प्रतिसूर्यकः प्रशस्तो दिवसकृदृतुवर्णसप्रभः स्निग्धः । वैदूर्यनिभः स्वच्छः शुक्लश्च क्षेमसौभिक्षः ॥१॥
पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय । प्रतिसूर्याणां माला दस्युभयातंकनृपहन्त्री ॥२॥
दिवसकृतः प्रतिसूर्यो जलकृदुरग्दक्षिणे स्थितोऽनिलकृट् । उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥३॥