केदारखण्डः - अध्यायः ७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥लोमश उवाच ॥
तदा च ते सुराः सर्व ऋषयोपि भयान्विताः ॥
ईडिरे लिंगमैशं च ब्रह्माद्या ज्ञानविह्वलाः ॥१॥
 ॥ब्रह्मोवाच ॥
त्वं लिंगरूपी तु महाप्रभावो वेदांतवेद्योसि महात्मरूपि ॥
येनैव सर्वे जगदात्ममूलं कृतं सदानंदपरेण नित्यम् ॥२॥
त्वं साक्षी सर्वलोकानां हर्ता त्वं च विचक्षणः ॥
रक्षणोसि महादेव भैरवोसि जगत्पते ॥३॥
त्वया लिंगस्वरूपेण व्याप्तमेतज्जगत्त्रयम् ॥
क्षुद्राश्चैव वयं नाथ मायामोहितचेतसः ॥४॥
अहं सुराऽसुराः सर्वे यक्षगंधर्वराक्षसाः ॥
पन्नगाश्च पिशाचाश्च तथा विद्याधरा ह्यमी ॥५॥
त्वंहि विश्वसृजां स्रष्टा त्वं हि देवो जगत्पतिः ॥
कर्ता त्वं भुवनस्यास्य त्वं हर्ता पुरुषः परः ॥६॥
त्राह्यस्माकं महादेव देवदेव नमोऽस्तु ते ॥
एवं स्तुतो हि वै धात्रा लिंगरूपी महेश्वरः ॥७॥
ऋषयः स्तोतुकामास्ते महेश्वरमकल्मषम् ॥
अस्तुवन्गीर्भिरग्र्याभिः श्रुतिगीताभिरादृताः ॥८॥
 ॥ऋषय ऊचुः ॥
अज्ञानिनो वयं कामान्न विंदामोऽस्य संस्थितिम् ॥
त्वं ह्यात्मा परमात्मा च प्रकृतिस्त्वं विभाविनी ॥९॥
त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमे ॥
त्वमीश्वरो वेदविदेकरूपो महानुभावैः परिचिंत्यमानः ॥१०॥
त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम् ॥
सर्वं भवति यस्मात्त्वत्तस्मात्सर्वोऽसि नित्यदा ॥११॥
यस्माच्च संभवत्येतत्तस्माच्छंभुरिति प्रभुः ॥१२॥
त्वत्पादपंकजं प्राप्ता वयं सर्वे सुरादयः ॥
ऋषयो देवगंधर्वा विद्याधरमहोरगाः ॥१३॥
तस्माच्च कृपया शंभो पाह्यस्माञ्जगतः पते ॥१४॥
 ॥महादेव उवाच ॥
श्रृणुध्वं तु वचो मेऽद्य क्रियतां च त्वरान्वितैः ॥
विष्णुं सर्वे प्रार्थयंतु त्वरितेन तपोधनाः ॥१५॥
तस्य तद्वचनं श्रुत्वा शंकरस्य महात्मनः ॥
विष्णुं सर्वे नमस्कृत्य ईडिरे च तदा सुराः ॥१६॥
 ॥देव ऊचुः ॥
विद्याधराः सुरगणा ऋषयश्च सर्वे त्रातास्त्वयाद्य सकलाजगदेकबंधो ॥
तद्वत्कृपाकरजनान्परिपालयाद्य त्रैलोक्यनाथ जगदीश जगन्निवास ॥१७॥
प्रहस्य भगवन्विष्णुरुवाचेदं वचस्तदा ॥
दैत्यैः प्रपीडिता यूयं रक्षिताश्च पुरा मया ॥१८॥
अद्यैव भयमुत्पन्नं लिंगादस्माच्चिरंतनम् ॥
न शक्यते मया त्रातुमस्माल्लिंगभयात्सुराः ॥१९॥
अच्युतेनैवमुक्तास्ते देवा श्चिंतान्विताभवन् ॥
तदा नभोगता वाणी उवाचाश्वास्य वै सुरान् ॥२०॥
