केदारखण्डः - अध्यायः २४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ लोमश उवाच ॥
तथैव सर्वं परया मुदान्वितश्चक्रे गिरींद्रः स्वसुतार्थमेव ॥
गर्गं पुरस्कृत्य महानुभावो मंगल्यभूमिं परया विभूत्या ॥१॥

आहूय विश्वकर्माणं कारयामास सादरम् ॥
मंडपं च सुविस्तीर्णं वेदिकाभिर्मनोरमम् ॥२॥

अयुतेनैव विस्तारं योजनानां द्विजोत्तमाः ॥
मंडपं च गुणोपेतं नानाश्चर्यसमन्विततम् ॥३॥

स्थावरं जंगमं चैव सदृशं च मनोहरम् ॥
जंगमं च जितं तत्र स्थावरेण तथैव च ॥४॥

जंगमेन च तत्रैव जितं स्थावरमेव च ॥
पयसा च जिता तत्र स्थलभूमिरभूत्तदा ॥५॥

जलं किं नु स्थलं तत्र न विदुस्तत्त्वतो जनाः ॥
क्वचित्सिंहाः क्वचिद्धंसाः सारसाश्च महाप्रभाः ॥६॥

क्वचिच्छिखंडिनस्तत्र कृत्रिमाः सुमनोहराः ॥
तथा नागाः कृत्रिमाश्च हयाश्चैव तथा मृगाः ॥७॥

के सत्याः के असत्याश्च संस्कृता विश्वकर्मणा ॥
तथैव चैवं विधिना द्वारपाः अद्भुताः कृताः ॥८॥

पुंसो धनूंषि चोत्कृष्य स्थावरा जंगमोपमाः ॥
तथाश्वाः सादिभिश्चैव गजाश्च गजसादिभिः ॥९॥

चामरैर्वीज्यमानाश्च केचित्पुष्पांकुरान्विताः ॥
केचिच्च पुरुषास्तत्र विरेजुः स्रग्विणस्तथा ॥१०॥

कृत्रिमाश्च तथा बह्व्यः पताकाः कल्पितास्तथा ॥
द्वारि स्थिता महालक्ष्मीः क्षीरोदधिसमुद्भवा ॥११॥

गजाः स्वलंकृता ह्यासन्कृत्रिमा ह्यकृतोपमाः ॥
तथाश्वाः सादिभिश्चैव गजाश्च गजसादिभिः ॥१२॥

रथा रथियुता ह्यासन्कृत्रिमा ह्यकृतोपमाः ॥
सर्वेषां मोहनार्थाय तथा च संसदः कृताः ॥१३॥

महाद्वारि स्थितो नंदी कृतस्तेन हि मंडपे ॥
शुद्धस्फटिकसंकाशो यथा नंदी तथैव सः ॥१४॥

तस्योपरि महद्दिव्यं पुष्पकं रत्नभूषितम् ॥
राजितं पल्लवाच्छत्रैश्चामरैश्च सुशोभितम् ॥१५॥

वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ ॥
चतुर्दतौ षष्टिवर्षौ महात्मानौ महाप्रभौ ॥१६॥

तथैव दक्षिणे पार्श्वे द्वावश्वौ दंशितौ कृतौ ॥
रत्नालंकारसंयुक्ताँल्लोकपालांस्तथैव च ॥१७॥

षोडशप्रकृतीस्तेन याथातथ्येन धीमता ॥
सर्वे देवा यथार्थेन कृता वै विश्वकर्मणा ॥१८॥

तथैव ऋषयः सर्वे भृग्वाद्यश्च तपोधनाः ॥
विश्वे च पार्षदैः साकमिंद्रो हि परमार्थतः ॥१९॥

कृताः सर्वे महात्मानो याथातथ्येन धीमता ॥
एवंभूतः कृतस्तेन मंडपो दिव्यरूपवान् ॥२०॥

अनेकाश्चर्यसंभूतो दिव्यो दिव्यविमोहनः ॥
एतस्मिन्नंतरे तत्र आगतो नारदोग्रतः ॥२१॥

ब्रह्मणा नोदितस्तत्र हिमालयगृहं प्रति ॥
नारदोथ ददर्शाग्रे आत्मानं विनयान्वितम् ॥२२॥

भ्रांतो हि नारदस्तेन कृत्रिमेण महायशाः ॥
अवलोकपरस्तत्र चरितं विश्वकर्मणः ॥२३॥

प्रविष्टो मंडपं तस्य हिमाद्रे रत्नचित्रितम् ॥
सुवर्णकलशैर्जुष्टं रंभाद्यैरुपशोभितम् ॥२४॥

सहस३स्तम्भसंयुक्तं ततोऽद्रिः स्वगणैर्वृतः ॥
तमृषिं पूजयामास किं कार्यमिति पृष्टवान् ॥२५॥

॥ नारद उवाच ॥
आगतास्ते महात्मानो देवा इन्द्रपुरोगमाः ॥
तथा महर्षयः सर्वे गणैश्च परिवारिताः ॥
महादेवो वृषारूढो ह्यागतोद्वहनं प्रति ॥२६॥

ततस्तद्वचनं श्रुत्वा हिमवान्गिरिसत्तमः ॥
उवाच नारदं वाक्यं प्रशस्तमधुरं महत् ॥२७॥

पूजयित्वा यथान्यायं गच्छ त्वं शंकरं प्रति ॥२८॥

ततस्तद्वचनं श्रुत्वा मुनिर्हिमवतो गिरेः ॥
तथैव मत्वा वचनं शैलराजानब्रवीत् ॥
मेनाकेन च सह्येन मेरुणा गिरिणा सह ॥२९॥

एभिः समेतो ह्यधुनामहामते यतस्व शीघ्रं शिवमत्र चानय ॥
देवैः समेतं च महर्षिवर्यैः सुरासुरैर्चितपादपंकजम् ॥३०॥

तथेति मत्वा स जगाम तूर्णां सहै व तैः पर्वतराजभिश्च ॥
त्वरागतश्चैकपदेन शंभुं प्राप्नोदृषीणां प्रवरो महात्मा ॥३१॥

तावद्दृष्टो महादेवो देवैश्च परिवारितः ॥
तदा ब्रह्मा च विष्णुश्च रुद्रश्चैव सुरैः सह ॥३२॥

पप्रचछुर्नारदं सर्वे येऽन्ये रुद्रचरा भृशम् ॥
कथ्यतां पृच्छमानानामस्माकं कथ्यते न हि ॥३३॥

एकैकस्यात्मजाः स्वाः स्वाः सह्यमैनाकमेरवः ॥
कन्यां दास्यंति वा शंभोः किं त्विदानीं प्रवर्तते ॥३४॥

ततोऽवोचन्महातेजा नारदश्चर्षिसत्तमः ॥
ब्रह्माणं पुरतः कृत्वा विष्णुं प्रति सहेतुकम् ॥३५॥

एकांतमाश्रित्य तदा सुरेन्द्रं स नारदो वाक्यमिदं बभाषे ॥
त्वष्ट्रा कृतं वै भवनं महत्तरं येनैव सर्वे च विमोहिता वयम् ॥३६॥

पुरा कृतं तस्य महात्मनस्त्वया किं विस्मृतं तत्सकलं शचीपते ॥
तस्मादसौ त्वां विजिगीषुकामो गृहे वसंस्तस्यगिरेर्महात्मनः ॥३७॥

अहो विमोहितस्तेन प्रतिरूपेण भास्वता ॥
तथा विष्णुः कृतस्तेन शंखचक्रगदादिभृत् ॥३८॥

ब्रह्मा चैव तथाभूतस्तं चैव कृतवानसौ ॥३९॥

मायामयो वृषभस्तेन वेषात्कृतो हि नागोश्वतरस्तथैव ॥
तथा चान्यान्याप्यनेनामरेन्द्र सर्वाण्येवोल्लिखितान्यत्र विद्धि ॥४०॥

तच्छ्रुत्वा वचनं तस्य देवेंद्रो वाक्यमब्रवीत् ॥४१॥

विष्णुं प्रति तदा शीघ्रं दृष्ट्वा यामि वसात्र भोः ॥
पुत्रशोकेन तप्तोऽसौ व्याजेनान्येन वाऽकरोत् ॥४२॥

तस्य तद्वचनं श्रुत्वा देवदेवो जनार्द्दनः ॥
उवाच प्रहसन्वाक्यं शक्रमाप्तभयं तदा ॥४३॥

निवातकवचैः पूर्वं मोहितोऽसि शचीपते ॥
विद्याऽमृता तत्र मया समानीतोपसत्तये ॥४४॥

महाविद्याबलेनैव प्रविश्य मण्डपेऽधुना ॥
पर्वतो हिमवानेष तथान्ये पर्वतोत्तमाः ॥४५॥

विपक्षा हि कृताः सर्वे मम वाक्याच्च वासव ॥
हेतुं स्मृत्वाथ वै त्वष्टा मायया ह्यकरोदिदम् ॥४६॥

जयमिच्छंति वै मूढा न च भेतव्यमण्वपि ॥४७॥

एवं विवदमानांस्तान्देवाञ्छक्रपुरोगमान् ॥
सांत्वयामास वै विष्णुर्नारदं ते ततोऽब्रुवन् ॥४८॥

ददाति वा न ददाति कन्यां गिरीन्द्रः स्वां वै कथ्यतां शीघ्रमेव ॥
किं तेन दृष्टां किं कृतं चाद्य शंस तत्सर्वं भो नारद ते नमोऽस्तु ॥४९॥

तच्छ्रुत्वा प्रहसञ्छंभुरुवाच वचनं तदा ॥
कन्यां दास्यति चेन्मह्यं पर्वतो हि हिमालयः ॥
मायया मम किं कार्यं वद विष्णो यथातथम् ॥५०॥

केनाप्वुपायेन फलं हि साध्यमित्युच्यते पंडितैर्न्यायविद्भिः ॥
तस्मात्सर्वैर्गम्यतां शीघ्रमेव कार्यार्थोभिश्चेन्द्रपुरोगमैश्च ॥५१॥

तदा शिवोऽपि विश्वात्मा पंचबाणेन मोहितः ॥
महाभूतेन भूतेशस्त्वन्येषां चैव का कथा ॥५२॥

एवं च विद्यमानेऽसौ शंभुः परमशोभनः ॥
कृतो ह्यनंगेन वशे यथान्यः प्राकृतो जनः ॥५३॥

मदनो हि बली लोके येन सर्वमिदं जगत् ॥
जितमस्ति निजप्रौढ्या सदेवर्षिसमन्वितम् ॥५४॥
सर्वेषामेव भूतानां देवानां च विशेषतः ॥
राजा ह्यनंगो बलवान्यस्य चाज्ञा बलीयसी ॥५५॥

पार्वतीस्त्रीस्वरूपेण अजेयो भुवनत्रये ॥
तां दृष्ट्वा हि स्त्रियं सर्वे ऋषयोऽपि विचक्षणाः ॥५६॥

देवा मनुष्या गन्धर्वाः पिशाचोरगराक्षसाः ॥
आज्ञानुल्लंघिनः सर्वे मदनस्य महात्मनः ॥५७॥

तपोबलेन महता तथा दानबलेन च ॥
वेत्तुं न शक्यो मदंनो विनयेन विना द्विजाः ॥५८॥

तस्मादनंगस्य महान्क्रोधो हि बलवत्तरः ॥
ईश्वरं मदनेनैवं मोहितं वीक्ष्य माधवः ॥५९॥

उवाच वाक्यं वाक्यज्ञो मा चिंतां कुरु वै प्रभो ॥
यदुक्तं नारदेनैव मंडपं प्रति सर्वशः ॥६०॥

त्वष्ट्रा कृतं विचित्रं च तत्सर्वं मदनात्प्रभोः ॥
तदानीं शंकरो वाक्यमुवाच मधुसूदनम् ॥६१॥

अविद्यया वृतं तेन कृतं त्वष्ट्रा हि मण्डपम् ॥
किं तु वक्ष्यामहे विष्णो मण्डपः केवलेन हि ॥६२॥

विवाहो हि महाभाग अविद्यामूल एव च ॥
तस्मात्सर्वे वयं याम उद्वाहार्थं च संप्रति ॥६३॥

नारदं च पुरस्कृत्य सर्वे देवाः सवासवाः ॥
हिमाद्रिसहिता जग्मुर्मन्दिरं परमाद्भुतम् ॥
अनेकाश्चर्यसंयुक्तं विचित्रं विश्वकर्मणा ॥६४॥

कृतं च तेनाद्य पवित्रमुत्तमं तं यज्ञवाटं बहुभिः पुरस्कृतम् ॥
विचित्रचित्रं मनसो हरं च तं यज्ञवाटं स चकार बुद्धिमान् ॥६५॥

प्रवेक्ष्यमाणास्ते सर्वे सुरेन्द्रा ऋषिभिः सह ॥
दृष्टा हिमाद्रिणा तत्र अभ्युत्थानगतोऽभवत् ॥६६॥

तथैव तेषां च मनोहराणि हर्म्याणि तेन प्रतिकल्पितानि ॥
गन्धर्वयक्षाः प्रमथाश्च सिद्धा देवाश्च नागाप्सरसां गणाश्च ॥
वसंति यत्रैव सुखेन तेभ्यः स तत्रतत्रोपवनं चकार ॥६७॥

तेषामर्थे महार्हाणि धाराजिरगृहाणि च ॥
अत्यद्भुतानि शोभंते कृतान्येव महात्मना ॥६८॥

निवासार्थे कल्पितानि सावकाशानि तत्र वै ॥
देवानां चैव सर्वेषामृषीणां भावितात्मनाम् ॥६९॥

एवं विस्तारयामास विश्वकर्मा बहून्यपि ॥
मन्दिराणि यथायोग्यं यत्र तत्रैव तिष्ठताम् ॥७०॥

भैरवाः क्षेत्रपालाश्च येऽन्ये च क्षेत्रवासिनः ॥
श्मशानवासिनश्चान्ये येऽन्ये न्यग्रोधवासिनः ॥७१॥

अश्वत्थसेविनश्चान्ये खेचराश्च तथा परे ॥
येये यत्रोपविष्टाश्च तत्रतत्रैव तेन वै ॥७२॥

कृतानि च मनोज्ञानि भवनानि महांतिवै ॥
तेषामेवानुकूलानि भूतानां विश्वकर्मणा ॥७३॥

तत्रैव ते सर्वगणैः समेता निवासितास्तेन हिमाद्रिणा स्वयम् ॥
सेंद्राः सुरा यक्षपिशाचरक्षसां गन्धर्वविद्याप्सरसां समूहाः ॥७४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे पार्वतीपरिणयने हिमाद्रिणा देवानां निवासस्थानकरणवर्णनंनाम चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : July 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP