दिवि भुक्तशुभफलानां पततां रूपाणि यानि तानि उल्काः । धिष्ण्यौल्काशनिविद्युत्तारा इति पंचधा भिन्नाः ॥१॥
उल्का पक्षेण फलं तद्वद् धिष्ण्याशनिः त्रिभिः पक्षैः । विद्युदहोभिः षड्भिः तद्वत् तारा विपाचयति ॥२॥
तारा फलपादकरी फलार्धदात्री प्रकीर्तिता धिष्ण्या । तिस्रः संपूर्णफला विद्युदथौल्काशनिश्चेति ॥३॥
अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु । निपतति विदारयन्ती धरातलं चक्रसंस्थाना ॥४॥
विद्युत् सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा । कुतिलविशाला निपतति जीवेन्धनराशिषु ज्वलिता ॥५॥
धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यतेऽन्तराभ्यधिकम् । ज्वलितांगारनिकाशा द्वौ हस्तौ सा प्रमाणेन ॥६॥
तारा हस्तं दीर्घा शुक्ला ताम्राब्जतन्तुरूपा वा । तिर्यगधश्च ऊर्ध्वं वा याति वियत्युह्यमाना इव ॥७॥
उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनुपुच्छा । दीर्घा च भवति ( भवति च) पुरुषं भेदा बहवो भवत्यस्याः ॥८॥
प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलांगलमृगाभाः । गोधाहिधूमरूपाः पापा या चौभयशिरस्का ॥९॥
ध्वजझषगिरिकरि ( करिगिरि) कमलेन्दुतुरगसन्तप्तरजतहंसाभाः । श्रीवृक्ष ( वत्स, श्रीवृक्ष) वज्रशंखस्वस्तिकरूपाः शिवसुभिक्षाः ॥१०॥
अंबरमध्याद् बह्व्यो निपतन्त्यो राजराष्ट्रनाशाय । बंभ्रमती गगनोपरि विभ्रममाख्याति लोकस्य ॥११॥
संस्पृशती चन्द्रार्कौ तद्विसृता वा सभूप्रकंपा च । परचक्रागमनृपवधदुर्भिक्षावृष्टिभयजननी ॥१२॥
पौरैतरघ्नमुल्कापसव्यकरणं दिवाकरहिमांशवोः । उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥१३॥
शुक्ला रक्ता पीता कृष्णा चौल्का द्विजादिवर्णघ्नी । क्रमशश्चैतान् हन्युः मूर्धौरःपार्श्वपुच्छस्थाः ॥१४॥
उत्तरदिगादिपतिता विप्रादीनामनिष्टदा रूक्षा । ऋज्वी स्निग्धाखण्डा नीचोपगता च तद्वृद्ध्यै ॥१५॥
श्यावारुण ( श्यामा वारुण) नीलासृग्दहनासितभस्मसन्निभा रूक्षा । सन्ध्यादिनजा वक्रा दलिता च परागमभयाय ॥१६॥
नक्षत्रग्रहघातैः ( घाते) तद्भक्तीनां क्षयाय निर्दिष्टा । उदये घ्नती रवीन्दू पौरैतरमृत्यवेऽस्ते वा ॥१७॥
भाग्यादित्यधनिष्टामूलेषूल्काहतेषु युवतीनाम् । विप्रक्षत्रियपीडा पुष्यानिलविष्णुदेवेषु ॥१८॥
ध्रुवसौम्येषु नृपाणामुग्रेषु सदारुणेषु चौराणाम् । क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते ॥१९॥
कुर्वन्त्येताः पतिता देवप्रतिमासु राजराष्ट्रभयम् । शक्रोपरि नृपतीनां गृहेषु तत्स्वामिनां पीडाम् ॥२०॥
आशाग्रहौपघाते तद्देश्यानां खले कृषिरतानाम् । चैत्यतरौ संपतिता सत्कृतपीडां करोत्युल्का ॥२१॥
द्वारि पुरस्य पुरक्षयमथेन्द्रकीले जनक्षयोऽभिहितः । ब्रह्मायतने विप्रान् विनिहन्याद् गोमिनो गोष्ठे ॥२२॥
क्ष्वेडास्फोटितवादितगीतौत्कुष्टस्वना भवन्ति यदा । उल्कानिपातसमये भयाय राष्ट्रस्य सनृपस्य ॥२३॥
यस्याश्चिरं तिष्ठति खेऽनुषंगो दण्डाकृतिः सा नृपतेः भयाय । या चौह्यते तन्तुधृता इव खस्था या वा महेन्द्रध्वजतुल्यरूपा ॥२४॥
श्रेष्ठिनः प्रतीपगा तिर्यगा नृपांगनानां ( नृपांगनाः) । हन्त्यधोमुखी नृपान् ब्राह्मणान् अथ ऊर्ध्वगा ॥२५॥
बर्हि ( वर्हि) पुच्छरूपिणी लोकसंक्षयावहा । सर्पवत् प्रसर्पती ( प्रसर्पिणी) योषितामनिष्टदा ॥२६॥
हन्ति मण्डला पुरं छत्रवत् पुरोहितम् । वंशगुल्मवत् स्थिता राष्ट्रदोषकारिणी ॥२७॥
व्यालसूकरौपमा विस्फुलिंगमालिनी । खण्डशोऽथवा गता सस्वना च पापदा ॥२८॥
सुरपितचापप्रतिमा राज्यं नभसि विलीना जलदान् हन्ति । पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा ॥२९॥
अभिभवति यतः पुरं बलं वा भवति भयं तत एव पार्थिवस्य । निपतति च यया दिशा प्रदीप्ता जयति रिपून् अचिरात् तया प्रयातः ॥३०॥