एतल्लिंगं संवृणुष्व पूजनाय जनार्दन ॥
पिंडिभूत्वा महाबाहो रक्षस्व सचराचरम् ॥
तथेति मत्वा बगवान्वीरभद्रोऽभ्यपूजयत् ॥२१॥
ब्रह्मादिभः सुरगणैः सहितैस्तदानीं संपूजितः शिवविधानरतो महात्मा ॥
स्रवीरभद्रः शशिशेखरोऽसौ शिवप्रियो रुद्रसमस्त्रिलोक्याम् ॥२२॥
लिंगस्यार्चनयुक्तोऽसौ वीरभद्रोऽभवत्तदा ॥
तद्रूपस्यैव लिंगस्य येन सर्वमिदं जगत् ॥२३॥
उद्भाति स्थितिमाप्नोति तथा विलयमेति च ॥
तल्लिंगं लिंगमित्याहुर्लयनात्तत्त्ववित्तमाः ॥२४॥
ब्रह्माण्डागोलकैर्व्याप्तं तथा रुद्राक्षभूषितम् ॥
तथा लिंगं महज्जातं सर्वेषां दुरतिक्रमम् ॥२५॥
तदा सर्वेऽथ विबुधा ऋषो वै महाप्रभाः ॥
तुष्टुवुश्च महालिंगं वेदावादैः पृथक्पृथक् ॥२६॥
अणोरणीयांस्त्वं देव तथा त्वं महतो महान् ॥
तस्मात्त्वया विधातव्यं सर्वैषां लिंगपूजनम् ॥२७॥
तदानीमेव सर्वेण लिंगं च बहुशः कृतम् ॥
सत्ये ब्रह्मेश्वरं लिंगं वैकुण्ठे च सदाशिवः ॥२८॥
अमरावत्यां सुप्रतिष्ठममरेश्वरसंज्ञकम् ॥
वरुणेश्वरं च वारुण्यां याम्यां कालेश्वरं प्रभुम् ॥२९॥
नैर्ऋतेश्वरं च नैर्ऋत्यां वायव्यां पावनेश्वरम् ॥
केदारं मृत्युलोके च तथैव अमरेश्वरम् ॥३०॥
ओंकारं नर्मदायां च महाकालं तथैव च ॥
काश्यां विश्वेश्वरं देवं प्रयागे ललितेश्वरम् ॥३१॥
त्रियम्बकं ब्रह्मगिरौ कलौ भद्रेश्वरं तथा ॥
द्राक्षारामेश्वरं लिंगं गंगासागरसंगमे ॥३२॥
सौराष्ट्रे च तथा लिंगं सोमेश्वरमिति स्मृतम् ॥
तथा सर्वेश्वरं विन्ध्ये श्रीशैले शिखरेश्वरम् ॥
कान्त्यामल्लालनाथं च सिंहनाथं च सिंगले ॥३३॥
विरूपाक्षं तथा लिंगं कोटिशङ्करमेव च ॥
त्रिपुरान्तकं भीमेशममरेश्वरमेव च ॥३४॥
भोगेश्वरं च पाताले हाटकेश्वरमेव च ॥
एवमादीन्यनेकानि लिंगानि भुवनत्रये ॥
स्थापितानि तदा देवैर्विश्वोपकृतिहेतवे ॥३५॥
लिंगेशैश्च तथा सर्वैः पूर्णमासीज्जगत्त्रयम् ॥
तथा च वीरभद्रांशाः पूजार्थममरैः कृताः ॥३६
तत्र विंशतिसंस्कारास्तेषामष्टाधिकाभवन् ॥
कथिताः शंकरेणैव लिंगस्याचनसूचकाः ॥३७॥
संति रुद्रेण कथिताः शिवधर्मा सनातनाः ॥
वीरभद्रो यथा रुद्रस्तथान्ये गुरवः स्मृताः ॥३८॥
गुरोर्जाताश्च गुरवो विख्याता भुवनत्रये ॥
लिंगस्य महिमान तु नन्दी जानाति तत्त्वतः ॥३९॥
तथा स्कन्दो हि भगवान्न्ये ते नामधारकाः ॥
यथोक्ताः शिवधरमा हि नन्दिना परिकीर्त्तिताः ॥४०॥
शैलादेन महाभागा विचित्रा लिंगधारकाः ॥
शवस्योपरि लिंगं च ध्रियते च पुरातनैः ॥४१॥
लिंगेन सह पञ्चत्वं लिंगेन सह जीवितम् ॥
एते धर्माः सुप्रतिष्ठाः शैलादेन प्रतिष्ठिताः ॥४२॥
धर्मः पाशुपतः श्रेष्ठः स्कन्देन प्रतिपालितः ॥४३॥
शुद्धा पञ्चाक्षरी विद्या प्रासादी(१) तदनन्तरम् ॥
षडक्षरी तथा विद्या प्रासादस्य च दीपिका ॥४४॥
स्कन्दात्तत्समनुप्राप्तमगस्त्येन महात्मना ॥
पश्चादाचार्यभेदेन ह्यागमा बहवोऽभवन् ॥४५॥
किं तु वै बहुनोक्तेन श्वि इत्यक्षरद्वयम् ॥
उच्चारयंति स नित्यं ते रुद्रा नात्र संशयः ॥४६॥
सतां मार्गं पुरस्कृत्य ये सर्वे ते पुरांतकाः ॥
वीरा माहेश्वराज्ञेयाः पापक्षयकरा नृणाम् ॥४७॥
प्रसंगेनानुपंक्षेण श्रद्वया च यदृच्छया ॥
शिवभक्तिं प्रकुर्वन्ति ये वै ते यांति सद्गतिम् ॥४८॥
श्रृणुध्वं कथयामीह इतिहासं पुरातनम् ॥
कृतं शिवालयं यच्च पतंग्या मार्जनं पुरा ॥४९॥
आगता भक्षणार्थं हि नैवेद्यं केन चार्पितम् ॥
मार्जनं रजस्तस्याः पक्षाभ्यामभवत्पुरा ॥५०॥
तेन कर्मविपाकेन उत्तमं स्वर्गमागता ॥
भुक्त्वा स्वर्गसुखं चोग्रं पुनः संसारमागता ॥५१॥
काशिराजसुता जाता सुन्दरीनाम विश्रुता ॥
पूर्वाभ्यासाच्च कल्याणी बभूव परमा सती ॥५२॥
उषस्युषसि तन्वंगी शिवद्वाररता सदा ॥
संमार्जनं च कुरुते भक्त्या परमया युता ॥५३॥
स्वयमेव तदा देवी सुन्दरी राजकन्यका ॥
तथाभूतां च तां दृष्ट्वा ऋषिरुद्दालकोऽब्रवीत् ॥५४॥
सुकुमारी सती बाले स्वयमेव कथं शुभे ॥
संमार्जनं च कुरुषे कन्यके त्वं शुचिस्मिते ॥५५॥
दासी दास्यश्च बहवः संति देवि तवाग्रतः ॥
तवाज्ञया करिष्यंति सर्वं संमार्जनादिकम् ॥५६॥
ऋषेस्तद्वचनं श्रुत्वा प्रहस्येदमुवाच ह ॥५७॥
शिवसेवां प्रकुर्वाणाः शिवभक्तिपुरस्कृताः ॥
ये नराश्चैव नार्य्यश्च शिवलोकं व्रजंति वै ॥५८॥
संमार्जनं च पाणिभ्यां पद्भ्यां यानं शिवालये ॥
तस्मान्मया च क्रियते संमार्जनमतंद्रितम् ॥५९॥
अन्यत्किञ्चिन्न जानामि एकं संमार्जनं विना ॥
ऋषिस्तद्वचनं श्रुत्वा मनसा च विमृश्य हि ॥६०॥
अनया किं कृतं पूर्वं केयं कस्य प्रसादतः ॥
तदा ज्ञानं च ऋषिणा तत्सर्वं ज्ञानचक्षुषा ॥
विस्मयेन समाविष्टस्तूष्णींभूतोऽभवत्तदा ॥६१॥
सविस्मयोऽभूदथ तद्विदित्वा उद्दालको ज्ञानवतां वरिष्ठः ॥
शिवप्रभावं मनसा विचिंत्य ज्ञानात्परं बोधमवाप शांतः ॥६२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : July 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP