केदारखण्डः - अध्यायः १९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ लोमश उवाच ॥
एवं संबोधितो दैत्यो गुरुणा भार्गवेण हि ॥
उवाच प्रहसन्वाक्यं मेघगंभीरया गिरा ॥१॥

त्वयोक्तोहं हितार्थाय यैर्वाक्यैश्चालितोऽस्म्यहम् ॥
तव वाक्यं मम प्रीत्यै हितमप्यहितं भवेत् ॥२॥

दास्यामि भिक्षितं चास्मै विष्मवे बटुरूपिणे ॥
पात्रीभूतो ह्ययं विष्णुः सर्वकर्मफलेश्वरः ॥३॥

येषां हृदि स्थितो विष्णुस्ते वै पात्रतमा ध्रुवम् ॥
यस्य नाम्ना सर्वमिदं पवित्रमिव चोच्यते ॥४॥

येन वेदाश्च यज्ञाश्च मंत्रतंत्रादयो ह्यमी ॥
सर्वे संपूर्णतां यांति सोऽयं विश्वेश्वरो हरिः ॥५॥

आगतः कृपया मेद्य सर्वात्मा हरिरीश्वरः ॥
उद्धर्तुं मां न संदेह एतज्जानीहि तत्त्वतः ॥६॥

तस्य तद्वचनं श्रुत्वा चुकोप च रुषान्वितः ॥
भार्गवः शप्तुमारेभे दैत्येंद्रं धर्म्मवत्सलम् ॥७॥

मम वाक्यमतिक्रम्य दातुमिच्छस्यरिंदम ॥
विगुणो भव रे मंद तस्मात्त्वं निःश्रिको भव ॥८॥

एवं शशाप च तदा परमार्थविज्ञं शिष्यं महात्मानमगाधबोधम् ॥
स वै जगामाथ महाकविस्त्वरात्स्वमाश्रमं धर्म्मविदां वरिष्ठः ॥९॥

गते तु भार्गवे तस्मिन्बलिर्विरोचनात्मजः ॥
वामनं चार्चयित्वा स महीं दातुं प्रचक्रमे ॥१०॥

विंध्यावलिः समागत्य बलेरर्द्धांगशोभिता ॥
अवनिज्य बटोः पादौ प्रददौ विष्णवे महीम् ॥११॥

संकल्पपूर्वेण तदा विधिना विधिकोविदः ॥
संकल्पेनैव महता ववृधे भगवानजः ॥१२॥

यदैकेन मही व्याप्ता विष्णुना प्रभविष्णुना ॥
सर्वे स्वर्गा द्वितीयेन व्याप्तास्तेन महात्मना ॥१३॥

सत्यलोकगतो विष्णोश्चरणः परमेष्ठिना ॥
कमण्डलुगतेनैव अंभसा चावनेनिजे ॥१४॥

तत्पादसंपर्कजलाच्च जाता भागीरथी सर्वसुमंगला च ॥
यया त्रिलोकी च कृता पवित्रा यया च सर्वे सगराः समुद्धृताः ॥
यया कपर्दः परिपूरितो वै शंभोस्तदानीं च भगीरथेन ॥१५॥

तीर्थानां तीर्थमाद्यं च गंगाख्यमवतारितम् ॥
तद्विष्णोश्चरणेनैव समेतं ब्रह्मणा कृतम् ॥१६॥

त्रिविक्रमात्परो ह्यात्मा नाम्ना त्रिविक्रमोऽभवत् ॥
त्रिविक्रमक्रमाक्रांतं त्रैलोक्यं च तदाऽभवत् ॥१७॥

पदद्वयेन वा पूर्णं जगदेतच्चराचरम् ॥
विहाय तत्स्वरूपं च देवदेवो जनार्द्दनः ॥
पुनश्च बटुरूपोऽसावुपविश्य निजासने ॥१८॥

तदा देवाः सगंधर्वा मुनयः सिद्धचारणाः ॥
आगताश्च बलेर्यज्ञं द्रष्टुं यज्ञपतिं प्रभुम् ॥१९॥

तत्र ब्रह्मा समागत्य स्तुतिं चक्रे परात्मनः ॥
बलेस्तत्रैव चान्येन च दैत्येंद्राश्चागतास्त्वरम् ॥२०॥

एभिः सर्वैः परिवृतो वामनो बलिसद्मनि ॥
उपविश्यासने सोऽथ उवाच गरुडं प्रति ॥२१॥

दैत्योऽसौ बालिशो भूत्वा दत्तानेन मही मम ॥
त्रिपदक्रमणेनैव गृहीतं च पदद्वयम् ॥२२॥

पदमेकं प्रतिश्रुत्य न ददाति हि दुर्मतिः ॥
तस्मात्त्वया गृहीतव्यं तृतीयं पदमेव च ॥२३॥

इत्युक्तो गरुडस्तेन वामनेन महात्मना ॥
वैरोचनिं विनिर्भर्त्स्य वाक्यं चेदमुवाच ह ॥२४॥

रे बले किं त्वया मूढ कृतमस्ति जुगुप्सितम् ॥
अविद्यमाने ह्यर्थे हि किं ददासि परमात्मने ॥
औदार्येण हि किं कार्यमल्पकेन त्वयाधुना ॥२५॥

इत्युक्तो बलिराविष्टः स्यमानः खगेश्वरम् ॥
वक्ष्यमाणमिदं वाक्यं गरुत्मन्तं तदाऽब्रवीत् ॥२६॥

समर्थोस्मि महापक्ष गृपणो न भवाम्यहम् ॥
येनेदं कारितं सर्वं तस्मै किं प्रददाम्यहम् ॥२७॥

असमर्थो ह्यहं तात कृतोऽनेन महात्मना ॥
तदोवाच बलिं सोऽपि तार्क्ष्यपुत्रो महामनाः ॥२८॥

जानन्नपि च दैत्येंद्र गुरुणापि निवारितः ॥
विष्णवेऽपि महीं प्रादास्त्वया किं विस्मृतं महत् ॥२९॥

दातव्यं तत्पदं विष्णोस्तृतीयं यत्प्रतिश्रुतम् ॥
न ददासि कथं वीर निरयेच पतिष्यसि ॥३०॥

न ददासि तृतीयं च पदं मे स्वामिनः कथम् ॥
बलाद्गृह्णामि रे मूढ इत्युक्त्वा तं महासुरम् ॥
बबंध वारुणैः पाशैर्विरोचन सुतं तदा ॥३१॥

नितरां निष्ठुरो भूत्वा गरुडो जयतां वरः ॥
बद्धं स्वपतिमालोक्य विंध्यावलिः समभ्ययात् ॥३२॥

बाणमेकं समारोप्य वामनस्याग्रतः स्थिता ॥
वामनेन तदा पृष्टा केयं चात्राग्रतः स्थिता ॥३३॥

तदोवाच महातेजाः प्रह्लादो ह्यसुराधिपः ॥
बलेः पत्नीति त्वां प्राप्ता इयं विंध्यावली सती ॥३४॥

प्रह्लादस्य वचः श्रुत्वा वामनो वाक्यमब्रवीत् ॥
ब्रूहि विंध्यावले वाक्यं किं कार्यं ते करोम्यहम् ॥
एवमुक्ता भगवता विंध्यावलिरभाषत ॥३५॥

 ॥विन्ध्यावलिरुवाच ॥
कस्माद्बद्धो मम पतिर्गरुडेन महात्मना ॥
तत्कथ्यतां महाभाग त्वरन्नेव जनार्द्दन ॥
तदोवाच महातेजा बटुवेषधरो हिः ॥३६॥

 ॥श्रीभगवानुवाच ॥
अनेनैव प्रदत्ता मे मही त्रिपदलक्षणा ॥
पदद्वयेन च मयाक्रांतं त्रैलोक्यमद्य वै ॥३७॥

अनेन मम दातव्यं तृतीयं पदमेव च ॥
तस्माद्बद्धो मया साध्वि गरुडेनैव ते पतिः ॥३८॥

श्रुत्वा भगवतो वाक्यमुवाच परमं वचः ॥
प्रतिश्रुतमनेनैव न दत्तं हि तव प्रभो ॥३९॥

क्रांतं त्रिभुवनं चाद्य त्वया विक्रमरूपिणा ॥
तदस्माकं विजघ्नीथाः स्वर्गे वाप्यथवा भुवि ॥४०॥

किंचिन्न दत्ता हि विभो देवदेव जगत्पते ॥
प्रहस्य भगवानाह तदा विंध्यावलिं प्रभुः ॥४१॥

पदानि त्रीणि मे चाद्य दातव्यानि कुतोऽधुना ॥
शीघ्रं वद विशालाक्षि यत्ते मनसि वर्त्तते ॥
तदोवाच च सा साध्वी ह्युरुक्रममवस्थिता ॥४२॥

त्वया कुतो वेयमुरुक्रमेण क्रांता त्रिलोकी भुवनैकनाथ ॥
तथैव सर्वं जगदेकबंधो देयं किस्माभिरतुल्यरूपिणे ॥४३॥

तस्माद्विहाय तद्विष्णो त्वमेवं कुरु संप्रति ॥
प्रति श्रुतानि मे भर्त्रा पदानि त्रीणि चाधुना ॥
ददाति मे पतिस्तेद्य नात्र कार्या विचारणा ॥४४॥

निधेहि मे पदं त्वं हि शीर्ष्णि देववर प्रभो ॥
द्वितीयं मे शिशोस्त्वं हि कुरु मूर्ध्नि जगत्पते ॥४५॥

तृतीयं च जगन्नाथ कुरु शीर्ष्णि पतेर्मम ॥
एवं त्रीणि पदानीश तव दास्यामि केशव ॥४६॥

तस्यास्तद्वचनं श्रुत्वा परितुष्टो जनार्दनः ॥
उवाच श्लक्ष्णया वाचा विरोचनसुतं प्रति ॥४७॥

 ॥भगवानुवाच ॥
सुतलंगच्छ दैत्येन्द्र मा विलंबितुमर्हसि ॥
सर्वैश्चासुरसंघैश्च चिरं जीव सुखी भव ॥४८॥

परितुष्टोऽस्म्यहं तात किं कार्यं करवाणि ते ॥
सर्वेषामपि दातॄणां वरिष्ठोऽसि महामते ॥४९॥

वरं वरय भद्रं ते सर्वान्कामान्ददामि ते ॥
त्रिविक्रमेणैवमुक्तो विरोचनसुतस्तदा ॥५०॥

विमुक्तो हि परिष्वक्तो देवदेवेन चक्रिणा ॥
तदा बलिरुवाचेदं वाक्यं वाक्यविशारदः ॥५१॥

त्वया कृतमिदं सर्वं जगदेतच्चराचरम् ॥
तस्मान्न कामये किंचित्त्वत्पदाब्जं विना प्रभो ॥५२॥

भक्तिरस्तु पदांभोजे तव देव जनार्दन ॥
भूयोभूयश्च देवेश भक्तिर्भवतु शाश्वती ॥५३॥

एवमभ्यर्थितस्तेन भगवान्भूतभावनः ॥
उवाच परमप्रीतो विरोचनसुतं तदा ॥५४॥

 ॥भगवानुवाच ॥
बले त्वं सुतलं याहि ज्ञातिसंबंधिभिर्वृतः ॥
एवमुक्तस्तदा तेन असुरो वाक्यब्रवीत् ॥५५॥

सुतले किं नु मे कार्यं देवदेव वदस्व मे ॥
तिष्ठामि तव सांनिध्ये नान्यथा वक्तुमर्हसि ॥५६॥

तदोवाच हृषीकेशो बलिं तं कृपयाऽन्विततः ॥
अहं तव समीपस्थो भवामि सततं नृप ॥५७॥

द्वारि स्थितस्तव विभो निवासामि नित्यं मा खिद्यतामसुरवर्य बले श्रृणुष्व ॥
वाक्यं तु मे वर महो वरदस्तवाद्य वैकुंठवासिभिपलं च भजामि गेहम् ॥५८॥

तच्छ्रुत्वा वचनं तस्य विष्मोरतुलतेजसः ॥
जगाम सुतलं दैत्यौ ह्यसुरैः परिवारितः ॥५९॥

तदा पुत्रशतेनैव बाणमुख्येन सत्वरम् ॥
वसमानो महाबाहुर्दातॄणां च परा गतिः ॥६०॥

त्रैलोक्ये याचका ये च सर्वे यांति बलिं प्रति ॥
द्वारि स्थितस्तस्य विष्णुः प्रयच्छति यथेप्सितम् ॥६१॥

भुक्तिकामाश्च ये केचिन्मुक्तिकामास्तथा परे ॥
येषां यज्ञे च ते विप्रास्तत्तेभ्यः संप्रयच्छति ॥६२॥

एवंविधो बलिर्जातः प्रसादाच्छंकरस्य च ॥
पुरा हि कितवत्वेन यद्दत्तं परमात्मने ॥६३॥

अशुचिं भूमिमासाद्य गंधपुष्पादिकं महत् ॥
पतितं चार्प्पितं तेन शिवाय परमात्मने ॥६४॥

किं पुनः परया भक्त्या चार्चयंति महेश्वरम् ॥
पुष्पं फलं तोयं ते यांति शिवसन्निधिम् ॥६५॥

शिवात्परतरो नास्ति पूजनीयो हि भो द्विजाः ॥
ये हि मूकास्तथांधाश्च पंगवो ये जडास्तथा ॥६६॥

जातिहीनाश्च चंडालाः श्वपचा ह्यंत्यजा ह्यमी ॥
शिवभक्तिपरा नित्यं ते यांति परमां गतिम् ॥६७॥

तस्मात्सदाशिवः पूज्यः सर्वैरेवमनीषिभिः ॥
पूजनीयो हि संपूज्यो ह्यर्चनीयः सदाशिवः ॥६८॥

महेशं परमारथज्ञाश्चिंतयंति हृदि स्थितम् ॥
यत्र जीवो भवत्येव शिवस्तत्रैव तिष्ठति ॥६९॥

विना शिवेन यत्किंचिदशिवं भवति क्षणात् ॥
ब्रह्मा विष्णुश्च रुद्रश्च गुणकार्यकरा ह्यमी ॥७०॥

रजोगुणान्वितो ब्रह्मा विष्णुः सत्त्वगुणान्वितः ॥
तमोगुणाश्रितो रुद्रो गुणातीतो महेश्वरः ॥७१॥

लिंगरूपो महादेवो ह्यर्चनीयो मुमुक्षुभिः ॥
शिवात्परतरो नास्ति भुक्तिमुक्तिप्रदायकः ॥७२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे बलये वरप्रदानवर्णनंनामैकोविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : July 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP