केदारखण्डः - अध्यायः ६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ऋषय ऊचुः ॥
लिंगे प्रतिष्ठा च कथं शिवं हित्वा प्रवर्तिता ॥
तत्कथ्यतां महाभाग परं शुश्रुषतां हि नः ॥१॥

 ॥लोमश उवाच ॥
यदा दारुवने शंभुर्भिक्षार्थं प्राचरत्प्रभुः ॥२॥

दिगंबरो मुक्तजटाकलापो वेदांतवेद्यो भुवनैकभर्ता ॥
स ईश्वरो ब्रह्मकलापधारो योगीश्वराणां परमः परश्च ॥३॥

अणोरणीयान्महतो मही यान्महानुभावो भुवनाधिपो महान् ॥
स ईश्वरो भिक्षुरूपी महात्मा भिक्षाटनं दारुवने चकार ॥४॥

मध्याह्न ऋषयो विप्रास्तीर्थं जग्मुः स्वकाश्रमात् ॥
तदानीमेव सर्वास्ता ऋषीभार्याः समागताः ॥५॥

विलोकयंत्यः शंभुं तमाचख्युश्च परस्परम् ॥
कोऽसौ भिक्षुकरूपोयमागतोऽपूर्वदर्शनः ॥६॥

अस्मै भिक्षां प्रयच्छामो वयं च सखिभिः सह ॥
तथेति गत्वा सर्वास्ता गृहेभ्य आनयन्मुदा ॥७॥

भिक्षान्नं विविधं श्लक्ष्णं सोपचारं च शक्तितः ॥
प्रदत्तं भिक्षितं तेन देवदेवेन शूलिना ॥८॥

काचित्प्रियतमं शंभुं बभाषे विस्मयान्विता ॥
कोसि त्वं भिक्षुको भूत्वा आगतोत्र महामते ॥९॥

ऋषीणामाश्रमं शुद्धं किमर्थं नो निषीदसि ॥
तयोक्तोऽपि तदा शंभुर्बभाषे प्रहसन्निव ॥१०॥

ईश्वरोहं सुकेशांते पावनं प्राप्तवानिमम् ॥
ईश्वरस्य वचः श्रुत्वा ऋषिभार्या उवाच तम् ॥११॥

ईश्वरोऽसि महाभाग कैलासपतिरेव च ॥
एकाकिनः कथं देव भिक्षार्थमटनं तव ॥१२॥

एवमुक्तस्तया शंभुः पुनस्तामब्रवीद्वचः ॥
दाक्षायण्या विरहितो विचरामि दिगंबरः ॥१३॥

भिक्षाटनार्थं सुश्रोणि संकल्परहितः सदा ॥
तया सत्या विना किंचित्स्त्रीमात्रं मम भामिनि ॥
न रोचते विशालाक्षि सत्यं प्रतिवदामि ते ॥१४॥

तस्योक्तं वचनं श्रुत्वा उवाच कमलेक्षणा ॥
स्त्रियो हि सुखसंस्पर्शाः पुरुषस्य न संशयः ॥१५॥

तास्स्त्रियो वर्जिताः शंभो त्वादृशेन विपश्चिता ॥१६॥

इति च प्रमदाः सर्वा मिलिता यत्र शंकरः ॥
भिक्षापात्रं च तच्छंभोः पूरितं च महागुणैः ॥१७॥

अन्नैश्चतुर्विधैः षड्भी रसैश्च परिपूरितम् ॥
यदा संभुर्गंतुकामः कैलासं पर्वतं प्रति ॥
तदा सर्वा विप्रपत्न्यो ह्यन्गच्छन्मुदान्विताः ॥१८॥

गृहकार्यं परित्यज्य चेरुस्तद्गतमानसाः ॥
गतासु तासु सर्वासु पत्नीषु ऋषिसत्तमाः ॥१९॥

यावदाश्रममभ्येत्य तावच्छून्यं व्यलोकयन् ॥
परस्परमथोचुस्ते पत्न्यः सर्वाः कुतो गताः ॥२०॥

न विदामोऽथ वै सर्वाः केन नष्टेन चाहृताः ॥
एवं विमृश्यमानास्ते विचिन्वंतस्ततस्ततः ॥२१॥

समपश्यंस्ततः सर्वे शिवस्यानुगताश्च ताः ॥
शिवं दृष्ट्वा तु संप्राप्ता ऋषयस्ते रुषान्विताः ॥२२॥

शिवस्याथाग्रतो भूत्वा ऊचुः सर्वे त्वरान्विताः ॥
किं कृतं हि त्वया शंभो विरक्तेन महात्मना ॥
परदारापहर्त्तासि त्वमृषीणां न संशयः ॥२३॥

एवं क्षिप्तः शिवो मौनी गच्छमानोऽपि पर्वतम् ॥
तदा स ऋषिभिः प्राप्तो महादेवोऽव्ययस्तथा ॥
यस्मात्कलत्रहर्ता त्वं तस्मात्षंढो भव त्वरम् ॥२४॥

एवं शप्तः स मुनिभिर्लिंगं तस्यापतद्भुवि ॥
भूमिप्राप्तं च तल्लिंगं ववृधे तरसा महत् ॥२५॥

आवृत्य सप्त पातालान्क्षणाल्लिंगमदोर्ध्वतः ॥
व्याप्य पृथ्वीं समग्रां च अंतरिक्षं समावृणोत् ॥२६॥

स्वर्गाः समावृताः सर्वे स्वर्गातीतमथाभवत् ॥
न मही न च दिक्चक्रं न तोयं न च पावकः ॥२७॥

न च वायुर्न वाकाशं नाहंकारो न वा महत् ॥
न चाव्यक्तं न कालश्च न महाप्रकृतिस्तथा ॥२८॥

नासीद्द्ववैतविभागं च सर्वं लीनं च तत्क्षणात् ॥
यस्माल्लीनं जगत्सर्वं तस्मिँल्लिगे महात्मनः ॥२९॥

लयनाल्लिंगमित्येवं प्रवदंति मनीषिणः ॥
तथाभूतं वर्द्धमानं दृष्ट्वा तेऽपि सुरर्षयः ॥३०॥

ब्रह्मेंद्रविष्णुवाय्यग्निलोकपालाः सपन्नगाः ॥
विस्मयाविष्टमनसः परस्परमथाब्रुवन् ॥३१॥

किमायामं च विस्तारं क्व चांतः क्व च पीठिका ॥
इति चिंतान्विता विष्णुमूचुः सर्वे सुरास्तदा ॥३२॥

 ॥देवा ऊचुः ॥
अस्य मूलं त्वया विष्णो पद्मोद्भव च मस्तकम् ॥
युवाभ्यां च विलोक्यं स्यात्स्थाने स्यात्परिपालकौ ॥३३॥

श्रुत्वा तु तौ महाभागौ वैकुंठकमलोद्भवौ ॥
विष्णुर्गतो हि पातालं ब्रह्मा सर्वर्गं जगाम ह ॥३४॥

स्वर्गं गतस्तदा ब्रह्मा अवलोकनतत्परः ॥
नापस्यत्तत्र लिंगस्य मस्तकं च विचक्षमः ॥३५॥

तथा गतेन मार्गेण प्रत्यावृत्त्याब्जसंभवः ॥
मेरुपृष्ठमनुप्राप्तः सुरभ्या लक्षितस्ततः ॥३६॥

स्थिता या केतकीच्छायामुवाच मधुरं वचः ॥
तस्या वचनमाकर्ण्य सर्वलोकपितामहः ॥
उवाच प्रहसन्वाक्यं छलोक्त्या सुरभिं प्रति ॥३७॥

लिंगं महाद्भुतं दृष्टं येनव्याप्तं जगत्त्रयम् ॥
दर्शनार्थं च तस्यांतं देवैः संप्रेषितोस्मयहम् ॥३८॥

न दृष्टं मस्तकं तस्य व्यापकस्य महात्मनः ॥
किं वक्ष्येऽहं च देवाग्रे चिंता मे चाति वर्तते ॥३९॥

लिंगस्य मस्तकं दृष्टं देवानां च मृषा वदेः ॥
ते सर्वे यदि वक्ष्यंति इंद्राद्या देवतागणाः ॥४०॥

ते संति साक्षिमो देवा अस्मिन्नर्थे वदत्वरम् ॥
अर्थेऽस्मिन्भव साक्षी त्वं केतक्या सह सुव्रते ॥४१॥

तद्वचः शिरसा गृह्य ब्रह्मणः परमेष्ठिनः ॥
केतकीसहिता तत्र सुरभी तदमानयत् ॥४२॥

एवं समागतो ब्रह्म देवाग्रे समुवाच ह ॥४३॥

 ॥ब्रह्मोवाच ॥
लिंगस्य मस्तकं देवा दृष्टवानहमद्भुतम् ॥
समीचीनं चार्तितं च केतकीदल संयुतम् ॥४४॥

विशालं विमलं श्लक्ष्णं प्रसन्नतरमद्भुतम् ॥
रम्यं च रमणीयं च दर्शनीयं महाप्रभम् ॥४५॥

एतादृशं मया दृष्टं न दृष्टं तद्विनाक्वचित् ॥
ब्रह्मणो हि वचः श्रुत्वा सुरा विस्मयमाययुः ॥४६॥

एवं विस्मयपूर्णास्ते इंद्राद्या देवतागणाः ॥
तिष्ठंति तावत्सर्वेशो विष्णुरध्यात्मदीपकः ॥४७॥

पातालादागतः सद्यः सर्वेषामवदत्त्वरम् ॥
तस्याप्यंतो न दृष्टो मे ह्यवलोकनतत्परः ॥४८॥

विस्मयो मे महाञ्जातः पातालात्परतश्चरन् ॥
अतलं सुतलं चापि नितलं च रसातलम् ॥४९॥

तथा गतस्तलं चैव पातालं च तथातलम् ॥
तलातलानि तान्येनं शून्यवद्यद्विभाव्यते ॥५०॥

शून्यादपि च शून्यं च तत्सर्वं सुनिरीक्षितम् ॥
न मूलं च न मध्यं च न चांतो ह्यस्य विद्यते ॥५१॥

लिंगरूपी महादेवो येनेदं धार्यते जगत् ॥
यस्य प्रसादादुत्पन्ना यूयं च ऋषयस्तथा ॥५२॥

श्रुत्वा सुराश्च ऋषयस्तस्य वाक्यमपूजयन् ॥
तदा विष्णुरुवाचेदं ब्रह्माणं प्रहसन्निव ॥५३॥

दृष्टं हि चेत्त्वया ब्रह्मन्मस्तकं परमार्थतः ॥
साक्षिणः के त्वया तत्र अस्मिन्नर्थे प्रकल्पिताः ॥५४॥

आकर्ण्य वचनं विष्णोर्ब्रह्मा लोकपितामहः ॥
उवाच त्वरितेनैव केतकी सुरभीति च ॥५५॥

ते देवा मम साक्षित्वे जानीहि परमार्थतः ॥
ब्रह्मणो हि वचः श्रुत्वा सर्वे देवास्त्वरान्विताः ॥५६॥

आह्वानं चक्रिरे तस्याः सुरभ्याश्च तया सह ॥
आगते तत्क्षमादेव कार्यार्थं ब्रह्मणस्तदा ॥५७॥

इंद्राद्यैश्च तदा देवैरुक्ता च सुरभी ततः ॥
उवाच केतकीसार्द्धं दृष्टो वै ब्रह्मणा सुराः ॥५८॥

लिंगस्य मस्तको देवाः केतकीदलपूजितः ॥
तदा नभोगता वाणी सर्वेषां श्रृण्वतामभूत् ॥५९॥

सुरभ्या चैव यत्प्रोक्तं केतक्या च तथा सुराः ॥
तन्मृषोक्तं च जानीध्वं न दृष्टो ह्यस्य मस्तकः ॥६०॥

तदा सर्वेऽथ विबुधाः सेंद्रा वै विष्णुना सह ॥
शेपुश्च सुरभीं रोषान्मृषावादनतत्पराम् ॥६१॥

मुखेनोक्तं त्वयाद्यैवमनृतं च तथा शुभे ॥
अपवित्रं मुखं तेऽस्तु सर्वधर्मबहिष्कृतम् ॥६२॥

सुगंधकेतकी चापि अयोग्या त्वं शिवार्चने ॥
भविष्यसि न संदेहो अनृता चैव भामिनि ॥६३॥

तदा नभो गता वाणी ब्रह्मणं च शशाप वै ॥
मृषोक्तं च त्वया मंद किमर्थं बालिशेन हि ॥६४॥

भृगुणा ऋषिभिः साकं तथैव च पुरोधसा ॥
तस्माद्युयं न पूज्याश्च भवेयुः क्लेशभागिनः ॥६५॥

ऋषयोऽपि च धर्मिष्ठास्तत्त्ववाक्यबहिष्कृताः ॥
विवादनिरता मूढा अतत्त्वज्ञाः समत्सराः ॥६६॥

याचकाश्चावदान्याश्च नित्यं स्वज्ञानघातकाः ॥
आत्मसंभाविताः स्तब्धाः परस्परविनिंदकाः ॥६७॥

एवं शप्ताश्च मुनयो ब्रह्माद्या देवतास्तथा ॥
शिवेन शप्तास्ते सर्वे लिंगं शरणमाययुः ॥६८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्रीशिवलिङ्गमाहात्म्ये ब्रह्मादिशापवृत्तान्तवर्णनं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : July 18, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP