करिहस्तच्छिदये सतालगर्भैः ॥२४॥
आर्कं पयो हुडुविषाणमषीसमेतं पारावताखुशकृता च युतः ( युतं) प्रलेपः । शस्त्रस्य तैलमथितस्य ततोऽस्य पानं पश्चात्शितस्य न शिलासु भवेद् विघातः ॥२५॥
क्षारे कदल्या मथितेन युक्ते दिनौषिते पायितमायसं यत् । सम्यक् शितं चाश्मनि नैति भंगं न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥२६॥