रत्नेन शुभेन शुभं भवति नृपाणामनिष्तमशुभेन । यस्मादतः परीक्ष्यं दैवं रत्नाश्रितम् तज्ञैः ॥१॥
द्विपहयवनितादीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति । इह तूपलरत्नानामधिकारो वज्रपूर्वाणाम् ॥२॥
रत्नानि बलाद् दैत्याद् दधीचितोऽन्ये वदन्ति जातानि । केचिद् भुवः स्वभावाद् वैचित्र्यं प्राहुरुपलानाम् ॥३॥
वज्रेन्द्रनीलमरकतकर्केतरपद्मरागरुधिराख्याः । वैदूर्य ( वैडूर्य) पुलकविमलकराजमणिस्फतिकशशिकान्ताः ॥४॥
सौगन्धिकगोमेदकशंखमहानीलपुष्परागाख्याः । ब्रह्ममणिज्योतीरससस्यकमुक्ताप्रवालानि ॥५॥
वेणातटे विशुद्धं शिरीषकुसुमप्रभं ( क्।उपमं) च कौशलकम् । सौराष्ट्रकमाताम्रं कृष्णं सौर्पारकं वज्रम् ॥६॥
ईषत्ताम्रं हिमवति मतंगजं वल्लपुष्पसंकाशम् । आपीतं च कलिंगे श्यामं पौण्ड्रेषु संभूतम् ॥७॥
एन्द्रं षडश्रि शुक्लं याम्यं सर्पास्यरूपमसितं च । कदलीकाण्डनिकाशं वैष्णवमिति सर्वसंस्थानम् ॥८॥
वारुणमबलागुह्योपमं भवेत् कर्णिकारपुष्पनिभम् । शृंगाटकसंस्थानं व्याघ्राक्षिनिभं च हौतभुजम् ॥९॥
वायव्यं च यवोपममशोककुसुमप्रभं समुद्दिष्टम् । स्रोतः खनिः प्रकीर्णकमित्याकरसंभवः त्रिविधः ॥१०॥
रक्तं पीतं च शुभम् राजन्यानाम् सितम् द्विजातीनाम् । शैरीषं वैश्यानां शूद्राणां शस्यतेऽसितनिभम् ॥११॥
सितसर्षपाष्टकं तण्डुलो भवेत् तण्डुलैः तु विंशत्या । तुलितस्य द्वे लक्षे मूल्यं द्विद्व्यूनिते चैतत् ॥१२॥
पादत्र्यंशार्धोनं त्रिभागपंचांशषोडशांशाश्च । भागश्च पंचविंशः शतिकः साहस्रिकश्चेति ॥१३॥
सर्वद्रव्याभेद्यं लघ्वंभसि तरति रश्मिवत् स्निघ्दम् । तडिदनलशक्रचापोपमं च वज्रं हितायोक्तम् ॥१४॥
काकपदमक्षिकाकेशधातुयुक्तानि शर्करैः ( शर्करा) विद्धम् । द्विगुणाश्रि दग्ध ( दिग्ध) कलुषत्रस्तविशीर्णानि न शुभानि ॥१५॥
यानि च बुद्बुददलिताग्रचिपिटवासीफलप्रदीर्घाणि । सर्वेषां चैतेषां मूल्याद् भागोऽष्टमो हानिः ॥१६॥
वज्रं न किंचिदपि धारयितव्यमेके पुत्रार्थिनीभिः अबलाभिरुशन्ति तज्ञाः । शृंगाटकत्रिपुटधान्यकवत् स्थितं यच् श्रोणीनिभं च शुभदं तनयार्थिनीनाम् ॥१७॥
स्वजनविभवजीवितक्षयं जनयति वज्रमनिष्टलक्षणम् । अशनिविषभयारिनाशनम् शुभमुप ( उरु) भोगकरं च भूभृताम् ॥१८॥