केदारखण्डः - अध्यायः २८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ लोमश उवाच ॥
कुमारं स्वांकमारोप्य उवाच जगदीश्वरः ॥
देवान्प्रति तदा रुद्रः सेंद्रान्भर्गः प्रतापवान् ॥१॥

किं कार्यं कथ्यतां देवाः कुमारेणाधुना मम ॥
तदोचुः सहिताः सर्वे देवं पशुपतिं प्रति ॥२॥

तारकाद्भयमुत्पन्नं सर्वेषां जगतां विभो ॥
त्राता त्वं जगतां स्वामी तस्मात्त्राणं विधीयताम् ॥३॥

कुमारेण हतोऽद्यैव तारको भविता प्रभो ॥
तस्मादद्यैव यास्यामस्तारकं हंतुमुद्यताः ॥४॥

तथेति मत्वा सहसा निर्जग्मुस्ते तदा सुराः ॥
कार्त्तिकेयं पुरस्कृत्य शंकरातमजमेव हि ॥५॥

सर्वे मिलित्वा सहसा ब्रह्मविष्णुपुरोगमाः ॥
देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः ॥६॥

सैन्येन महता चैव ययौ योद्धुं सुरान्प्रति ॥
देवैर्दृष्टं समायातं तारकस्य महद्बलम् ॥७॥

तदा नभोगता वाणी ह्युवाच परिसांत्व्य तान् ॥
शांकरिं च पुरस्कृत्य सर्वे यूय प्रतिष्ठिताः ॥८॥

दैत्यान्विजित्य संग्रामे जयिनो हि भविष्यथ ॥९॥

वाचं तु खेचरीं श्रुत्वा देवाः सर्वे समुत्सुकाः ॥
कुमारं च पुरस्कृत्य सर्वे ते गतसाध्वसाः ॥१०॥

युद्धकामाः सुरा यावत्तावत्सर्वे समागताः ॥
वरणार्थं कुमारस्य सुता मृत्योर्दुरत्यया ॥११॥

ब्रह्मणा नोदिता पूर्वं तपः परममाश्रिता ॥
तपसा तेन महता कुमारं प्रति वै तदा ॥
आगता दुहिता मृत्योः सेना नामैकसुंदरी ॥१२॥

तां दृष्ट्वा तेऽब्रुवन्सर्वे देवं पशुपतिं प्रति ॥
एनं कुमारमुद्दिश्य आगता ह्यतिसुंदरी ॥१३॥

ब्रह्मणो वचनाच्चैव कुमारेण तदा वृता ॥
अथ सेनापतिर्जातः कुमारः शांकरिस्तदा ॥१४॥

तदा शंखाश्च भेर्यश्च पटहानकगोमुखाः ॥
तथा दुंदुभयो नेदुर्मृदंगाश्च महास्वनाः ॥१५॥

तेन नादेन महता पूरितं च नभस्तलम् ॥
तदा गौरी च गंगा च कृत्तिका मातरस्तथा ॥
परस्परमथोचुस्ताः सुतो मम ममेति च ॥१६॥

एवं विवादमापन्नाः सर्वास्ता मातृकादयः ॥
निवारिता नारदेन मौढ्यं मा कुरुतेति च ॥१७॥

पार्वत्यां शंकराज्जातो देवकार्यार्थसिद्धये ॥
तूष्णींभूतास्तदा सर्वाः कृत्तिका मातृभिः सह ॥१८॥

गुहेनोक्तास्तदा सर्वा ऋषिपत्न्यश्च कृत्तिकाः ॥
नक्षत्राणि समाश्रित्य भवद्भिः स्थीयतां चिरम् ॥१९॥

तथा मातृगणस्तेन स्वामिना स्थापितो दिवि ॥
मृत्योः कन्यां च संगृह्य कार्त्तिकेयस्त्वरान्वितः ॥२०॥

इंद्रं प्रोवाच भगवान्कुमारः शंकरात्मजः ॥
दिवं याहि सुरैः सार्द्धं राज्यं कुरु निरन्तरम् ॥२१॥

इंद्रेणोक्तः कुमारो हि तारकेण प्रपीडिताः ॥
स्वर्गाद्विद्राविताः सर्वे वयं याता दिशो दश ॥२२॥

किं पृच्छसि महाभाग अस्मान्पदपरिच्युतान् ॥
एवमुक्तस्तदा तेन वज्रिणाशंकरात्मजः ॥
प्रहस्येंद्रं प्रति तदा मा भैषीत्यभयं ददौ ॥२३॥

यावत्कथयतस्तस्य शांकरेश्च महात्नः ॥
कैलासं तु गते रुद्रे पार्वत्या प्रमथैः सह ॥२४॥

आजगाम महादैत्यो दैत्यसेनाभिरावृतः ॥
रणदुंदुभयो नेदुस्तता प्रलयभीषणाः ॥२५॥

रणकर्कशतूर्याणि डिंडिमान्यद्भुतानि च ॥
गोमुखाः खरश्रृंगाणि काहलान्येव भूरिशः ॥२६॥

वाद्यभेदा आवाद्यंत तस्मिन्दैत्यसमागमे ॥
गर्जमानास्तदा वीरस्तारकेण सहैव तु ॥२७॥

उवाच नारदो वाक्यं तारकं देवकण्टकम् ॥२८॥

॥ नारद उवाच ॥
पुरा देवैः कृतो यत्नो वधार्थं नात्र संशयः ॥
तवैव चासुरश्रेष्ठ मयोक्तं नान्यथा भवेत् ॥२९॥

कुमारोऽयं च शर्वस्य तवार्थं चोपपादितः ॥
एवं ज्ञात्वा महाबाहो कुरु यत्नं समाहितः ॥३०॥

नारदोक्तं निशम्याथ तारकः प्रहसन्निव ॥
उवाच वाक्यं मेधावी गच्छ त्वं च पुरंदरम् ॥३१॥

मम वाक्यं महर्षे त्वं वद शीघ्रं यथातथम् ॥
कुमारं च पुरस्कृत्य मया योद्धुं त्वमिच्छसि ॥३२॥

मूढभावं समाश्रित्य कर्तुमिच्छसि नान्यथा ॥
मनुष्यमेकमाश्रित्य मुचुकुन्दाख्यमेव च ॥३३॥

तत्प्रभावेऽमरावत्यां स्थितोऽसि त्वं न चान्यथा ॥
कौमारं बलमाश्रित्य तिष्ठसे त्वं ममाग्रतः ॥३४॥

त्वां हनिष्याम्यहं मन्दलोकपालैः सहैव हि ॥
एवं कथय देवेन्द्रं देवर्षे नान्यथा वद ॥३५॥

तथेति मत्वा भगवान्स नारदो ययौ सुराञ्छक्रपुरोगमांश्च ॥
आचष्ट सर्वं ह्यसुरेन्द्रभाषितं सहोपहासं मतिमांस्तथैव ॥३६॥

॥ नारद उवाच ॥
भवद्भिः श्रूयतां देवा वचनं मम नान्यथा ॥
तारकेण यदुक्तं च सानुगे नावधार्यताम् ॥३७॥

 ॥तारक उवाच ॥
त्वां हनिष्यामि रे मूढ नान्यथा मम भाषितम् ॥३८॥

मुचुकुन्दं समासाद्य लोकपालैश्च पूजितः ॥
न त्वया भीरुणा योत्स्ये देवो भूत्वा नराश्रितः ॥३९॥

तस्य वाक्यं निशम्योचुः सर्वे देवाः सवासवाः ॥
कुमारं च पुरस्कृत्य नारदं चर्षिसत्तमम् ॥४०॥

जानासि त्वं हि देवर्षे कुमारस्य बलाबलम् ॥
अज्ञो भूत्वा कथं वाक्यमुक्तं तस्य ममाग्रतः ॥४१॥

प्रहस्य नारदो वाक्यमुवाच तस्य सन्निधौ ॥
अहमप्युपहासं च वाक्यं तारकमुक्तवान् ॥४२॥

जानीध्वममराः सर्वे कुमारं जयिनं सुराः ॥
भविष्यत्यत्र मे वाक्यं नात्र कार्याविचारणा ॥४३॥

नारदस्य वचः श्रुत्वा सर्वे देवा मुदान्विताः ॥
ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम् ॥४४॥

कुमारं गजमारोप्य देवेन्द्रो ह्यग्रगोऽभवत् ॥
सुरसैन्येन महता लोकपालैः समावृतः ॥४५॥

तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः ॥
वीणावेणुमृदंगानि तथा गन्धर्वनि स्वनाः ॥४६॥

गजं दत्त्वा महेंद्राय कुमारो यानमारुहत् ॥
अनेकरत्नसंवीतं नानाश्चर्यसमन्वितम् ॥
विचित्रचित्रं सुमहत्तथाश्चर्यसमन्वितम् ॥४७॥

विमानमारुह्य तदा महायशाः स शांकरिः सर्वगणैरुपेतः ॥
श्रिया समेतः परया बभौ महान्स वीज्यमानश्चमरैर्महाप्रभैः ॥४८॥

प्राचे तसं छत्र महामणिप्रभं रत्नैरुपेतं बहुभिर्विराजितम् ॥
धृतं तदा तेन कुमारमूर्द्धनि चन्द्रैः किरणैः सुशोभितम् ॥४९॥

संमीलितास्तदा सव देवा इन्द्रपुरोगमाः ॥
बलैः स्वैः स्वैः परिक्रांता योद्धुकामा महाबलाः ॥५०॥

यमेऽपि स्वगणैः सार्द्धं मरुद्भिश्च सदागतिः ॥
पाथोभिर्वरुणस्तत्र कुबेरो गुह्यकैः सह ॥
ईशोऽपि प्रमथैः सार्द्धं नैर्ऋतो व्याधिभिः सह ॥५१॥

एवं तेऽष्टौ लोकपा योद्धुकामाः सर्वे मिलित्वा तारकं हंतुमेव ॥
पुरस्कृत्वा शांकरिं विश्ववंद्यं सेनापतिं चात्मविदां वरिष्ठम् ॥५२॥

एवं ते योद्धुकामा हि अवतेरुश्च भूतलम् ॥
अंतर्वेद्यां स्थिताः सर्वे गंगा यमुनमध्यगाः ॥५३॥

पातालाच्च समायातास्तारकस्योपजीविनः ॥
चेरुरंगबलोपेता हन्तुकामाः सुरान्रणे ॥५४॥

तारको हि समायातो विमानेन विराजितः ॥
छत्रेण च महातेजा ध्रियमाणेन मूर्द्धनि ॥५५॥

चामरैर्विज्यमानो हि शुशुभे दैत्यराट् स्वयम् ॥५६॥

एवं देवाश्च दैत्याश्च अंतर्वेद्यां स्थितास्तदा ॥
सैन्येन महता तत्र व्यूहान्कृत्वा पृथक्पृथक् ॥५७॥

गजान्कृत्वा ह्येकतश्च हयांश्च विविधांस्तथा ॥
स्यंदनानिविचित्राणि नानारत्नयुतानि च ॥५८॥

पदाता बहवस्तत्र शक्तिशूलपरश्वधैः ॥
खड्गतोमरनाराचैः पाशमुद्गरशोभिताः ॥५९॥

ते सेने सुरदैत्यानां शुशुभाते परस्परम् ॥
हंतुकामास्तदा ते वै स्तूयमानाश्च बन्धुभिः ॥६०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे देवैः सह तारकासुरस्य संग्रामे देवदैत्यसेनाहवर्णनंनामाष्टाविंशोऽध्यायः ॥२८॥

N/A

References : N/A
Last Updated : July 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP