केदारखण्डः - अध्यायः ५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥लोमश उवाच ॥
विष्णौ गते तदा सर्वे देवाश्च ऋषिभिः सह ॥
विनिर्जिता गणैः सर्वे ये च यज्ञोपजीविनः ॥१॥
भृगुं च पातयामास स्मश्रूणां लुंचनं कृतम् ॥
द्विजांश्चोत्पाटयामास पूष्णो विकृतविक्रियान् ॥२॥
विडंबिता स्वधा तत्र ऋषयश्च विडंबिताः ॥
ववृषुस्ते पुरीषेण वितानाग्नौ रुपान्विताः ॥३॥
अनिर्वाच्यं तदा चक्रुर्गणाः क्रोधसमन्विताः ॥
अंतर्वेद्यंतरगतो दक्षो वै महतो भयात् ॥४॥
तं निलीनं समाज्ञाय आनिनायरुषान्वितः ॥
कपोलेषु गृहीत्वा तं खड्गेनोपहतं शिरः ॥५॥
अभेद्यं तच्छिरो मत्वा वीरभद्रः प्रतापवान् ॥
स्कंधं पद्भ्यां समाक्रम्य कधरेऽपीडयत्तदा ॥६॥
गंधरात्पाट्यमानाच्च शिरश्छिन्नं दुरात्मनः ॥
दक्षस्य च तदा तेन वीरभद्रेण धीमता ॥
तच्छिरः सुहुतं कुंडे ज्वलिxxxxxxx ॥७॥
ये चान्य ऋषयो देवाः पितरो यक्षराक्षसाः ॥
गणैरुपद्रुताः सर्वे पलायनपरा ययुः ॥८॥
चंद्रादित्यगणाः सर्वे ग्रहनक्षत्रतारकाः ॥
सर्वे विचलिता ह्यासन्गणैस्तेपि ह्युपद्रुताः ॥९॥
सत्यलोकं गतो ब्रह्मा पुत्रशोकेन पीडितः ॥
चिंतयामास चाव्यग्रः किं कार्यं कार्यमद्य वै ॥१०॥
मनसा दूयमानेन शंन लेभे पितामहः ॥
ज्ञात्वा सर्वं प्रयत्नेन दुष्कृतं तस्य पापिनः ॥११॥
गमनाय मतिं चक्रे कैलासं पर्वतं प्रति ॥
हंसारूढो महातेजाः सर्वदेवैः समन्वितः ॥१२॥
प्रविष्टः पर्वतश्रेष्ठं स ददर्श सदाशिवम् ॥
एकांतवासिनं रुद्रं शैलादेन समन्वितम् ॥१३॥
कपर्द्दिनं श्रिया युक्तं वेदांगानां च दुर्गमम् ॥
तथाविधं समालोक्य ब्रह्म क्षोभपरोऽभवत् ॥१४॥
दंडवत्पतितो भूमौक्षमापयितुमुद्यतः ॥
संस्पृशं स्तत्पदाब्जं च चतुर्मुकुटकोटिभिः ॥
स्तुतिं कर्तुं समारेभे शिवस्य परमात्मनः ॥१५॥
॥ब्रह्मोवाच ॥
नमो रुद्राय शांताय ब्रह्मणे परमात्मने ॥
त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः ॥१६॥
नमो रुद्राय महते नीलकंठाय वेधसे ॥
विश्वाय विश्वबीजाय जगदानंदहेतवे ॥१७॥
ओंकारस्त्वं वषट्कारः सर्वारंभप्रवर्तकः ॥
यज्ञोसि यज्ञकर्मासि यज्ञानां च प्रवर्तकः ॥१८॥
सर्वेषां यज्ञकर्तॄणां त्वमेव प्रतिपालकः ॥
शरण्योसि महादेव सर्वेषां प्राणिनां प्रभो ॥
रक्ष रक्ष महादेव पुत्रशोकेन पीडितम् ॥१९॥
॥महादेव उवाच ॥
श्रृणुष्वावहितो भूत्वा मम वाक्यं पितामह ॥
दक्षस्य यज्ञभंगोयं न कृतश्च मया क्वचित् ॥२०॥
स्वीयेन कर्मणा दक्षो हतो ब्रह्मन्न संशयः ॥२१॥
परेषां क्लेशदं कर्म न कार्यं तत्कदाचन ॥
परमेष्ठिन्परेषां यदात्मनस्तद्भविष्यति ॥२२॥
एवमुक्त्वा तदा रुद्रो ब्रह्मणा सहितः सुरैः ॥
ययौ कनखलं तीर्थं यज्ञवाटं प्रजापतेः ॥२३॥
रुद्रस्तदा ददर्शाय वीरभद्रेण यत्कृतम् ॥
स्वाहा स्वधा तथा पूषा भृगुर्मतिमतां वरः ॥२४॥
तदान्य ऋषयः सर्वे पितरश्च तथाविधाः ॥
येऽन्ये च बहवस्तत्र यक्षगंधर्वकिन्नराः ॥२५॥
त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे ॥२६॥
शंभुं समागतं दृष्ट्वा वीरभद्रो गणैः सह ॥
दंडप्रणामसंयुक्तस्तस्थावग्रे सदाशिवम् ॥२७॥
दृष्ट्वा पुरः स्थितं रुद्रो वीरभद्रं महाबलम् ॥
उपाच प्रहसन्वाक्यं किं कृतं वीर नन्विदम् ॥२८॥
दक्षमानय शीघ्रं भो येनेदं कृतमीदृशम् ॥
यज्ञे विलक्षणं तात यस्येदं फलमीदृशम् ॥२९॥
एवमुक्तः शंकरेण वीरभद्रस्त्वरान्वितः ॥
कबंधमानयित्वाथ शंभोरग्रे तदाक्षिपत् ॥३०॥
तदोक्तः शंकरेणैव वीरभद्रो महामनाः ॥
शिरः केना पनीतं च दक्षस्यास्य दुरात्मनः ॥३१॥
दास्यामि जीवनं वीर कुटिलस्यापि चाधुना ॥
एवमुक्तः शंकरेण वीरभद्रोऽब्रवीत्पुनः ॥३२॥
मया शिरो हुतं चाग्नौ तदानीमेव शंकर ॥
अवशिष्टं शिरःशंभो पशोश्च विकृताननम् ॥३३॥
इति ज्ञात्वा ततो रुद्रः कबंधोपरि चाक्षिपत् ॥
शिरः पशोश्च विकृतं कूर्चयुक्तं भयावहम् ॥३४॥
स दक्षो जीवितं लेभे प्रसादाच्छंकरस्य च ॥
स दृष्ट्वाग्रे तदा रुद्रं दक्षो लज्जासमन्वितः ॥
तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम् ॥३५॥
॥दक्ष उवाच ॥
नमामि देवं वरदं वरेण्यं नमामि देवेश्वरं सनातनम् ॥
नमामि देवाधिपमीश्वरं हरं नमामि शंभुं जगदेकबंधुम् ॥३६॥
नमामि विश्वेश्वरविश्वरूपं सनातनं ब्रह्म निजात्मरूपम् ॥
नमामि सर्वं निजभावभावं वरं वरेण्यं नतोऽस्मि ॥३७॥
॥लोमश उवाच ॥
दक्षेण संस्तुतो रुद्रो बभाषे प्रहसन्रहः ॥३८॥
॥हर उवाच ॥
चतुर्विधा भजंते मां जनाः सुकृतिनः सदा ॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च द्विजसत्तम ॥३९॥
तस्मान्मे ज्ञानिनः सर्वे प्रियाः स्युर्नात्र संशयः ॥
विना ज्ञानेन मां प्राप्तुं यतंते ते हि बालिशः ॥४०॥
केवलं कर्मणा त्वं हि संसारात्तर्तुमिच्छसि ॥४१॥
न वेदैश्च न दानैश्च न यज्ञैस्तपसा क्वचित् ॥
न शक्नुवंति मां प्राप्तुं मूढाः कर्म्मवशानराः ॥४२॥
तस्माज्ज्ञानपरो भूत्वा कुरु कर्म्म समाहितः ॥
सुखदुःखसमो भूत्वा सुखी भव निरंतरम् ॥४३॥
॥लोमश उवाच ॥
उपदिष्टस्तदा तेन शंभुना परमेष्ठिना ॥
दक्षं तत्रैव संस्थापाय ययो रुद्रः स्वपर्वतम् ॥४४॥
ब्रह्मणापि तथा सर्वे भृग्वाद्याश्च महर्षयः ॥
आश्वासिता बोधिताश्च ज्ञानिनश्चाभवन्क्षणात् ॥४५॥
गतः पितामहो ब्रह्मा ततश्च सदनं स्वकम् ॥४६॥
दक्षोपि च स्वयं वाक्यात्परं बोधमुपागतः।
शिवध्यानपरो भूत्वा तपस्तेपे महामनाः ॥४७॥
तस्मात्सर्वप्रयत्नेन संक्षेव्यो भगवाञ्छिवः ॥४८॥
संमार्जनं च कुर्वंति नरा ये च शिवांगणे ॥
ते वै शिवपुरं प्राप्य जगद्वंद्या भग्सि च ॥४९॥
ये शिवस्य प्रयच्छति दर्प्पणं सुमहाप्रभम् ॥
भविष्यंति शिवस्याग्रे पार्षदत्वेन ते नराः ॥५०॥
चामराणि प्रयच्छंति देवदेवस्य शूलिनः ॥
चामरैर्वीज्यपानास्ते भविष्यंति जगत्त्रय ॥५१॥
दीपदानं प्रयच्छंति महादेवालये नराः ॥
तेजस्विनो भविष्यंति ते त्रैलोक्यप्रदीपका ॥५२॥
धूपं ये वै प्रयच्छन्ति शिवाय परमात्मने ॥
यशस्विनो भविष्यंति उद्धरन्ति कुलद्वयम् ॥५३॥
नैवेद्यं ये प्रयच्छंति भकया हरिहराग्रतः ॥
सिक्थेसिक्थे क्रतुफलं प्राप्नुवंति हि ते नराः ॥५४॥
भग्नं शिवालयं ये च प्रकुर्वंति नरोत्तमाः ॥
प्राप्नुवति फल ते वै द्विगुणं नात्र संशयः ॥५५॥
नूतनं ये प्रकृर्वंति इष्टकैरश्मनापि वा ॥
स्वर्गे हि ते प्रमोदंते यावत्तिष्ठति निर्मलम् ॥
यशो भूमौ द्विजश्रेष्ठा कार्या विचारणा ॥५६॥
कारयंति च ये विप्राः प्रासादं बहुभूमिकम् ॥
शिवस्याथ महाप्राज्ञाः प्राप्नुवंति परां गतिम् ॥५७॥
शुद्धं धवलितं ये च कुर्वन्ति हरमंदिरम् ॥
स्वीयं परकृतं चापि तेऽपि यांति परां गतिम् ॥५८॥
वितानं ये प्रयच्छति नराः सुकृतिनोपि हि ॥
तारयति कुलं कृत्स्नं शिवलोकं गताः पुनः ॥५९॥
ये च नादमयीं घंटां निबध्नंति शिवालये ॥
तेजस्विनः कीर्तिमंतो भविष्यंति जगत्त्रये ॥६०॥
एककालं द्विकालं वा त्रिकालं चानुपश्यति ॥
आढ्यो वापि दरिद्रो वा सुखं दुःखात्प्रचुच्यते ॥६१॥
श्रद्धावान्भजते यो वा शिवाय परमात्मने ॥
कुलकोटिं समुद्धृत्य शिवेन सह मोदते ॥६२॥
अत्रैवोदाहरंतीम मितिहासं पुरातनम् ॥
ऐंद्रद्युम्नेश्च संवादं यमस्य च महात्मनः ॥६३॥
पुरा कृतयुगे ह्यसीदिन्द्रसेनो नराधिपः ॥
प्रतिष्ठानाधिपो वीरो मृगयारसिकः सदा ॥६४॥
अब्रह्मण्यः सदा क्रूरः केवलासुतृपः सदा ॥
परप्राणौर्निजप्राणान्पुष्णाति स खलः सदा ॥६५॥
परस्त्रीलं पटोऽत्यंतं परद्रव्येषु लोलुपः ॥
ब्राह्मणा घातितास्तेन सुरापश्च निरंतरम् ॥६६॥
गुरुलत्पगतोत्यर्थं सदा सौवर्णतस्करः ॥
तथाभूतानुगाः सर्वे राज्ञस्तस्य दुरात्मनः ॥६७॥
एवं बहुविधं राज्यं चकार स दुरात्मवान् ॥
ततः कालेन महता पंचत्वं प्राप दुर्मतिः ॥६८॥
तदा याम्यैश्च नीतोऽसाविंद्रसेनो दुरात्मवान् ॥
यमान्तिकमनुप्राप्तस्तदा राजा सकल्मषः ॥६९॥
यमेन दृष्टस्तत्रासाविंद्रसेनोग्रतः स्थितः ॥
अभ्युत्थानपरो भूत्वा ननाम शिरसा शिवम् ॥७०॥
दूतान्संभर्त्सयामास यमो धर्मभृतां वरः ॥
पाशैर्बद्धं चंद्रसेनं मुक्त्वा प्रोवाच धर्मराट् ॥७१॥
गच्छ पुण्यतमाँल्लोकान्भुंक्ष्व राजन्यसत्तम ॥
यावदिंद्रश्च नाकेऽस्ति यावत्सूर्यो नभस्तले ॥७२॥
पंचभूतानि यावच्च तावत्त्वं च सुखी भव ॥
सुकृती त्वं महाराज शिवभक्तोऽसि नित्यदा ॥७३॥
यमस्य वचनं श्रुत्वा इंद्रसेनोभ्यभाषत ॥
अहं शिवं न जानामि मृगयारसिको ह्यहम् ॥७४॥
तच्छ्रुत्वा वचनं तस्य यमो भाष्यमभाषत ॥
आहर प्रहरस्वेति उक्तं चेदं सदा त्वया ॥७५॥
तेन कर्मविपाकेन सदा पूतोसि मानद ॥
तस्मात्त्वं गच्छ कैलासं पर्वतं शंकरं प्रति ॥७६॥
एवं संभाषमाणस्य यमस्य च महात्मनः ॥
आगताः शिवद्वतास्ते वृषारूढा महाप्रभाः ॥७७॥
नीलकंठा दशभुजाः पंचवक्त्रास्त्रिलोचनाः ॥
कपर्द्दिनः कुंडलिनः शशंकांकितमौलयः ॥७८॥
तान्दृष्ट्वा सहसोत्थाय यमो धर्मभृतां वरः ॥
पूजयामास तान्सर्वान्महेंद्रप्रतिमांस्तदा ॥७९॥
त्वरीरेनैव ते सर्वे ऊचुर्वैवस्वतं यमम् ॥
अत्रागतो महाभाग इंद्रसेनोऽमितद्युतिः ॥
नाम्नाः प्रवर्त्तको नित्यं रुद्रस्य च महात्मनः ॥८०॥
श्रुत्वा च वचनं तेषां यमेन च पुरस्कृतः ॥
इंद्रसेनो विमानस्थः प्रेषितो हि शिवालयम् ॥८१॥
आनीतोयं तदा तैश्च पार्षदप्रवरोत्तमैः ॥
शंभुना हि तदा दृष्ट इंद्रसेनोऽमितद्युतिः ॥८२॥
अभ्युत्थायागतो रुद्रः परिष्वज्य तदा नृपम् ॥
अर्द्धासनगतं कृत्वा इंद्रसेनं ततोऽब्रवीत् ॥८३॥
किं दातव्यं नृपश्रेष्ठ प्रयच्छामि तवेप्सितम् ॥
इति श्रुत्वा वचस्तस्य महेशस्य तदा नृपः ॥
आनंदाश्रुकणान्मुंचन्प्रेम्णा नोवाच किंचन ॥८४॥
तदा कृतो महेशेन पार्षदो हि महात्मना ॥
चंडो नाम्नाच विख्यातोमुण्डस्य च सखा प्रियः ॥८५॥
नामोच्चारणमात्रेण रुद्रस्य परमात्मनः ॥
सिद्धिं प्राप्तो हि पापिष्ठ इद्रसेनो नराधिपः ॥८६॥
रहेहरेति वै नाम्ना शंभोश्चक्रधरस्य च ॥
रक्षिता बहवो मर्त्याः शिवेन परमात्मना ॥८७॥
महेशान्नापरो देवो दृश्यतेभुवनत्रये ॥
तस्मात्सर्वप्रयत्नेन पूजनीयः सदाशिवः ॥८८॥
पत्रैःपुष्पैः फलैर्वापि जलैर्वा विमलैः सदा ॥
करवीरैः पूज्यमानः शंकरो वरदो भवेत् ॥८९॥
करवीराद्दशगुणमर्कपुष्पं विशिष्यते ॥
विभूत्यादिकृतं सर्वं जगदेतच्चराचरम् ॥९०॥
शिवस्यांगणलग्ना या तस्मात्तां धारयेत्सदा ॥
ततस्त्रिपुंड्रे यत्पुम्यं तच्छृणुध्वं द्विजोत्तमाः ॥९१॥
सर्वपापहरं पुण्यं तच्छृणुध्वं द्विजोत्तमाः ॥
स्तेनः कोऽपि महापापो घातितो राजदूतकैः ॥९२॥
तं खादितुं समायातः श्वाशिरस्युपरिस्थितः ॥
नखांतरालसंलग्ना रक्षा तस्यैव पापिनः ॥९३॥
ललाटे पतिता तस्य त्रिपुंड्रांकिंतमुद्रया ॥
चैतन्येन विना तस्य देहमात्रैकलग्नया ॥९४॥
कैलासं तस्करो नीतो रुद्रदूतैस्ततस्तदा ॥
विभूतेर्महिमानं तु को विशेषितुर्महति ॥९५॥
विभूत्वा मंडितांगानां नराणां पुण्यकर्मणाम् ॥
मुखे पंचाक्षरो येषां रुद्रास्ते नात्र संशयः ॥९६॥
जटाकलापिनो ये च ये रुद्राक्षविभूषणाः ॥
ते वै मनुष्यरूपेण रुद्रा नास्त्यत्र संशयः ॥९७॥
तस्मात्सदाशिवः पुंभिः पूजनीयो हि नित्यशः ॥
प्रातर्मध्याह्नकाले च सायं संध्या विशिष्यते ॥९८॥
प्रातस्तु दर्शनाच्छंभोर्नैशमेनो व्यपोहति ॥
मध्याह्ने दर्शनाच्छंभोः सप्तजन्मार्जितं नृणाम् ॥
पापं प्रणाशमायाति निशायां नैव गण्यते ॥९९॥
शिवेति द्व्यक्षरं नाम महा पापप्रणाशनम् ॥
येषां मुखोद्गतं नॄणां तैरिदं धार्यते जगत् ॥१००॥
शिवांगणे तु या भेरी स्थापिता पुण्यकर्मभिः ॥
तस्या नादेन पूता वै ये च पापरता जनाः ॥
पाषंडिनोऽप्यसद्वादास्तेऽपि यांति परां गतिम् ॥१०१॥
पशोर्यस्य च संबद्धा चर्मणा च शिवालये ॥
नृभिर्या स्थापिता भेरी मृदंगमुरजादि च ॥
स पशुः शिवसान्निध्यमाप्नोत्यत्र न संशयः ॥१०२॥
तस्मात्ततं च विततं घनं सुषिरमेव च ॥
चामराणि महार्हाणि मंचकाः शयनानि च ॥१०३॥
गाथाश्च इतिहासाश्च गायनं च यथाविधि ॥
बहुरूपादिकं शंभोः प्रियान्येतानि कल्पयेत् ॥१०४॥
कल्पयित्वा च गच्छंति शिवलोकं हि पापिनः ॥
सुधर्माणो महात्मानः शिवपूजाविशारदाः ॥१०५॥
गुरोर्मुखाच्च संप्राप्तशिवपूजारताश्च ये ॥
शिवरूपेण ये विश्वं पश्यंति कृतनिश्चयाः ॥१०६॥
सम्यग्बुद्ध्या समाचारा वर्णाश्रमयुता नराः ॥
ब्राह्मणाः क्षत्रिया वैश्वयाः शूद्राश्चान्ये तथा नराः ॥१०७॥
श्वपचोऽपि वरिष्ठः स शंभोः प्रियतरो भवेत् ॥
शंभुनाधिष्ठितं सर्वं जगदेतच्चराचरम् ॥१०८॥
तस्मात्सर्वं शिवमयं ज्ञातव्यं सुविशेषतः ॥
वेदैः पुराणैः शास्त्रैश्च तथौपनिपदैरपि ॥१०९॥
आगमैर्विविधैः शंभुर्ज्ञातव्यो नात्र संशयः ॥
निष्कामैश्च सकामैश्च पूजनीयः सदा शिवः ॥११०॥
॥लोमश उवाच ॥
कथयामि पुरावृत्तमितिहासं पुरातनम् ॥
नंदी नाम पुरा वैश्यो ह्यवंतीपुरमावसत् ॥१११॥
शिवध्यानपरो भूत्वा शिवपूजां चकार सः ॥
नित्यं तपोवनस्थं हि लिंगमेकं समर्चयत् ॥११२॥
उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः ॥
नंदीलिंगार्च्चनरतो बभूवातिशयेन हि ॥११३॥
लिंगं पंचामृतेनैव यथोक्तेनाभ्यषेचयत् ॥
विप्रैः समावृतो नित्यं वेदवेदांगपारगैः ॥११४॥
यथाशास्त्रेण विधिना लिंगार्चनपरोऽभवत् ॥
स्नापयित्वा ततः पुष्पैर्नानश्चर्यसमन्वितैः ॥११५॥
मुक्ताफलैरिंद्रनीलैर्गोमेदैश्च निरंतरम् ॥
वैडूर्यैश्चैव नीलैश्च माणिक्यैश्च तथार्चयत् ॥११६॥
एवं नंदी महाभागो बहून्यब्दानि चार्च्चयत् ॥
विजनस्थं तदा लिंगं नानाभोगसमन्वितम् ॥११७॥
एकदा मृगयासक्तः किरातो भूतहिंसकः ॥
अविवेकपरो भूत्वा मृगयारसिकः सदा ॥११८॥
पापी पापसमाचारो विचरन्गिरिकंदरे ॥
अनेकश्वापदाकीर्णे हन्यमान इतस्ततः ॥११९॥
एवं विचरमाणोऽसौ किरातो भूतहिंसकः ॥
यदृच्छयागतस्तत्र यत्र लिंगं सुपूजितम् ॥१२०॥
उदकं वीक्षमाणोऽसौ तृषया पीडितो भृशम् ॥
ततो वने सरः शीघ्रं दृष्ट्वा तोये समाविशत् ॥१२१॥
तीरे संस्थाप्य दुष्टात्मा तत्सर्वं मृगयादिकम् ॥
गंडूषोत्सर्जनं कृत्वा पीत्वा तोयं च निर्गतः ॥१२२॥
शिवालयं ददर्शाग्रे अनेकाश्चर्यमंडितम् ॥
दृष्टं सुपूजितं लिंगं नानारत्नैः पृथक्पृथक् ॥१२३॥
तथा लिंगं समालक्ष्य यदा पूजां समाहरत् ॥
रत्नानि सर्वभूतानि विधूतानि इतस्ततः ॥१२४॥
स्नपनं तस्य लिंगस्य कृतं गंडूषवारिणा ॥
करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयत् ॥१२५॥
द्वितीयेन करेँणैव मृगमांसं समर्पयत् ॥
दण्डप्रणामसंयुक्तः संकल्पं मनसाऽकरोत् ॥१२६॥
अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः ॥
त्वं मे स्वामी च भक्तोहमद्यप्रभृति शंकर ॥१२७॥
एवं नैयमिको भूत्वा किरातो गृहमागतः ॥
नन्दी ददर्श तत्सर्वं किरातेन इतस्ततः ॥१२८॥
चिंतायुक्तोऽभवन्नंदी जातं किं छिद्रमद्य मे ॥
कथितानि च विघ्नानि शिवपूजारतस्य च ॥
उपस्थितानि तान्येव मम भाग्यविपर्ययात् ॥१२९॥
एवं विमृश्य सुचिरं प्रक्षाल्य शिवमंदिरम् ॥
यथागतेन मार्गेण नंदी स्वगृहमागतः ॥१३०॥
ततो नंदिनमागत्य पुरोधा गतमानसम् ॥
अब्रवोद्वचनं तं तु कस्मात्त्वं गतमानसः ॥१३१॥
पुरोहितं प्रति तदा नन्दी वचनमब्रवीत् ॥१३२॥
अद्य दृष्टं मया विप्र अमेध्यं शिवसंनिधौ ॥
केनेदं कारितं तत्र न जानामि कथंचन ॥१३३॥
ततः पुरोधा वचनं नन्दिनं चाब्रवीत्तदा ॥
येन विस्खलितं तत्र रत्नादीनां प्रपूजनम् ॥
सोऽपि मूढो न संदेहः कार्याकार्येषु मंदधीः ॥१३४॥
तस्माच्चिंता न कर्तव्या त्वया अणुरपि प्रभो ॥
प्रभाते च मया सार्द्धं गम्यतां तच्छिवालयम् ॥१३५॥
निरीक्षणार्थं दुष्टस्य तत्कार्यं विदधाम्यहम् ॥
एतच्छ्रुत्वा तु वचनं नन्दी तस्य पुरोधसः ॥१३६॥
आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा ॥
तस्यां रात्र्यां व्यतीतायामाहूय च पुरोधसम् ॥१३७॥
गतः शिवालयं नन्दी समं तेन महात्मना ॥
ततो दृष्टं पूर्वदिने कृतंतेन दुरात्मना ॥१३८॥
सम्यक्प्रपूजनं कृत्वा नानारत्नपरिच्छदम् ॥
पञ्चोपचारसंयुक्तं चैकादस्यन्वितं तथा ॥१३९॥
अनेकस्तुतिभिः स्तुत्वा गिरीशं ब्राह्मणैः सह ॥
तदा यामद्वयं जातं स्तूयमानस्य नंदिनः ॥१४०॥
आयातो हि महाकालस्तथारूपो महाबलः ॥
कालरूपो महारौद्रो धनुष्पाणिः प्रतापवान् ॥१४१॥
तं दृष्ट्वा भयवित्रस्तो नन्दी स विललाप ह ॥
पुरोधाश्चैव सहसा भयभीतस्तदाभवत् ॥१४२॥
किरातेन कृतं तत्र यथापूर्वमविस्खलम् ॥
तां पूजां प्रपदाहत्य बिल्वपत्रं समर्पयत् ॥१४३॥
स्नपनं तस्य कृत्वा च ततो गंडूषवारिणा ॥
नैवेद्यं तत्पलं चैव किरातः शिवमर्पयत् ॥१४४॥
दण्डवत्पतितो भूमावुत्थाय स्वगृहं गतः ॥
तद्दृष्ट्वा महदाश्चर्यं चिंतयामास वै चिरम् ॥१४५॥
पुरोधसा सह तदा नंदीव्याकुलचेतसा ॥
तेन चाकारिता विप्रा बहवो वेदवादिनः ॥१४६॥
निवेद्य तेषु तत्सर्वं किरातेन च यत्कृतम् ॥
किं कार्यमथ भो विप्राः कथ्यतां च यथातथम् ॥१४७॥
संप्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः ॥
ऊचुः सर्वे तदा विप्रा नंदिनं चातिशंकिनम् ॥१४८॥
इदं विघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि ॥
तस्मादानय लिंगं त्वं स्वगृहं वैश्यसत्तम ॥१४९॥
तथेति मत्वासौ नंदी शिवस्योत्पाटनं तदा ॥
कृत्वा स्वगृहमानीय प्रतिष्ठाप्य यताविधि ॥१५०॥
सुवर्णपीठिकां कृत्वा नवरत्नसुशोभिताम् ॥
उपचारैरनेकैश्च पूजयामास वै तदा ॥१५१॥
अथापरे द्युरायातः किरातः शिवमंदिरम् ॥
यावद्विलोक्यामास लिंगमैशं न दृष्टवान् ॥१५२॥
मौनं विहाय सहसा ह्याक्रोशन्निदमब्रवीत् ॥
हे शंभो क्व गतोसि त्वं दर्शयात्मानमद्य वै ॥१५३॥
न दृष्टोसि मया त्वं हि त्यजाम्यद्य कलेवरम् ॥
हे शंभो हे जगन्नाथ त्रिपुरांतकर प्रभो ॥१५४॥
हे रुद्र हे महादेव दर्शयात्मानमात्मना ॥१५५॥
एवं साक्षेपमधुरैर्वाक्यैः क्षिप्तः सदाशिवः ॥
किरातेन ततो रंगैर्वीरोसौ जठरं स्वकम् ॥१५६॥
विभेदाशु ततो बाहूनास्फोट्यैव रुषाब्रवीत् ॥
हे शंभो दर्शयात्मानं कुतो मां त्यज्य यास्यसि ॥१५७॥
इति क्षिप्त्वा ततोंत्राणि मांसमुत्कृत्य सर्वतः ॥
तस्मिन्गर्ते करेणैव किरातः सहसाक्षिपत् ॥१५८॥
स्वस्थं च हृदयं कृत्वा सस्नौ तत्सरसि ध्रुवम् ॥
तथैव जलमानीय बिल्वपत्त्रं त्वरान्वितः ॥१५९॥
पूजयित्वा यथान्यायं दंडवत्पतितो भुवि ॥१६०॥
ध्यानस्थितस्ततस्तत्र किरातः शिवसंनिधौ ॥
प्रादुर्भूतस्तदा रुद्रः प्रमथैः परिवारितः ॥१६१॥
कर्पूरगौरो द्युतिमान्कपर्दी चंद्रशेखरः ॥
तं गृहीत्वा करे रुद्र उवाच परिसांत्वयन् ॥१६२॥
भोभो वीर महाप्राज्ञ मद्भक्तोसि महामते ॥
वरं वृणीष्वात्महितं यत्तेऽभिलषितं महत् ॥१६३॥
एवमुक्तः स रुद्रेण महाकालो मुदान्वितः ॥
पपात दंडवद्भूमौ भक्त्या परमया युतः ॥१६४॥
ततो रुद्रं बभाषे स वरं सम्प्रार्थयाम्यहम् ॥
अहं दासोस्मि ते रुद्र त्वं मे स्वामी न संशयः ॥१६५॥
एतद्बुद्धात्मनो भक्तिं देहि जन्मनिजन्मनि ॥
त्वं माता च पिता त्वं च त्वं बंधुश्च सखा हि मे ॥१६६॥
त्वं गुरुस्त्वं महामंत्रो मंत्रवेद्योऽसि सर्वदा ॥
तस्मात्त्वदपरं नान्यत्त्रिषु लोकेषु किंचन ॥१६७॥
निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः ॥
ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च ॥१६८॥
तदा डमरुनादेन नादितं भुवनत्रयम् ॥
भेरीभांकारशब्देन शंखानां निनदेन च ॥१६९॥
तदा दुंदुभयो नेदुः पटहाश्च सहस्रशः ॥
नंदी तं नादमाकर्ण्य विस्मयात्त्वरितो ययौ ॥१७०॥
तपोवनं यत्र शिवः स्थितः प्रमथसंवृतः ॥
किरातो हि तथा दृष्टो नंदिना च तदा भृशम् ॥१७१॥
उवाच प्रश्रितो वाक्यं स नंदी विस्मयान्वितः ॥
किरातं स्तोतुकामऽसौ परमेण समाधिना ॥१७२॥
इहानीतस्त्वया शंभुस्त्वं भक्तोसि परंतप ॥
त्वं भक्तोऽहमिह प्राप्तो मां निवेदय शंकरे ॥१७३॥
तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितः ॥
नंदिनं च करे गृह्य शंकरं समुपागतः ॥१७४॥
प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत् ॥
कोऽयं त्वया समानीतो गणानामिह सन्निधौ ॥१७५॥
॥किरात उवाच ॥
विज्ञप्तोऽसौ किरातेन शंकरो लोकशंकरः ॥
तव भक्तः सदा देव तव पूजारतो ह्यसौ ॥१७६॥
प्रत्यहं रत्नमाणिक्यैः पुष्पैश्चोच्चावचैरपि ॥
जीवितेन धनेनापि पूजितोऽसि न संशयः ॥१७७॥
तस्माज्जानीहि मन्मित्रं नंदिनं भक्तवत्सल ॥१७८॥
॥महादेव उवाच ॥
न जानामि महाभाग नंदिनं वैश्यचर्चितम् ॥
त्वं मे भक्तः सखा चेति महाकाल महामते ॥१७९॥
उपाधिरहिता ये च येऽपि चैव मनस्विनः ॥
तेऽतीव मे प्रिया भक्तास्ते विशिष्टा नरोत्तमाः ॥१८०॥
तव भक्तो ह्यहं तात स च मे प्रियकृत्तरः ॥
तावुभौ स्वीकृतौ तेन पार्षदत्वेन शंभुना ॥१८१॥
ततो विमानानि बहूनि तत्र समागतान्येव महाप्रभाणि ॥
किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण ॥१८२॥
कैलासं पर्वतं प्राप्तौ विमानैर्वेगवत्तरैः ॥
सारूप्यमेव संप्राप्तावीश्वरेण महात्मना ॥१८३॥
नीराजितौ गिरिजया शिवेन सहितौ तदा ॥
उवाचेदं ततो देवी प्रहस्य गजगामिनी ॥१८४॥
यथा त्वं हि महादेव तथा चैतौ न संशयः ॥
स्वरूपेण च गत्या च हास्यभावैः सुपूजितौ ॥१८५॥
मया त्वमेक एवासीः सेवितो वै न संशयः ॥
देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च ॥१८६॥
सद्यः पराङ्मुखौ भूत्वा शंकरस्य च पश्यतः ॥
भवावस्त्वनुकंप्यौ च भवता हि त्रिलोचन ॥१८७॥
तव द्वारि स्थितौ नित्यं भाववस्ते नमोनमः ॥१८८॥
तयोर्भावं स भगवान्विदित्वा प्रहसन्भवः ॥
उवाच परया भक्त्या भवतोरस्तु वांछितम् ॥१८९॥
तदा प्रभृति तावेतौ द्वारपालौ बभूवतुः ॥
शिवद्वारि स्थितौ विप्रा मध्याह्ने शिवदर्शिनौ ॥१९०॥
एको नंदी महाकालो द्वावेतौ शिववल्लभौ ॥
ऊचतुस्तौ मुदायुक्तावेक एव सदाशिवः ॥१९१॥
एकांगुलिं समुद्धृत्य महादेवोभ्यभाषत ॥
तथा नंदी उवाचेदमुद्धृत्य स्वांगुलिद्वयम् ॥१९२॥
एवं संज्ञान्वितौ द्वारि तिष्ठतस्तौ महात्मनः ॥
शंकरस्य महाभागाः श्रृण्वंतु ऋषयो ह्यमी ॥१९३॥
शैलादेन पुरा प्रोक्तं शिवधर्ममनंतकम् ॥
प्राणिनां कृपया विप्राः सर्वेषां दुष्कृतात्मनाम् ॥१९४॥
ये पापिनोऽप्यधर्मिष्ठा अंधा मूकाश्च पंगवः ॥
कुलहीना दुरात्मानः श्वपचा अपि मानवाः ॥१९५॥
यादृशास्तादृशाश्चान्ये शिवभक्तिपुरस्कृताः ॥
तेऽपि गच्छंति सांनिध्यं देवदेवस्य शूलिनः ॥१९६॥
लिंगं सिकतामयं ये पूजयंति विपश्चितः ॥
ते रुद्रलोकं गच्छंति नात्र कार्या विचारणा ॥१९७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवभक्तिमाहात्म्यवर्णनंनाम पंचमोऽध्यायः ॥५॥
N/A
References : N/A
Last Updated : July 17, 2024
TOP