प्रभूतवस्त्रदाश्विनी भरणि अथापहारिणी । प्रदह्यतेऽग्निदैवते प्रजेस्वरेऽर्थसिद्धयः ॥१॥
मृगे तु मूषकाद् भयं व्यसुत्वमेव शंकरे । पुनर्वसौ शुभागमः तदग्रभे धनैः युतिः ॥२॥
भुजंगभे विलुप्यते मघासु मृत्युमादिशेत् । भगाह्वये नृपाद् भयं धनागमाय चौत्तरा ॥३॥
करेण कर्मसिद्धयः शुभागमः तु चित्रया । शुभं च भोज्यमानिले द्विदैवते जनप्रियः ॥४॥
सुहूद्युतिः ( सुहृद्युतिः) च मित्रभे तदग्रभे ( पुरन्दरे) ऽबरक्षयः । जलप्लुतिश्च नैरृते रुजो जलाधिदैवते ॥५॥
मिष्टमन्नमपि वैश्वदैवते वैष्णवे भवति नेत्ररोगता । धान्यलब्धिः ( लब्धिं) अपि ( अथ) वासवे ( विश्वदैवते) विदुः वारुणे विषकृतं महद्भयम् ॥६॥
भद्रपदासु भयं सलिलोत्थं ( ७१।१२ब्) तत्परतश्च भवेत् सुतलब्धिः । रत्नयुतिं कथयन्ति च पौष्णे ( ७१।१२द्) योऽभिनवांबरमिच्छति भोक्तुम् ॥७॥
विप्रमतादथ भूपतिदत्तं यग विवाहविधावभिलब्धम् । तेषु गुणै रहितेष्वपि भोक्तुं नूतनमंबरमिष्टफलं स्यात् ॥८॥
भोक्तुं नवांबरं शस्तम् ऋक्षेऽपि गुणवर्जिते । विवाहे राजसम्माने ब्रह्मणाणां च सम्मते ॥९॥
वस्त्रस्य कोणेषु वसन्ति देवा नराश्च पाशान्तदशान्तमध्ये । शेषाः त्रयश्चात्र निशाचरांशाः तथैव शय्यासनपादुकासु ॥१०॥
लिप्ते मषीगोमयकर्दमाद्यैश्छिन्ने प्रदग्धे स्फुटिते च विन्द्यात् । पुष्टं नवेऽल्पाल्पतरं च भुक्ते पापं शुभं चाधिकमुत्तरीये ॥११॥
रुग्राक्षसांशेस्वथवाऽपि मृत्युः पुञ्जन्मतेजश्च मनुष्यभागे । भागेऽमराणामथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ॥१२॥
कंकप्लवौलूककपोतकाकक्रव्यादगोमायुखरौष्ट्रसर्पैः । छेदाकृतिः दैवतभागगापि पुंसां भयं मृत्युसमं करोति ॥१३॥
छत्रध्वजस्वस्तिकवर्धमानश्रीवृक्षकुंभांबुजतोरणाद्यैः । छेदाकृतिः नैरृतभागगा अपि पुंसां विधत्ते नचिरेण लक्ष्मीम् ॥१४॥