केदारखण्डः - अध्यायः ३०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ लोमश उवाच ॥
वल्गमानं तमायांतं तारका सुरमोजसा ॥
आजघान च वज्रेण इंद्रो मतिमतां वरः ॥१॥

तेन वज्रप्रहारेण तारको विह्वलीकृतः
पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्द्विपम् ॥२॥

पुरंदरं गजस्थं हि अपातया भूतले ॥
हाहाकारो महानासीत्पतिते च पुरंदरे ॥३॥

तारकेणापि तत्रैव यत्कृतं तच्छृणु प्रभो ॥
पतितं च पदाक्रम्य हस्ताद्वज्रं प्रगृह्य च ॥४॥

हतं देवेंद्रमालोक्य तारको रिपुसूदनः ॥
वज्रघातेन महताऽताडयत्तु पुरंदरम् ॥५॥

त्रिशूलमुद्यम्य महाबलस्तदा स वीरभद्रो रुषितः पुरंदरम् ॥
संरक्षमाणो हि जघान तारकं शूलेन दैत्यं च महाप्रभेण ॥६॥

शूलप्रहाराभिहतो निपपात महीतले ॥
पतितोऽपि महातेजास्तारकः पुनरुत्थितः ॥७॥

जघान परया शक्त्या वीरभद्रं तदोरसि ॥
वीरभद्रोपि पतितः शक्तिघातेन तस्य वै ॥८॥

सगणाश्चैव देवाश्च गंधर्वोरगराक्षसाः ॥
हाहाकारेण महता चुक्रुशुश्च पुनःपुनः ॥९॥

तदोत्थितः सहसा महाबलः स वीरभद्रो द्विषतां निहंता ॥
त्रिशूलमुद्यम्य तडित्प्रकाशं जाज्वल्यमानं प्रभया निरंतरम् ॥
स्वरोचिषा भासितदिग्वितानं सूयदुबिंबाग्न्युडुमण्डलाभम् ॥१०॥

त्रिशूलेन तदा यावद्धंतुकामो महाबलः ॥
निवारितः कुमारेण मावधीस्त्वं महामते ॥११॥

जगर्ज च महातेजाः कार्त्तिकेयो महाबलः ॥१२॥

तदा जयेत्यभिहितो भूतैराकाशसंस्थितैः ॥
शक्त्या परमया वीरस्तारकं हंतुमुद्यतः ॥१३॥

तारकस्य कुमारस्य संग्रामस्तत्र दुःसहः ॥
जातस्ततो महाघोरः सर्वभूतभयंकरः ॥१४॥

शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् ॥
शक्तिभ्यां भिन्नहस्तौ तौ महासाहससंयुतौ ॥१५॥

परस्परं वंचयंतौ सिंहाविव महाबलौ ॥
वैतालिकीं समाश्रित्य तथा वै खेचरीं गतिम् ॥१६॥

पार्वतं मतमाश्रित्य शक्त्या शक्तिं निजघ्नतुः ॥
एभिर्मतैर्महावीरौ चक्रतुर्युद्धमुत्तमम् ॥१७॥

अन्योन्यसाधकौ भूत्वा महाबलपराक्रमौ ॥
जघ्नतुः शक्तिधाराभी रणे रणविशारदौ ॥१८॥

मूर्ध्नि कण्ठे तथा बाह्वोर्जान्वोश्चैव कटीतटे ॥
वक्षस्युरसि पृष्ठे च चिच्छिदतुः परस्परम् ॥१९॥

तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ ॥
प्रेक्षका ह्यभवन्सर्वे देवगन्धर्वगुह्यकाः ॥२०॥

ऊचुः परस्परं सर्वे कोऽस्मिन्युद्धे विजेष्यते ॥
तदा नभोगता वाणी उवाच परिसांत्व्य वै ॥२१॥

तारकं हि सुराश्चाद्य कुमारोऽयं हनिष्यति ॥
मा शोच्यतां सुराः सर्वैः सुखेन स्थीयतां दिवि ॥२२॥

श्रुत्वा तदा तां गगने समीरितां तदैव वाचं प्रमथैः परीतः ॥
कुमारकस्तं प्रति हंतुकामो दैत्याधिपं तारकमुग्ररूपम् ॥२३॥

शक्त्या तया महाबाहुराजघान स्तनांतरे ॥
तारकं ह्यसुरश्रेष्ठं कुमारो बलवत्तरः ॥२४॥

तं प्रहारमना दृत्य तारको दैत्यपुंगवः ॥
कुमारं चाऽपि संक्रुद्धः स्वशक्त्या चाजघान वै ॥२५॥

तेन शक्तिप्रहारेण शांकरिर्मूर्च्छितोऽभवत् ॥
मुहूर्ताच्चेतनां प्राप्तः स्तूयमानो महर्षिभिः ॥२६॥

यथा सिंहो मदोन्मत्तो हंतुकामस्तथैव च ॥
कुमारस्तारकं दैत्यमाजघान प्रतापवान् ॥२७॥

एवं परस्परेणैव कुमारश्चैव तारकः ॥
युयुधातेऽतिसंरब्धौ शक्तियुद्धपरायणौ ॥२८॥

अभ्यासपरमावास्तामन्योन्यविजिगीषया ॥
तथा तौ युध्यमानौ च चित्ररूपौ तपस्विनौ ॥२९॥

धाराभिश्च अणीभीश्च सुप्रयुक्तौ च जघ्नतुः ॥
अवलोकपराः सर्वे देवगन्धर्वकिन्नराः ॥३०॥

विस्मयं परमं प्राप्ता नोचुः किंचन तस्य वै ॥
न ववौ च तदावायुर्निष्प्रभोऽभूद्दिवाकरः ॥३१॥

हिमालयोऽथ मेरुश्च श्वेतकूटश्च दर्दुरः ॥
मलयोऽथ महाशैलो मैनाको विंध्यपर्वतः ॥३२॥

लोकालोकौ महाशैलौ मानसोत्तरपर्वतः ॥
कैलासो मन्दरो माल्यो गन्धमादन एव च ॥३३॥

उदयाद्रिर्महेंद्रश्च तथैवास्तगिरिर्महान् ॥३४॥

एते चान्ये च बहवः पर्वताश्च महाप्रभाः ॥
स्नेहार्द्दितास्तदाजग्मुः कुमारं च परीप्सवः ॥३५॥

ततः स दृष्ट्वा तान्सर्वान्भयभीतांश्च शांकरिः ॥
पर्वतान्गिरिजापुत्रो बभाषे प्रतिबोधयन् ॥३६॥

 ॥कुमार उवाच ॥
मा खिद्यत महाभागा मा चिंता क्रियतां नगाः ॥
घातयाम्यद्य पापिष्ठं सर्वेषामिह पश्यताम् ॥३७॥

एवं समाश्वास्य तदा मनस्वी तान्पर्वतान्देवगणैः समेतान् ॥
प्रणम्य शंभुं मनसा हरिप्रियः स्वां मातरं चैव नतः कुमारः ॥३८॥

कार्त्तिकेयस्ततः शक्त्या निचकर्त रिपोः शिरः ॥
तच्छिरो निपपातोर्व्यां तारकस्य च तत्क्षणात् ॥
एवं स जयमापेदे कार्त्तिकेयो महाप्रभुः ॥३९॥

ददृशुस्तं सुरगणा ऋषयो गुह्यकाः खगाः ॥
किंनराश्चारणाः सर्पास्तथा चैवाप्सरो गणाः ॥४०॥

हर्षेण महताविष्टास्तुष्टुवुस्तं कुमारकम् ॥
विद्याधर्यश्च ननृतुर्गायकाश्च जगुस्तदा ॥४१॥

एवं विजयमापन्नं दृष्ट्वा सर्वे मुदा युताः ॥
ततो हर्षात्समागम्य स्वांकमारोप्य चात्मजम् ॥४२॥

परिष्वज्य तु गाढेन गिरिजापि तुतोष वै ॥
स्वोत्संगे च समारोप्य कुमारं सूर्यवर्चसम् ॥४३॥

लालयामास तन्वंगी पार्वती रुचिरेक्षणा ॥
ऋषीभिः सत्कृतः शंभुः पार्वत्या सहितस्तदा ॥४४॥

आर्यासनगता साध्वी शुशुभे मितभाषिणी ॥
संस्तूयमाना मुनिभिः सिद्धचारणपन्नगैः ॥४५॥

नीराजिता तदा देवैः पार्वती शंभुना सह ॥
कुमारेण सहैवाथ शोममाना तदा सती ॥४६॥

हिमालयस्तदागत्य पुत्रैश्च परिवारितः ॥
मेर्वाद्यैः पर्वतैश्चैव स्तूयमानः परोऽभवत् ॥४७॥

तदा देवगणाः सर्व इन्द्राद्य ऋषिभिः सह ॥
पुष्पवर्षेण महात ववर्षुरमितद्युतिम् ॥
कुमारमग्रतः कृत्वा नीराजनपरा बभुः ॥४८॥

गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ॥
संस्तूयमानो विविधैः सूक्तैर्वेदविदां वरैः ॥४९॥

कुमारविजयंनाम चरित्रं परमाद्भुतम् ॥
सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम् ॥५०॥

ये कीर्त्तयंति शुचयोऽमितभाग्ययुक्ताश्चानंत्यरूपमजरामरमादधानाः ॥
कौमारविक्रममहात्म्यमुदारमेतदानंददायकमनोर्थकरं नृणां हि ॥५१॥

यः पठेच्छृणुयाद्वापि कुमारस्य महात्मनः ॥
चरितं तारकाख्यं च सर्वपापैः समुच्यते ॥५२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे तारकासुरवधपूर्वकं स्वामिकार्त्तिकेयविजयोत्सववर्णनं नाम त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : July 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP