केदारखण्डः - अध्यायः ३४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ लोमश उवाच ॥
राज्यं चकार कैलास दवदवा जगत्पतिः ॥
गणैः समेतो बहुभिर्वीरभद्रान्वितो महान् ॥१॥

ऋषिभिः सहितो रुद्रो देवैरिन्द्रादिभिः सह ॥
ब्रह्मा यस्य स्तुतिपरो विष्णुः प्रेष्यवदास्थितः ॥२॥

इंद्रो देवगणैः सार्द्धं सेवाधर्मपरोऽभवत् ॥
यस्य च्छत्रधरश्चंद्रो वायुश्चामरधृक्तथा ॥३॥

सूपान्नकर्ता सततं जातवदा निरन्तरम् ॥
गंधर्वा गायका यस्य स्तावकाश्च पिनाकिनः ॥४॥

विद्याधराश्च बहवस्तथा चाप्सरसां गणाः ॥
ननृतुश्चाग्रगा यस्य सोऽसौ कैलासपर्वते ॥५॥

पुत्रैर्गणेशस्कंदाद्यैस्तथा गिरिजया सह ॥
राज्यं प्रतापिभिश्चक्रेऽशंकश्चंक्रमणेन च ॥६॥

येनांधको महा दैत्यः स देवानामरिर्महान् ॥
दुष्टो विद्धस्त्रिशूलेन गगने स्थापितश्चिरम् ॥७॥

हत्वा गजासुरं येन उत्कृत्त्य चर्म वै कृतम् ॥
चिरं प्रावरणं दिव्यं तथा त्रिपुरदीपनम् ॥
विष्णुना पाल्यभूतेन रेजे सर्वांगसुन्दरः ॥८॥

तं द्रष्टुकामो भगवान्नारदो दिव्य र्शनः ॥
ययौ च पर्वतश्रेष्ठं कैलासं चन्द्रपांडुरम् ॥९॥

सुधया परया चापि सेवितं परमाद्भुतम् ॥
कर्पूरगौरं च तदा दृष्ट्वा तं सुमहाबलम् ॥
नारदो विस्मयाविष्टः प्रविष्टो गन्धमादनम् ॥१०॥

अनेकाश्चर्यसंयुक्तं तपनैश्च सुशोभितम् ॥
गायद्विद्याधरीभिश्च पूरितं च महाप्रभम् ॥११॥

कल्पद्रुमाश्च बहवो लताभिः परिवेष्टिताः ॥
घनच्छायासू तास्वेव विशिष्टा कामधेनवः ॥१२॥

पारिजातवनामोदलंपटा बहवोऽलयः ॥
कलहंसाश्च बहवः क्रीडमानाः सरस्तु च ॥१३॥

शिखंडिनो महच्चक्रुस्तत्र केकारवं मुदा ॥
पंचमालापिनः सर्वे विहंगाः संमदान्विताः ॥१४॥

करिणः करिणीभिश्च मोदमानाः सुवर्चसः ॥
सिंहास्तथा गर्जमानाः शार्दूलैः सह संगताः ॥१५॥

वृषभा नंदिमुख्याश्च रेभमाना निरन्तरम् ॥
देवद्रुमाश्च बहवस्तथा चंदनवाटिकाः ॥१६॥

नागपुंनागबकुलाश्चंपका नागकेसराः ॥
तथा च वनजंब्वश्च तथा कनककेतकाः ॥१७॥

कह्लाराः करवीरिश्च कुमुदानि ह्यनेकशः ॥
मंदाराश्च बदर्यश्च क्रमुकाः पाटलास्तथा ॥१८॥

तथान्ये बहवो वृक्षाः शम्भोस्तोषकराह्यमी ॥
ऐकपद्येन दृष्टास्ते नानाद्रुमलतान्विताः ॥
आरामा बहवस्तत्र द्विगुणाश्च बभूविरे ॥१९॥

गगनान्निस्सृतः सद्यो गंगौघः परमाद्भुतः ॥
पतितो मस्तके तस्य पर्वतस्य सुशोभिते ॥२०॥

कूपो हि पयसां ये न पवित्रं वर्तते जगत् ॥
सोपि द्विधा तदा दृष्टो नारदेन महात्मना ॥२१॥

सर्वं तदा द्विधाभूतं दृष्टं तेन महात्मना ॥
नारदेन तदा विप्राः परमेण निरीक्षितः ॥२२॥

एवं विलोकमानोऽसौ नारदो भगवानृषिः ॥
त्वरितेन तथा यातः शिवालोकनतत्परः ॥२३॥

यावद्द्वारि स्थितोपश्यन्महदाश्चर्यमेव च ॥
द्वारपालौ तदा दृष्टौ कृतकौ विश्वक्मणा ॥२४॥

नारदो मोहितो ह्यासीत्पप्रच्छ च स तौ तदा ॥
अहं प्रवेष्टुमिच्छामि शिवदर्शनलालसः ॥२५॥

तस्मादनुज्ञा दातव्या दर्शनार्थं शिवस्य च ॥
अश्रृण्वन्तौ तदा दृष्ट्वा नारदो विस्मितोऽभवत् ॥२६॥

ज्ञानदृष्ट्या विलोक्याथ दूष्णींभूतोऽभवत्तदा ॥
कृत्रिमौ हि च तौ ज्ञात्वा प्रविष्टो हि महामनाः ॥२७॥

तथान्ये तत्सरूपाश्च दृष्टास्तेन महात्मना ॥
ऋषिः प्रणमितस्तैश्च नारदो भगवान्मुxx ॥२८॥

एवमादीन्यनेकानि आश्चर्याणि ददर्श सः ॥
ददर्शाथ च सुव्यक्तं त्र्यंबकं गिरिजान्वितम् ॥२९॥

अर्धासनगता साध्वी शंकरस्य महात्मनः ॥
तनया गिरिराज्य यया व्याप्तं जगत्त्रयम् ॥३०॥

गौरी सितेक्षणा बाला तन्वंगी चारुलोचना ॥
यया रूपी कृतः शम्भुरुपादेयः कृतो महान् ॥३१॥

निर्विकानि विकारैश्च बहुभिर्विकलीकृतः ॥
अर्द्धागलग्ना सा देवी दृष्टा तेन शिवस्य च ॥३२॥

नारदेन तथा शम्भुर्दृष्टस्त्रिभुवनेश्वरः ॥
शुद्धचामी करप्रख्यः सेव्यमानः सुरासुरैः ॥३३॥

शंखेन भोगिवर्येण सेवितं चांघ्रिपंकजम् ॥
धृतराष्ट्रेण च तथा तक्षकेण विशेषतः ॥
तथा पद्मेन महा शेषेणापि विशेषतः ॥३४॥

अन्यैश्च नागवर्यैश्च सेवितो हि निरंतरंम् ॥
वासुकिः कंठलग्नो हि हारभूतो महाप्रभः ॥३५॥

कंबलाश्वतरौ नित्यं कर्णभूषणभूषितौ ॥
जटामूलगताश्चान्ये महाफणिवरा ह्यमी ॥३६॥

अनेकजातिसंवीता नानावर्णाश्च पद्मिनः ॥
तक्षकः कुलिकः शंखो धृतराष्ट्रो महाप्रभः ॥३७॥

पद्मो दंभः सुदंभश्च करालो भीषणस्तथा ॥
एते चान्ये च बहवो नागाश्चाशीविषा ह्यमी ॥३८॥

अंगभूता हरस्या सन्पूज्यस्यास्य जगत्त्रये ॥
फणैकया शोभमानाः केचिद्धि पन्नगोत्तमाः ॥३९॥

फणानां द्वितयं केषां त्रितयं च महाप्रभम् ॥
चतुष्क पंचकषट्कं सप्तकं चाष्टकं तथा ॥४०॥

नवकं दशकं चैव तथैकादशकं त्वथ ॥
द्वादशकं चाष्टादशकमेकोनविंशकं तथा ॥४१॥

चत्वारिंशत्फणाः केऽपि पंचाशत्कं च षष्टिकम् ॥
सप्ततिश्चाप्यशीतिश्च नवतिश्च तथैव च ॥४२॥

तथा शतसहस्राणि ह्ययुतप्रयुतानि च ॥
अर्बुदानि च रत्नानि तथा शङ्खमितानि च ॥४३॥

अनंताश्च फणा येषां ते सर्पाः शिवभूषणाः ॥
दृष्टास्तदानीं ते सर्वे नारदेन महात्मना ॥४४॥

विद्यावंतोऽपि ते सर्वे भोगिनोऽपि सुशोभिताः ॥
हारभूषणभूतास्ते मणिमंतोऽमितप्रभाः ॥४५॥

अर्द्धचंद्रांकितो यस्य कपर्द्दस्त्वतिसुंदरः ॥
चक्षुषा च तृतीयेन भालस्थेन विराजितः ॥४६॥

पंचवक्त्रो महादेवो बाहुभिर्द्दशभिर्वृतः ॥
तथा मरकतश्यामकंधरोऽतीवसुंदरम् ॥४७॥

उरो यस्य विशालं च तथोरुजघनं परम् ॥
चरणद्वयं च रुद्रस्य शोभितं परमं महत् ॥४८॥

तद्दृष्टं चरणारविंदमतुलं तेजोमयं सुंदरं संध्यारागसुमंगलं च परमं तापापनुत्तिंकरम् ॥
तेजोराशिकरं परात्परमिदं लावण्यलीलस्पदं सर्वेषां सुखवृद्धिकारणपरं शंभोः पदं पावनम् ॥४९॥

तथैव दृष्ट्वा परमं पराणां परा सती रूपवती च सुंदरी ॥
सौभाग्यलावण्यमहाविभूत्या विराजमाना ह्यतिसुंदरी शुभा ॥५०॥

दृष्ट्वा तौ दपती शुद्धौ राजमानौ जगत्त्रये ॥
अभिन्नौ भेदमापन्नौ निर्गुणौ गुणिनौ च तौ ॥५१॥

साकारौ च निराकारौ निरातंकौ सुखप्रदौ ॥
ववंदे च मुदा तौ स नारदो भगवत्प्रियः ॥
उत्थायोत्थाय च तदा तुष्टाव जगदीश्वरौ ॥५२॥

॥ नारद उवाच ॥
नतोस्म्यहं देववरौ युवाभ्यां परात्पराभ्यां कलया तथापि ॥
दृष्टौ मया दंपती राजमानौ यौ वीजभूतौ सचराचरस्य ॥५३॥

पितरौ सर्वललोकस्य ज्ञातौ चाद्यैव तत्त्वतः ॥
मया नास्त्यत्र संदेहो भवतोः कृपया तथा ॥५४॥

एवं स्तुतौ तदा तेन नारदेन महात्मना ॥
तुतोष भगवाञ्छंभुः पार्वत्या सहितस्तदा ॥५५॥

 ॥ महादेव उवाच ॥
सुखेन स्थीयते ब्रह्मन्किं कार्यं करवाणि ते ॥
तच्छ्रुत्वा वचनं शंभोर्नारदो वाक्यमब्रवीत् ॥५६॥

दर्शनं जातमद्यैव तेन तुष्टोऽस्म्यहं विभो ॥
दर्शनात्सर्वमेवाद्य शंभो मम न संशयः ॥५७॥

क्रीडनार्थमिहायातः कैलासं पर्वतोत्तमम् ॥
हृदिस्थो हि सदा नॄणामास्थितो भगवन्प्रभो ॥५८॥

तथापि दर्शनं भाव्यं सततं प्राणिनामिह ॥५९॥

॥ गिरिजोवाच ॥
का क्रीडा हि त्वया भाव्या वद शीघ्रं ममाग्रतः ॥
तस्यास्तद्वचनं श्रुत्वा उवाच प्रहसन्निव ॥६०॥

द्यूतक्रीडा महादेव दृश्यते विविधात्र च ॥
भवेद्द्वाभ्यां च द्यूते हि रमणाच् महत्सुखम् ॥६१॥

इत्येवमुक्त्वो परतं सती भृशमुवाच वाक्यं कुपिता ऋषिं प्रति ॥
कथं विजानासि परं प्रसिद्धं द्यूतं च दुष्टोदरकं मनस्विनाम् ॥६२॥

त्वं ब्रह्मपुत्रोऽसि मुनिर्मनीषिणां शास्ता हि वाक्यं विविधैः प्रसिद्धैः ॥
चरिष्यमाणो भुवनत्रये न हि त्वदन्यो ह्यपरो मनस्वी ॥६३॥

एवमुक्तस्तदा देव्या नारदो देवदर्शनः ॥
उवाच वाक्यं प्रहसन्गिरिजां शिवसन्निधौ ॥६४॥

 ॥ नारद उवाच ॥
द्यूतं न जानामि न चाश्रयामि ह्यहं तपस्वी शिवकिंकरश्च कथं च मां पृच्छसि राजकन्यके योगीश्वराणां परमं पवित्रे ॥६५॥

निशम्य वाक्यं गिरिजा सती तदा ह्युवाच वाक्यं च विहस्य तं प्रति ॥
जानासि सर्वं च बटोऽद्य पश्य मे द्यूतं महेशेन करोमि तेऽग्रतः ॥६६॥

इत्येवमुक्त्वा गिरिराजकन्यका जग्राह चाक्षान्भुवनैकसुंदरी ॥
क्रीडां चकाराथ महर्षिसाक्ष्यके तत्रास्थिता सा हि भवेन संयुता ॥६७॥

तौ दंपती क्रीडया सज्जमानौ दृष्टौ तदा ऋषिणा नारदेन ॥
सविस्मयोत्फुल्लमना मनस्वी विलोकमानोऽतितरां तुतोष ॥६८॥

सखीजनेन संवीता तदा द्यूतपरा सती ॥
शिवेन सह संगत्य च्छलाद्द्यूतमकारयत् ॥६९॥

स पणं च तदा चक्रे छलेन महता वृतः ॥
जिता भवानी च तदा शिवेन प्रहसन्निव ॥७०॥

नारदोऽस्याः शिवेनाथ उपहासकरोऽभवत् ॥
निशम्य हारितं द्यूतमुपहासं निशम्य च ॥७१॥

नारदस्य दुरुक्तैश्च कुपिता पार्वती भृशम् ॥
उवाच त्वरिता चैव दत्त्वा चैवार्द्धचंद्रकम् ॥७२॥

तथा शिरोमणी चैव तरले च मनोहरे ॥
मुखं सुखोभनं चैव तथा कुपितसुंदरम् ॥
दृष्टं हरेण च पुनः पुनर्द्यूतमकारयत् ॥७३॥

तथा गिरिजया प्रोक्तः शंकरो लोकशंकरः ॥
हारितं च मया दत्तः पण एव च नान्यथा ॥७४॥

क्रियते च त्वया शंभो कः पणो हि तदुच्यताम् ॥
ततः प्रहस्य चोवाच पार्वतीं च त्रिलोचनः ॥७५॥

मया पणोऽयं क्रियते भवानि त्वदर्थमेतच्च विभूषणं महत् ॥
सा चंद्रलेखा हि महान्हि हारस्तथैव कर्णोत्पलभूषणद्वयम् ॥७६॥

इदमेव त्वया तन्वि मां जित्वा गृह्यतां सुखम् ॥
ततः प्रवर्तितं द्यूतं शंकरेण सहैव च ॥७७॥

एवं विक्रीडमानौ तावक्षविद्याविशारदौ ॥
तदा जितो भवान्याथ शंकरो बहुभूषणः ॥७८॥

प्रहस्य गौरी प्रोवाच शंकरं त्वतिसुंदरी ॥
हारितं च पणं देहि मम चाद्यैव शंकर ॥७९॥

तदा महेशः प्रहसन्सत्यं वाक्यमुवाच ह ॥
न जितोऽहं त्वया तन्वि तत्त्वतो हि विमश्यताम् ॥८०॥

अजेयोऽहं प्राणिनां सर्वथैव तस्मान्न वाच्यं तु वोच हि साध्वि ॥
द्यूतं कुरुष्वाद्य यथेष्टमेव जेष्यामि चाहंच पुनः प्रपश्या ॥८१॥

तदाम्बिकाह स्वपतिं महेशं मया जितोऽस्यद्य न विस्मयोऽत्र ॥
एवमुक्त्वा तदा शंभुं करे गृह्य वरानना ॥
जितोऽसि त्वं न संदेहस्त्वं न जानासि शंकर ॥८२॥

एवं प्रहस्य रुचिरं गिरिजा तु शंभुं सा प्रेक्ष्या नर्मवचसा स तयाभिभूतः ॥
देहीति म सकलमंगलमंगलेश यद्धारितं स्मररिपो वचसानुमोदितम् ॥८३॥

॥ शिव उवाच ॥
अजेयोऽहं विशालाक्षि तव नास्त्यत्र संशयः ॥
अहंकारेण यत्प्रोक्तं तत्त्वतस्तद्विमृश्यताम् ॥८४॥

तस्य तद्वचनं श्रुत्वा प्रोवाच च विहस्य सा ॥
अजेयो हि महादेवः सर्वेषामपि वै प्रभो ॥८५॥

मयैकया जितोऽसि त्वं द्यूतेन विमलेन हि ॥
न जानासि च किंचिच्च कार्याकार्यं विवक्षितम् ८६॥

एवं विवदमानौ तौ दंपती परमेश्वरौ ॥
नारदः प्रहसन्वाक्यमुवाच ऋषिसत्तमः ॥८७॥

॥ नारद उवाच ॥
आकर्णयाऽऽकर्णविशालनेत्रे वाक्यं तदेकं जगदेकमंगलम् ॥
असौ महाभाग्यवतां वरेण्यस्त्वया जितः किं च मृषा ब्रवीषि ॥८८॥

अजितो हि महादेवो देवानां परमो गुरुः ॥
अरूपोऽयं सुरूपोयं रूपातीतोऽयमुच्यते ॥८९॥

एक एव परं ज्योतिस्तेषामपि च यन्महः ॥
त्रैलोक्यनाथो विश्वात्मा शंकरो लोकशंकरः ॥९०॥

कथं त्वया जितो देवि ह्यजेयो भुवनत्रये ॥
शिवमेनं न जानासि स्त्रीभावाच्च वरानने ॥९१॥

नारदेनैवमुक्ता सा कुपिता पार्वती भृशम् ॥
बभाषे मत्सरग्रस्ता साक्षेपं वचनं सती ॥९२॥

॥ पार्वत्युवाच ॥
चापल्याच्च न वक्त्व्यं ब्रह्मपुत्र नमोस्तु ते ॥

तव भीतास्मि भद्रं ते देवर्षे मौनमावह ॥९३॥

कथं शिवो हि देवर्ष उक्तोऽतो हि त्वया बहु ॥
मत्प्रसादा स्छवो जात ईश्वरो यो हि पठ्यते ॥९४॥

मया लब्धप्रतिष्ठोऽयं जातो नास्त्यत्र संशयः ॥९५॥

एवं बहुविधं श्रुत्वा नारदो मौनमाश्रयत् ॥
पस्थितं च तद्दृष्ट्वा भृंगी वाक्यमथाब्रवीत् ॥९६॥

 ॥भृंग्युवाच ॥
त्वया बहु न वक्तव्यं पुनरेव च भामिनि ॥
अजेयो निर्विकारो हि स्वामी मम सुमध्यमे ॥९७॥

स्त्रीभावयुक्तासि वरानने त्वं देवं न जानासि परं पराणाम् ॥
कामं पुरस्कृत्य पुरा भवानि समागतास्येव महेशमुग्रम ॥९८॥

यथा कृतं तेन पिनाकिना पुरा एतत्स्मृतं किं सुभगे वदस्व नः ॥
कृतो ह्यनंगो हि तदा ह्यनेन दग्धं वनं तस्य गिरेः पितुस्ते ॥९९॥

xxxवात्त्वयाराधित एव एष शिवः पराणां परमः परात्मा ॥१००॥

भृंगिणेत्येवमुक्ता सा ह्युवाच किपिता भृशम् ॥
श्रृण्वतो हि महेशस्य वाक्यं पृष्टा च भृंगिणम् ॥१०१॥

॥ पार्वत्युवाच ॥
हं भृंगिन्पक्षपातित्वाद्यदुक्तं वचनं मम ॥
शिवप्रियोऽसि रे मन्द भेदबुद्धिरतो ह्यसि ॥१०२॥

अहं शिवात्मिका मूढ शिवो नित्यं मयि स्थितः ॥
कथं शिवाभ्यां भिन्नत्वं त्वयोक्तं वाग्बलेन हि ॥१०३॥

श्रुतं च वाक्यं शुभदं पार्वत्या भृंगिणा तदा ॥
उवाच पार्वतीं भृंगी रुषितः शिवसन्निधौ ॥१०४॥

पुतुर्यज्ञे च दक्षस्य शिवनिंदा त्वया श्रुता ॥
अप्रियक्षवणात्सद्यस्त्वया त्यक्तं कलेवरम् ॥१०५॥

तत्क्षणादेव नन्वंगि ह्यधुना किं कृतं त्वया ॥
संभ्रमात्किं न जानासि शिवनिंदकमेव च ॥१०६
कथं वा पर्वतश्रेष्ठाज्जाता से वरवर्णिनि ॥
कथं वा तपसोग्रेण संतप्तासि सुमध्यमे ॥१०७॥

सप्रेमा च शिवे भक्तिस्तव नास्तीह संप्रातम् ॥
शिवप्रियासि तन्वंगि तस्नादेवं ब्रवीमि ते ॥१०८॥

शिवात्परतरं नान्यत्त्रिषु लोकेषु विद्यते ॥
शिवे भक्तिस्त्वया कार्या सप्रेमा वरवर्णिनि ॥१०९॥

भक्तासि त्वं महादेवि महाभाग्यवतां वरे ॥
संसेव्यतां प्रयत्नेन तपसोपार्जितस्त्वया ॥११०॥

शिवो वरेण्यः सर्वेशो नान्यथा कर्तुमर्हसि ॥
भृंगिणो वचनं श्रुत्वा गिरिजा तमुवाचह ॥१११॥

 ॥ गिरिजोवाच ॥
रे भृंगिन्मौनमालंब्य स्थिरो भवाथ वा व्रज ॥
वाच्यावाच्यं न जानासि किं ब्रवीषि पिशाचवत् ॥११२॥

तपसा केन चानीतः कया चापि शिवो ह्ययम् ॥
काहं कोऽसौ त्वया ज्ञातो भेदबुद्ध्या ब्रवीषि मे ॥११३॥

कोऽसि त्वं केन युक्तोऽसि कस्माच्च बहु भाषसे ॥
शापं तव प्रदास्यामि शिवः किं कुरुतेऽधुना ॥११४॥

भृंगिणोक्ता तिरस्कृत्य तदा शापं ददौ सती ॥
निमामो भव रे मन्द रे भृंगिञ्छिंकरप्रिय ॥११५॥

एवमुक्त्वा तदा देवी पार्वती शंकरप्रिया ॥
अथ कोपेन संयुक्ता पार्वती शंकरं तदा ॥११६॥

कर गृह्य च तन्वंगी भुजंगं वासुकिं तथा ॥
उदतारयत्कंठात्सा तथान्यानि बहूनि च ॥११७॥

शंभोर्जग्राह कुपिता भूषणानि त्वरान्विता ॥
हृत चंद्रकला तस्य गजाजिनमनुत्तमम् ॥११८॥

कंबलाश्वतरौ नागौ महेशकृतभूषणौ ॥
हृतौ तया महादेव्या छलोक्त्यां च प्रहस्य वै ॥११९॥

कौपीनाच्छा दनं तस्या च्छलोक्त्या च प्रहस्य वै ॥
तदा गणाश्च सख्यश्च त्रपया पीडिता भवन् ॥१२०॥

पराङ्गमुखाश्च संजाता भृङ्गी चैव महातपाः ॥
तथा चण्डो हि मुण्डश्च महालोमा महोदरः ॥१२१॥

एते चान्ये च बहवो गणास्ते दुःखिनोऽभवन् ॥
तांश्च दृष्ट्वा तथाभूतन्महेशो लज्जितोऽभवत् ॥१२२॥

उवाच वाक्यं रुषितः पार्वतीं प्रति शंकरः ॥१२३॥

॥ रुद्र उवाच ॥
उपहासं प्रकुर्वंति सर्वे हि ऋषयो भृशम् ॥
तथा ब्रह्मा च विष्णुश्च तथा चेन्द्रादयो ह्यमी ॥१२४॥

उपहासपराः सर्वे किं त्वयाद्य कृतं शुभे ॥
कुले जातासि तन्वंगि कथमेवं करिष्यसि ॥१२५॥

त्वया जितो ह्यहं सुभ्रु यदि जानासि तत्त्वतः ॥
तर्ह्येवं कुरु मे देहि कौपीनाच्छादनं परम् ॥
देहि कौपी नामात्रं मे नान्यथा कर्तुमर्हसि ॥१२६॥

एवमुक्ता सती तेन शंभुना योगिना तदा ॥
प्रहस्य वाक्यं प्रोवाच पार्वती रुचिरानना ॥१२७॥

किं कौपीनेन ते कार्यं मुनिना भावितात्मना ॥
दिगम्बरेणैव तदा कृतं दारुवनं तथा ॥१२८॥

भिक्षाटनमिषेणैव ऋषिपत्न्यो विरोहिताः ॥
गच्छ तस्ते तदा शंभो पूजनं तैर्महत्कृतम् ॥१२९॥

कौपीनं पतितं तत्र मुनिभिर्नान्यथोदितम् ॥
तस्मात्त्वया प्रहातव्यं द्यूतोहारितमेव तत् ॥१३०॥

तच्छ्रुत्वा कुपितो रुद्रः पार्वतीं परमेश्वरः ॥
निरीक्षमाणोऽतिरुषा तृतीयेनैव चक्षुषा ॥१३१॥

कुपितं शंकरं दृष्ट्वा सर्व देवगणास्तदा ॥
भयेन महताविष्टास्तथा गणकुमारकाः ॥१३२॥

ऊचुः सर्वे शनैस्तत्र शंकितेन परस्परम् ॥
अद्यायं कुपितो रुद्रो गिरिजां प्रति संप्रति ॥१३३॥

यथा हि मदनो दग्धस्तथेयं नान्यथा वचः ॥
एवं मीमांसमानास्ते गणा देवर्षयस्तदा ॥१३४॥

विलोकितास्तया देव्या सर्वे सौभाग्यमुद्रया ॥
उवाच प्रहसन्नेव सती सत्पुरुषं तदा ॥१३५॥

किमालोकपरो भूत्वा चक्षुषा परमेण हि ॥
नाहं कालो न कामोऽहं नाहं दभस्य वै मखः ॥१३६॥

त्रिपुरो नैव वै शंभो नांधको वृषभध्वज ॥
वीक्षितेनैव किं तेन तव चाद्य भविष्यति ॥
वृथैव त्वं विरूपाक्षो जातोऽसि मम चाग्रतः ॥१३७॥

एवमादीन्यनेकानि हयुवाच परमेश्वरी ॥
निशम्य देवो वाक्यानि गमनाय मनो दधे ॥१३८॥

वनमेव वरं चाद्य विजनं परमार्थतः ॥
एकाकी यतचित्तात्मा त्यक्तसर्वपरिग्रहः ॥१३९॥

स सुखी परमार्थज्ञः स विद्वान्स च पंडितः ॥
येन मुक्तौ कामरागौ स मुक्तः स सुखी भवेत् ॥१४०॥

एवं विमृश्य च तदा गिरिजां विहाय श्रीशंकरः परमकारुणिकस्तदानीम् ॥
यातः प्रियाविरहितो वनमद्भुतं च सिद्धाटवीं परमहंसयुतां तथैव ॥१४१॥

निर्गतं शंकरं दृष्ट्वा सर्वे कैलासवासिनः ॥
निर्ययुश्च गणाः सर्वे वीरभद्रादयोऽनु तम् ॥१४२॥

छत्रं भृंगी समादाय जगाम तस्य पृष्ठतः ॥
चामरे वीज्यमाने च गंगायमुनसन्निभे ॥१४३॥

ताभ्यां युक्तस्तदा नंदी पृष्ठतोऽन्वगमत्सुधीः ॥
वृषभों ह्यग्रतो भूत्वा पुष्पकेण विराजितः ॥१४४॥

शोभमानो महादेव एभिः सर्वैः सुशोभनैः ॥
अंतःपुरगता देवी पार्वती सा हि दुर्मनाः ॥१४५॥

सखीभिर्बहुभिस्तत्र तथान्याभिः सुसंवृता ॥
गिरिजा चिंतयामास मनसा परमेश्वरम् ॥१४६॥

ततो दूरं गतः शंभुर्विसृज्य च गणांस्तदा ॥
गणेशं च कुमारं च वीरभद्रं तथाऽपरान् ॥१४७॥

भृंगिणं नंदिनं चंडं सोमनंदिनमेव च ॥
एतानन्यांश्च सर्वांश्च कैलासपुरवासिनः ॥१४८॥

विसृज्य च महादेव एक एव महातपाः ॥
गतो दूरं वनस्यांते तथा सिद्धवटं शिवः ॥१४९॥

काश्मीररत्नोपलसिद्धरत्नवैदूर्यचित्रं सुधया परिष्कृतम् ॥
दिव्यासनं तस्य च कल्पितं भुवा तत्रास्थितो योगपतिर्महेशः ॥१५०॥

पद्मासने चोपविष्टो महेशो योगवित्तमः ॥
केवलं चात्मनात्मानं दध्यौ मीलितलोचनः ॥१५१॥

शुशुभे स महादेवः समाधौ चंद्रशेखरः ॥
योगपट्टः कृतस्तेन शेषस्य च महात्मनः ॥
वासुकिः सर्पराजश्च कटिबद्धः कृतो महान् ॥१५२॥

आत्मानमात्मात्मतया च संस्तुतो वेदांतवेद्यो न हि विश्वचेष्टितः ॥
एको ह्यनेको हि दुरंतपारस्तथा ह्यर्क्यो निजबोधरूपः ॥
स्थितस्तदानीं परमं पराणां निरीक्षमाणो भुवनैकभर्ता ॥१५३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवपार्वतीद्यूतप्रसंगेन पार्वतीहारितसर्वस्वस्य शिवस्य कैलासं विहाय तपोवनगमनवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥३४॥

N/A

References : N/A
Last Updated : July 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP