जात्यं मनोभवसुखं सुभगस्य सर्वम् आभासमात्रमितरस्य मनोवियोगात् । चित्तेन भावयति दूरगता अपि यं स्त्री गर्भं बिभर्ति सदृशं पुरुषस्य तस्य ॥१॥
भंक्त्वा काण्डं पादपस्यौप्तमुर्व्यां बीजं वास्यां नान्यतामेति यद्वत् । एवं ह्यात्मा जायते स्त्रीषु भूयः कश्चित् तस्मिन् क्षेत्रयोगाद् विशेषः ॥२॥
आत्मा सहैति मनसा मन इन्द्रियेण स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः । योगोऽयमेव मनसः किमगम्यमस्ति यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ॥३॥
आत्मायमात्मनि गतो हृदयेऽतिसूक्ष्मो ग्राह्योऽचलेन मनसा सतताभियोगात् । यो यं विचिन्तयति याति स तन्मयत्वं यस्मादतः सुभगमेव गता युवत्यः ॥४॥
दाक्षिण्यमेकं सुभगत्वहेतुः विद्वेषणं तद्विपरीतचेष्टा । मन्त्रौषधाद्यैः कुहकप्रयोगैः भवन्ति दोषा बहवो न शर्म ॥५॥
वाल्लभ्यमायाति विहाय मानं दौर्भाग्यमापादयतेऽभिमानः । कृच्छ्रेण संसाधयतेऽभिमानी कार्याणि अयत्नेन वदन् प्रियाणि ॥६॥
तेजो न तद् यत् प्रियसाहसत्वं वाक्यं न चानिष्टमसत्प्रणीतम् । कार्यस्य गत्वान्तमनुद्धता ये तेजस्विनः ते न विकत्थना ये ॥७॥
यः सार्वजन्यं सुभगत्वमिच्छेद् गुणान् स सर्वस्य वदेत् परोक्षं ( परोक्षे) । प्राप्नोति दोषान् असतोऽपि अनेकान् परस्य यो दोषकथां करोति ॥८॥
सर्वौपकारानुगतस्य लोकः सर्वौपकारानुगतो नरस्य । कृत्वा उपकारं द्विषतां विपत्सुया कीर्तिः अल्प्नेन न सा शुभेन ॥९॥
तृणैः इवाग्निः सुतरां विवृद्धिमाछाद्यमानोऽपि गुणोऽभ्युपैति । स केवलं दुर्जनभावमेति हन्तुं गुणान् वांछति यः परस्य ॥१०॥