संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|वराहमिहीरस्य बृहत्संहिताः|
अध्याय ४६

बृहत्संहिताः - अध्याय ४६

’बृहत्संहिता’ ग्रंथात वास्तुविद्या, भवन निर्माण कला, वायुमंडळाची रचना, वृक्ष आयुर्वेद इ. विषय अंतर्भूत आहेत.


दिव्यान्तरिक्षाश्रयमुक्तमादौ मया फलं शस्तमशोभनं च ।

प्रायेण चारेषु समागमेषु युद्धेषु मार्गादिषु विस्तरेण ॥१॥

भूयो वराहमिहिरस्य न युक्तमेतत् कर्तुं समासकृदसविति तस्य दोषः ।

तज्ञैः न वाच्यमिदमुक्तफलानुगीति यद् बर्हि ( वर्हि) चित्रकमिति प्रथितं वरांगम् ॥२॥

स्वरूपमेव तस्य तत्प्रकीर्तितानुकीर्तनम् । ब्रवीम्यहं न चेदिदं तथाऽपि मेऽत्र वाच्यता ॥३॥

उत्तरवीथिगता द्युतिमन्तः क्षेमशुभिक्षशिवाय समस्ताः । दक्षिणमार्गगता द्युतिहीनाः क्षुद्भयतस्करमृत्युकराः ते ॥४॥

कोष्ठागारगते भृगुपुत्रे पुष्यस्थे च गिराम् प्रभविष्णौ । निर्वैराः क्षितिपाः सुखभाजः संहृष्टाश्च जना गतरोगाः ॥५॥

पीडयन्ति यदि कृत्तिकां मघां रोहिणीं श्रवमेन्द्रमेव वा । प्रोज्झ्य सूर्यमपरे ग्रहाः तदा पश्चिमा दिग् अनयेन पीड्यते ॥६॥

प्राच्यां चेद् ध्वजवदवस्थिता दिनान्ते प्राच्यानां भवति हि विग्रहो नृपाणाम् ।

मध्ये चेद् भवति हि मध्यदेशपीठा ( पीडा) रूक्षैः तैः न तु रुचिमन् ( रुचिरैः) मयूखवद्भिः ॥७॥

दक्षिणां ककुभमाश्रितः ( आश्रितैः) तु तैः दक्षिणापथपयोमुचां क्षयः । हीनरूक्षतनुभिश्च विग्रहः स्थूलदेहकिरणान्वितैः शुभम् ॥८॥

उत्तरमार्गे स्पष्टमयूखाः शान्तिकराः ते तन् नृपतीनाम् । ह्रस्वशरीरा भस्मसवर्णा दोषकराः स्युः देशनृपाणाम् ॥९॥

नक्षत्राणां तारकाः सग्रहाणाम् धूमज्वालाविस्फुलिंगान्विताश्चेत् । आलोकं वा निर्निमित्तं न यान्ति याति ध्वंसं सर्वलोकः सभूपः ॥१०॥

दिवि भाति यदा तुहिनांशुयुगं द्विजवृद्धिः अतीव तदाशु शुभा । तदनन्तरवर्णरणोऽर्कयुगे जगतः प्रलयः त्रिचतुष्प्रभृति ॥११॥

मुनीन् अभिजितं ध्रुवं मघवतश्च भं संस्पृशन् शिखी घनविनाशकृत् कुशलकर्महा शोकदः ।

भुजंगं ( भुजंगभं) अथ संस्पृशेद् भवति वृष्टिनाशो ध्रुवं क्षयं व्रजति विद्रुतो जनपदश्च बालाकुलः ॥१२॥

प्राग्द्वारेषु चरन् रविपुत्रो नक्षत्रेषु करोति च वक्रम् । दुर्भिक्षं कुरुते महदुग्रं ( भयमुग्रं) मित्राणां च विरोधमवृष्टिम् ॥१३॥

रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरोऽथवा शिखी । किं वदामि यदनिष्टसागरे जगदशेषमुअपयाति संक्षयम् ॥१४॥

उदयति सततं यदा शिखी चरति भचक्रमशेषमेव वा । अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत् ॥१५॥

धनुःस्थायी रूक्षो रुधिरसदृशः क्षुद्भयकरो बलोद्योगं चन्द्रः ( चेन्दुः) कथयति जयं ज्याऽस्य च यतः ।

गवांअवाक्) शृंगो गोघ्नो निधनमपि सस्यस्य कुरुते ज्वलन् धूमायन् वा नृपतिमरणायैव भवति ॥१६॥

स्निग्धः स्थूलः समशृंगो विशालः तुंगश्चौदग्विचरन् नागवीथ्याम् । दृष्टः सौम्यैः अशुभैः विप्रयुक्तो लोकानन्दं कुरुतेऽतीव चन्द्रः ॥१७॥

पित्र्यमैत्रपुरुहूतविशाखात्वाष्ट्रमेत्य च युनक्ति शशांकः । दक्षिणेन न शुभः शुभकृत् ( शुभो हितकृत्) स्याद् यद्युदक् चरति मध्यगतो वा ॥१८॥

परिघ इति मेघरेखा या तिर्यग्भास्करोदयेऽस्ते वा । परिधिः तु प्रतिसूर्यो दण्डः त्वृजुः इन्द्रचापनिभः ॥१९॥

उदयेऽस्ते वा भानोः ये दीर्घा रश्मयः त्वमोघाः ते । सुरचापखण्डम् ऋजु यद्रोहितमैरावतं दीर्घम् ॥२०॥

अर्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका यावत् । तेजःपरिहानिमुखाद् भानोः अर्धोदयो यावत् ॥२१॥

तस्मिन् सन्ध्याकाले चिह्नैः एतैः शुभाशुभं वाच्यम् । सर्वैः एतैः स्निग्धैः सद्यो वर्षं भयं रूक्षैः ॥२२॥

अच्छिन्नः परिघो वियग विमलं श्यामा मयूखा रवेः स्निग्धा दीधितयः मितं ( सितं) सुरधनुर्विद्युग पूर्वोत्तरा ।

स्निग्धो मेघतरुः दिवाकरकरैः आलिंगितो वा यदा वृष्टिः स्याद् यदि वाऽर्कमस्तसमये मेघो महान् छादयेत् ॥२३॥

खण्डो वक्रः कृष्णो ह्रस्वः काकाद्यैः वा चिह्नैः विद्धः । यस्मिन् देशे रूक्षश्चार्कः तत्राभावः प्रायो राज्ञः ॥२४॥

वाहिनीं समुपयाति पृष्ठतो मांसभुक् खगगणो युयुत्सतः । यस्य तस्य बलविद्रवो महान् अग्रैः तु विजयो विहंगमैः ॥२५॥

भानोरुदये यदि वास्तमये गन्धर्वपुरप्रतिमा ध्वजिनी । विंबं निरुणद्धि तदा नृपतेः प्राप्तं समरं सभयं प्रवदेत् ॥२६॥

शस्ता शान्तिद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च । पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा ॥२७॥

यद्विस्तरेण कथितं मुनिभिः तदस्मिन् सर्वं मया निगदितं पुनरुक्तवर्जम् । श्रुत्वाऽपि कोकिलरुतं बलिभुग्विरौति यत्तत् स्वभावकृतमस्य पिकं न जेतुम् ॥२८॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP