सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः । नानावर्णाकृतयः तन्वभ्रे व्योम्नि परिवेषाः ॥१॥
ते रक्तनीलपाण्डुरकापोताभ्राभशबलहरित ( हरि) शुक्लाः । इन्द्रयमवरुणनिरृतिश्वसनेशपितामहांबु ( अग्नि) कृताः ॥२॥
धनदः करोति मेचकमन्योन्यगुणाश्रयेण चाप्यन्ये । प्रविलीयते मुहुर्मुहुः अल्पफलः सोऽपि वायुकृतः ॥३॥
चाषशिखिरजततैलक्षीरजलाभः स्वकालसंभूतः । अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ॥४॥
सकलगगनानुचारी नैकाभः क्षतजसन्निभो रूक्षः । असकलशकटशरासनशृंगाटकवत् स्थितः पापः ॥५॥
शिखिगलसमेऽतिवर्ष्णे बहुवर्णे नृपवधो भयं धूम्रे । हरिचापनिभे युद्धानि अशोककुसुमप्रभे चापि ॥६॥
वर्णेनएकेन यदा बहुलः स्निग्धः क्षुराभ्रकाकीर्णः । स्वऋतौ सद्यो वर्षं करोति पीतश्च दीप्तार्कः ॥७॥
दीप्तमृगविहंग ( विहंगमृग) रुतः कलुषः सन्ध्यात्रयोत्थितोऽतिमहान् । भयकृत् तडिदुल्काद्यैः हतो नृपं हन्ति शस्त्रेण ॥८॥
प्रतिदिनमर्कहिमांश्वोः अहर्निशं रक्तयोः नरेन्द्रवधः । परिविष्टयोः अभीक्षणं लग्नास्तमय ( अस्तनभः) स्थयोः तद्वत् ॥९॥
सेनापतेः भयकरो द्विमण्डलो नातिशस्त्रकोपकरः । त्रिप्रभृति शस्त्रकोपं युवराजभयं नगररोधम् ॥१०॥
वृष्टिः त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे । होराजन्माधिपयोः जन्मर्क्षे वांशुभो ( वाशुभो) राज्ञः ॥११॥
परिवेषमण्डलगतो रवितनयः क्षुद्रधान्यनाशकरः । जनयति च वातवृष्टिं स्थावरकृषिकृन् निहन्ता च ॥१२॥
भौमे कुमारबलपतिसैन्यानां विद्रवोऽग्निशस्त्रभयम् । जीवे परिवेषगते पुरोहितामात्यनृपपीडा ॥१३॥
मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च । शुक्रे यायिक्षत्रियराज्ञी ( राज्ञां) पीडा प्रियं चान्नम् ॥१४॥
क्षुदनलमृत्युनराधिपशस्त्रेभ्यो जायते भयं केतौ । परिविष्टे गर्भभयं राहौ व्याधिः नृपभयं च ॥१५॥
युद्धानि विजानीयात् परिवेषाभ्यन्तरे द्वयोः ग्रहयोः । दिवसकृतः शशिनो वा क्षुदवृष्टिभयं त्रिषु प्रोक्तम् ॥१६॥
याति चतुर्षु नरेन्द्रः सामात्यपुरोहितो वशं मृत्योः । प्रलयमिव विद्धि जगतः पंचादिषु मण्डलस्थेषु ॥१७॥
ताराग्रहस्य कुर्यात् पृथग् एव समुत्थितो नरेन्द्रवधम् । नक्षत्राणामथवा यदि केतोः नौदयो भवति ॥१८॥
विप्रक्षत्रियविट्शूद्रहा भवेत् प्रतिपदादिषु क्रमशः । श्रेणीपुरकोशानां पंचम्यादिष्वशुभकारी ॥१९॥
युवराजस्याष्टम्यां परतः त्रिषु पार्थिवस्य दोषकरः ॥॥पुररोधो द्वादश्यां सैन्यक्षोभः त्रयोदश्याम् ॥२०॥
नरपतिपत्नीपीडां परिवेषोऽभ्युत्थितश्चतुर्दश्याम् । कुर्यात् तु पंचदश्यां पीडां मनुजाधिपस्यएव ॥२१॥
नागरकाणामभ्यन्तरस्थिता यायिनां च बाह्यस्था । परिवेषमध्यरेखा विज्ञेयाक्रन्दसाराणाम् ॥२२॥
रक्तः श्यामो रूक्षश्च भवति येषां पराजयः तेषाम् । स्निग्धः श्वेतो द्युतिमान् येषां भागो जयः तेषाम् ॥२३॥