भगवति जलधरपक्ष्मक्षपाकरार्केक्षणे कमलनाभे । उन्मीलयति तुरंग ( तुरंगन) करिनरनीराजनं कुर्यात् ॥१॥
द्वादश्यामष्टम्यां कार्तिक ( कार्त्तिक) शुक्लस्य पंचदश्यां वा । आश्वयुजे वा कुर्यान् नीराजनसंज्ञितां शान्तिम् ॥२॥
नगरोत्तरपूर्वदिशि प्रशस्तभूमौ प्रशस्तदारुमयम् । षोडशहस्तोच्छ्रायं दशविपुलं तोरणं कार्यम् ॥३॥
सर्जौदुंबरककुभशाखामय ( शाखाककुभमयं) शान्तिसद्म कुशबहुलम् । वंशविनिर्मितमत्स्यध्वजचक्रालंकृतद्वारम् ॥४॥
प्रतिसरया तुरगाणां भल्लातकशालिकुष्ठसिद्धार्थान् । कण्ठेषु निबध्नीयात् पुष्ट्यर्थं शान्तिगृहगाणाम् ॥५॥
रविवरुणविश्वदेवप्रजेशपुरुहूतवैष्णवैः मन्त्रैः । सप्ताहं शान्तिगृहे कुर्यात्शान्तिं तुरंगाणाम् ॥६॥
अभ्यर्चिता न परुषं वक्तव्या नापि ताडनीयाः ते । पुण्याहशंखतूर्यध्वनिगीतरवैः विमुक्तभयाः ॥७॥
प्राप्ते अष्टमेऽह्नि कुर्यादुदन्मुखं तोरणस्य दक्षिणतः । कुशचीरावृतमाश्रममग्निं पुरतोऽस्य वेद्यां च ॥८॥
चन्दनकुष्ठसमंगाहरितालमनःशिलाप्रियंगुवचाः । दन्त्यमृताञ्जनरजनीसुवर्णपुष्प्यग्निपुष्पाग्नि) मन्थाश्च ॥९॥
श्वेतां सपूर्णकोशां कटंभरात्रायमाणसहदेवीः । नागकुसुमं स्वगुप्तां शतावरीं सोमराजीं च ॥१०॥
कलशेष्वेताः ( एतान्) कृत्वा संभारान् उपहरेद् वलिं ( बलिं) सम्यक् ॥॥भक्ष्यैः नानाकारैः मधुपायसयावकप्रचुरैः ॥११॥
खदिरपलाशौदुंबरकाश्मर्यश्वत्थनिर्मिताः समिधः । स्रुक् कनकाद् रजताद् वा कर्तव्या भूतिकामेन ॥१२॥
पूर्वाभिमुखः श्रीमान् वैयाघ्रे चर्मणि स्थितो राजा । तिष्ठेदनलसमीपे तुरगभिषग्दैववित्सहितः ॥१३॥
यात्रायां यदभिहितं ग्रहयज्ञविधौ महेन्द्रकेतौ च । वेदीपुरोहितानललक्षणमस्मिं तदवधार्यम् ॥१४॥
लक्षणयुक्तं तुरगं द्विरदवरं चैव दीक्षितं स्नातम् । अहतसितांबरगन्धस्रग्धूम ( धूपा) अभ्यर्चितं कृत्वा ।
आश्रमतोरणमूलं समुपनयेत् सान्त्वयन् शनैः वाचा । वादित्रशंखपुण्याहनिःस्वनापूरितदिगन्तम् ॥१५॥
यद्यानीतः तिष्ठेद् दक्षिणचरणं हयः समुत्क्षिप्य । स जयति तदा नरेन्द्रः शत्रून् नचिराद् ( अचिराद्) विना यत्नात् ॥१६॥
त्रस्यन् नैष्टो राज्ञः परिशेषं चेष्टितं द्विपहयानाम् । यात्रायां व्याख्यातं तदिह विचिन्त्यं यथायुक्ति ॥१७॥
पिण्डमभिमन्त्र्य दद्यात् पुरोहितो वाजिने स यदि जिघ्रेत् । अश्नीयाद् वा जयकृद् विपरीतोऽतोऽन्यथाभिहितः ॥१८॥
कलशौदकेषु शाखामाप्लाव्यौदुंबरीं स्पृशेत् तुरगान् । शान्तिकपौष्टिकमन्त्रैः एवं सेनां सनृपनागाम् ॥१९॥
शान्तिं राष्ट्रविवृद्ध्यै कृत्वा भूयोऽभिचारकैः मन्त्रैः । मृत्मयमरिं विभिन्द्यात्शूलेनोरःस्थले विप्रः ॥२०॥
खलिनं हयाय दद्यादभिमन्त्र्य पुरोहितः ततो राजा । आरुह्यौदक्पूर्वां यायान् नीराजितः सबलः ॥२१॥
मृदंगशंखध्वनिहृष्टकुञ्जरस्रवन्मदामोदसुगन्धमारुतः । शिरोमणिप्रान्त ( व्रात) चलत् प्रभाचयैः ज्वलन् विविस्वान् इव तोयदात्यये ॥२२॥
हंसपंक्तिभिः इतः ततोऽद्रिराट् संपतद्भिः इव शुक्लचामरैः । मृष्टगन्धपवनानुवाहिभिः धूयमानरुचिरस्रगंबरः ।
नैकवर्णमणिवज्रभूषितैः भूषितो मुकुटकुण्डलांगदैः । भूरिरत्नकिरणानुरञ्जितः शक्रकार्मुकरुचिं ( रुचं) समुद्वहन् ॥२३॥
उत्पतद्भिः इव खं तुरंगमैः दारयद्भिः इव दन्तिभिः धराम् । निर्जितारिभिः इवामरैः नरैः शक्रवत् परिवृतो व्रजेन् नृपः ॥२४॥
सवज्रमुक्ताफलभूषणोऽथवा सितस्रगुष्णीषविलेपनांबरः । धृतातपत्रो गजपृष्ठमाश्रितो घनोपरीवेन्दुतले भृगोः सुतः ॥२५॥
संप्रहृष्टनरवाजिकुञ्जरं निर्मलप्रहरणांशुभासुरम् । निर्विकारमरिपक्षभीषणं यस्य सैन्यमचिरात् स गां जयेत् ॥२६॥