केदारखण्डः - अध्यायः १०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥मुनय ऊचुः ॥
यत्त्वया कथितं ब्रह्मन्ब्रह्मांडं सचराचरम् ॥
भस्मीभूतं रुद्रकोपात्कालकूटाग्निनाऽथ़खिलम् ॥१॥
ब्रह्मांडांतरतः किं तु रुद्रं मन्यामहे वयम् ॥
तदा चराचरं नष्टं ब्रह्मविष्णुपुरोगमम् ॥२॥
भस्मीभूतं रुद्रकोपात्कथं सृष्टिः प्रवर्तिता ॥
कुतो ब्रह्मा च विष्णुश्च कुतश्चंद्रपुरोगमाः ॥३॥
अन्ये सुरा सुराः कुत्र भस्मीभूता लयं गताः ॥
अत ऊर्ध्वं किमभवत्तत्सर्वं वक्तुमर्हसि ॥४॥
व्यासप्रसादात्सकलं वेत्थ त्वं नापरो हि तत् ॥
तस्माज्ज्ञानमयं शास्त्रं तज्जानासि न चापरः ॥५॥
इति पृष्टस्तदा सर्वैर्मुनिभिर्भावितात्मभिः ॥
सूतो व्यासं नमस्कृत्य वाक्यं चेदमथाब्रवीत् ॥६॥
॥ लोमश उवाच ॥
यदा ब्रह्मांडमध्यस्था व्याप्ता देवा विषाग्निना ॥
हरिब्रह्मादयो ह्येते लोकपालाः सवासवाः ॥
तदा विज्ञापितः शंभुर्हेरंबेन महात्मना ॥७॥
॥हेरंब उवाच ॥
हे रुद्र हे महादेव हे स्थाणो ह जगत्पते ॥
मया विघ्नं विनोदेन कृतं तेषां सुदुर्जयम् ॥८॥
भयेन मति मोहात्त्वां नार्च्चयंति च मामपि ॥
उद्योगं ये प्रकुर्वन्ति तेषां क्लेशोऽधिको भवेत् ॥९॥
एवमभ्यर्थितस्तेन पिनाकी वृषभध्वजः ॥
विघ्नांधकारसूर्येण गणाधिपतिना तदा ॥१०॥
लिंगरूपोऽब्रवीच्छंभुर्निराकारो निरामयः ॥
निरंजनो व्योमकेशः कपर्द्दी नीललोहितः ॥११॥
॥महेश्वर उवाच ॥
हेरंब श्रृणु मे वाक्यं श्रद्धया परया युतः ॥
अहंकारात्मकं चैव जगदेतच्चराचरम् ॥१२॥
स्थितिं करोत्यहंकारः प्रलयोत्पत्तिमेव च ॥
जगदादौगणपते तदा विज्ञप्तिमात्रतः ॥१३॥
मायाविरहितं शांतं द्वैताद्वैतपरं सदा ॥
ज्ञप्तिमात्रस्वरूपं तत्सदानंदैकलक्षणम् ॥१४॥
॥गणपतिरुवाच ॥
यदि त्वं केवलो ह्यात्मा परमानन्दलक्षणः ॥
तस्मात्त्वदपरं किंचिन्नान्यदस्ति परंतप ॥१५॥
नानारूपं कथं जातं सुरासुरविलक्षणम् ॥
विचित्रं मोहजननं त्रिभिर्द्देवैश्च लक्षितम् ॥१६॥
भूतग्रामैश्चतुर्भिश्च नानाभेदैः समन्वितैः ॥
जातं संसारचक्रं च नित्यानित्यविलक्षणम् ॥१७॥
परस्परविरोधेन ज्ञानवादेन मोहिताः ॥
कर्मवादरताः केचित्केचित्स्वगुणमाश्रिताः ॥१८॥
ज्ञाननिष्ठाश्च ये केचित्परस्परविरोधिनः ॥
एवं संशयमापन्नं त्राहि मां वृषभध्वज ॥१९॥
अहं गणश्च कुत्रत्याः क्व चायं वृषभः प्रभो ॥
एते चान्ये च बहवः कुतो जाताश्च कुत्र वै ॥२०॥
कृताः सर्वे महाभागाः सात्त्विका राजसाश्च वै ॥
प्रहस्य भगवाञ्छंभुर्गणेशं वक्तुमुद्यतः ॥२१॥
॥महेश्वर उवाच ॥
कालशक्त्या च जातानि रजःसत्त्वतमांसि च ॥
तैरावृतं जगत्सर्वं सदेवासुमानुषम् ॥२२॥
परिदृश्यमानमेतच्चानश्वरं परमार्थतः ॥
विद्ध्येतत्सर्वसिद्ध्यैव कृतकत्वाच्च नश्वरम् ॥२३॥
॥ लोमश उवाच ॥
यावद्गणेशसंयुक्तो भाषमाणः सदाशिवः ॥
लिंगरूपी विश्वरूपः प्रादुर्भूता सदाशिवात् ॥२४॥
शिवरूपा जगद्योनिः कार्यकारणरूपिणी ॥
लिंगरूपी स भगवान्निमग्नस्तत्क्षणादभूत् ॥२५॥
एका स्थिता परा शक्तिर्ब्रह्मविद्यात्मलक्षणा ॥
गणेशो विस्मयाविष्टो ह्यवलोकनतत्परः ॥२६॥
॥ऋषय ऊचुः ॥
प्रकृत्यन्तर्गतं सर्वं जगदेतच्चराचरम् ॥
गणेशस्य पृथक्त्वं च कथं जातं तदुच्यताम् ॥२७॥
॥लोमश उवाच ॥
साक्षात्प्रकृत्याः संभूतो गणेशो भगवानभूत् ॥
यथारूपः शिवः साक्षात्तद्रूपो हि गणेश्वरः ॥२८॥
शिवेन सह संग्रामो ह्यभूत्तस्य महात्मनः ॥
अज्ञानात्प्रकृतो भूत्वा बहुकालं निरन्तरम् ॥२९॥
तस्य दृष्ट्वा ह्यजेयत्वं गजारूढस्य तत्तदा ॥
त्रिशूलेनाहनच्छंभुः सगजं तमपातयत् ॥३०॥
तदा स्तुतो महादेवः परशक्त्या परंतपः ॥
परशक्तिमुवाचेदं वरं वरय शोभने ॥३१॥
तदा वृतो महादेवो वरेण परमेण हि ॥
योऽयं त्वया हतो देव मम पुत्रो न संशयः ॥३२॥
त्वां न जानात्ययं मूढः प्रकृत्यंशसमुद्भवः ॥
तस्मात्पुत्रं जीवयेमं मम तृष्ट्यर्थमेव च ॥३३॥
प्रहस्य भगवान्रुद्रो मायापुत्रमजीवयत् ॥
सिंधुरवदनेनैव मुखे स समयोजयत् ॥३४॥
तदा गजाननो जातः प्रसादाच्छंकरस्य च ॥
मायापुत्रोपि निर्मायो ज्ञानवान्संबभूव ह ॥३५॥
आत्मज्ञानामृतेनैव नित्यतृप्तो निरामयः ॥
समाधिसंस्थितो रौद्रः कालकालांतकोऽभवत् ॥३६॥
योगदंडार्थमुत्पाट्य स्वकीयं दशनं महत् ॥
करे गृह्य गणाध्यक्षः शब्धब्रह्मातिवर्त्तते ॥
ऋद्धिसिद्धिद्वयेनैव एकत्वेन विराजितः ॥३७॥
ये ते गणाश्च विघ्नाश्च ये चान्येऽभ्यधिका भुवि ॥
तेषामपि पतिर्जातः कृतोऽसौ शंभुना तदा ॥३८॥
तस्माद्वि लोकयामास प्रकृतिं विश्वरूपिणीम् ॥
पृथक्स्थित्वाग्रतो जानाल्लिंगं प्रकृतिमेव च ॥
ददर्श विमलं लिंगं प्रकृतिस्थं स्वभावतः ॥३९॥
आत्मानं च गणैः साद्धं तथैव च जगत्त्रयम् ॥
लीनं लिंगे समस्तं तद्धेरम्बो ज्ञानवानपि ॥४०॥
मुमोह च पुनः संज्ञां प्रतिलभ्य प्रयत्नतः ॥
ननाम शिरसा ताभ्यामीशाभ्यां स गणेश्वरः ॥४१॥
तदा ददर्श तत्रैव लोकसंहारकारकम् ॥
ब्रह्माणं चैव रुद्रं च विष्णुं चैव सदाशिवम् ॥४२॥
ददर्श प्रेततुल्यानि लिंगशक्त्यात्मकानि च ॥
ब्रह्माण्डगोलकान्येव कोटिशः परमाणुवत् ॥४३॥
लीयंते च विलीयंते महेशे लिंगरूपिणि ॥
प्रकृत्यंतर्गतं लिंगं लिंगस्यांतर्गता च सा ॥४४॥
शक्त्या लिंगं च संछन्नं तदा सर्वमदृश्यत ॥
लिंगेन शक्तिः संछन्ना परस्परमवर्तत ॥४५॥
शिवाभ्यां संश्रितं लोकं जगदेतच्चराचरम् ॥
गणेशो वापि तज्ज्ञानं न परेऽपि तथाविदन् ॥४६॥
तदोवाच महातेजा गणाध्यक्षो गणैः सह ॥
सशक्तिकं स्तूयमानः शक्त्या च परया तदा ॥४७॥
॥गणेश उवाच ॥
नमामि देवं शक्त्यान्वितं ज्ञानरूपं प्रसन्नं ज्ञानात्परं परमंज्योतिरूपम् ॥
रूपात्परं परमं तत्त्वरूपं तत्त्वात्परं परमं मंगलं च आनंदाख्यं निष्कलं निर्विषादम् ॥४८॥
धूमात्परमयोवह्निर्धूमवत्प्रतिभासते ॥
प्रकृत्यंतर्गस्त्वं हि लक्ष्यसे ज्ञानिसंभवः ॥
प्रकृत्यंतर्गतस्त्वं हि मायाव्यक्तिरितीयसे ॥४९॥
एवंविधस्त्वं भगवन्स्वमायया सृजस्यथोलुंपसि पासि विश्वम् ॥
अस्माद्गरात्सर्वमिदं प्रनष्टं सब्रह्मविप्रेंद्रयुतं चराचरम् ॥५०॥
यथा पुरासीर्भगवान्महेशस्त्रैलोक्यनाथोऽसि चराचरात्मा ॥
कुरुष्य शीघ्रं सहजीवकोशं चराचरं तत्सकलं प्रदग्धम् ॥५१॥
॥ लोमश उवाच ॥
एवं स्तुतो गणेशेन भगवान्भूतभावनः ॥
यदुत्थितं कालकूटं लोकसंहारकारकम् ॥५२॥
लिंगरूपेण तद्ग्रस्तं विमलं चाकरोत्तदा ॥
सदेवासुरमर्त्याश्च सर्वाणि त्रिजगन्ति च ॥
तत्क्षणाद्रक्षितान्येव कृपया परया युतः ॥५३॥
ब्रह्मा विष्णुः सुरेंद्रश्च लोकपालाः सहर्षयः ॥
यक्षा विद्याधराः सिद्धा गंधर्वाप्सरसां गणाः ॥
उत्थिताश्चैव ते सर्वे निद्रापरिगता इव ॥५४॥
विस्मयेन समाविष्टा बभूवुर्जातसाध्वसाः ॥
सर्वे देवासुराश्चैव ऊचुराश्चर्यवत्ततः ॥५५॥
क्व कालकूटं सुमहद्येन विद्राविता वयम् ॥
मृतप्रायाः कृताः सद्यः सलोकपालका ह्यमी ॥५६॥
इत्यब्रुवंस्तदा दैत्यास्तूष्णींभूतास्तदा स्थिताः ॥
शक्रादयो लोकपाला विष्णुं सर्वेश्वरेश्वरम् ॥
ब्रह्माणं च पुरस्कृत्य इदमूचुः समेधिता ॥५७॥
केनेदं कारितं विष्णो न विदामोऽल्पमेधसः ॥
तदा प्रहस्य भगवान्ब्रह्मणा सह तैः सुरैः ॥५८॥
समाधिमगमन्सर्वेऽप्येकाग्रमनसस्तदा ॥
तत्त्वज्ञानेन निर्हृत्य कामक्रोदादिकान्द्विजाः ॥५९॥
तदात्मनि स्थितं लिंगमपश्यन्वि बुधादयः ॥
विष्णुं पुरस्कृत्य तदा तुष्टुवुः परमार्थतः ॥६०॥
आत्मना परमात्मानं योगिनः पर्युपासते ॥६१॥
लिंगमेव परं ज्ञानं लिंगमेव परं तपः ॥
लिंगमेव परो धर्मो लिंगमेव परा गतिः ॥
तस्माल्लिंगात्परतरं यच्च किंचिन्न विद्यते ॥६२॥
एवं ब्रुवंतो हि तदा सुरासुराः सलोकपाला ऋषिभिश्च साकम् ॥
विष्णुं पुरस्कृत्य तमालवर्णं शंभुं शरण्यं शरणं प्रपन्नाः ॥६३॥
त्राहित्राहि महादेव कृपालो परमेश्वर ॥
पुरा त्राता यथा सर्वे तथात्वं त्रातुमर्हसि ॥६४॥
तद्देवदेव भवतश्चरणारविंदं सेवानुबंधमहिमानमनंतरूपम् ॥
त्वदाश्रितं यत्परमानुकंपया नमोऽस्तु ते देववर प्रसीद ॥६५॥
लिंगस्वरूपमध्यस्थो भगवान्भूतभावनः ॥
सर्वैः सुरगणैः साकं बभाषेदं रमापतिः ॥६६॥
त्वं लिंगरूपी भगवाञ्जगतामभयप्रदः ॥
विष्णुना संस्तुतो देवो लिंगरूपी महेश्वरः ॥६७॥
मृतास्त्राता गरात्सर्वे तस्मान्मृत्युंजय प्रभो ॥
रक्षरक्ष महाकाल त्रिपुरांत नमोस्तु ते ॥६८॥
विष्णुना संस्तुतो देवो लिंगरूपी महेश्वरः ॥
प्रादुर्बभूव सांबोऽथ बोधयन्निव तान्सुरान् ॥६९॥
हे विष्णो हे सुराः सर्व ऋषयः श्रूयतामिदम् ॥
मन्यतेऽपि हि संसारे अनित्ये नित्यताकुलम् ॥७०॥
अविलोकयताऽऽत्मात्मना विबुधादयः ॥
किं यज्ञैः किं तपोभिश्च किमुद्योगेन कर्मणाम् ॥७१॥
एकत्वेन पृथक्त्वेन किंचिन्नैव प्रयोजनम् ॥
यस्माद्भवद्भिर्मिलितैः कृतं यत्कर्म दुष्करम् ॥७२॥
क्षीराब्धेर्मथनं तत्तु अमृतार्थं कथं कृतम् ॥
मृत्युं जयं निराकृत्य अवज्ञाय च मां सदा ॥७३॥
तस्मात्सर्वे मृत्युमुखं पतिता वै न संशयः ॥
अस्माभिर्निर्मितो देवो गणेशः कार्यसिद्धये ॥७४॥
न नमंति गणेशं च दुर्गां चैव तथाविधाम् ॥
क्लेशभाजो भविष्यति नात्र कार्या विचारणा ॥७५॥
यूयं सर्वे त्वधर्मिष्ठाः स्तब्धाः पंडितमानिनः ॥
कार्याकार्यमविज्ञाय केवलं मानमोहिताः ॥७६॥
तस्मात्कालमुखे सर्वे पतिता नात्र संशयः ॥
सर्वे श्रुतिपरा यूयमिंद्राद्या देवतागणाः ॥७७॥
प्ररोचनपराः सर्वे क्षुद्राश्चेंद्रादयो वृथा ॥
नात्मानं च प्रपंचेन वेत्सि त्वं हि शचीपते ॥७८॥
कृतः प्रयत्नो हि महानमृतार्थं त्वया शठ ॥
अश्वमेधशतेनैव यद्राज्यं प्राप्तवानसि ॥
अपि तच्च पराधीन तन्न जानासि दुर्मते ॥७९॥
यैर्वदवाक्यैस्त्वं मूढ संस्तुतोऽसि तपस्विभिः ॥
ते मूढास्तो षयंति त्वां तत्तद्रागपरायणाः ॥८०॥
विष्णो त्वं च पक्षपातान्न जानासि हिताहितम् ॥
केचिदधतास्त्वया विष्णो रक्षिताश्चैव केचन ॥८१॥
इच्छायुक्तस्त्वमत्रैव सदा बालकचेष्टितः ॥
येऽन्ये च लोकपाः सर्वे तेषां वार्ता कुतस्त्विह ॥८२॥
अन्यथा हि कृते ह्यर्थे अन्यथात्वं भविष्यति ॥
कार्यसिद्धिर्भवेद्येन भवद्भिर्विस्मृतं च तत् ॥८३॥
येनाद्य रक्षिताः सर्वे कालकूटमहाभयात् ॥
येन नीलीकृतो विष्णुर्येन सर्वे पराजिताः ॥८४॥
लोका भस्मीकृता येन तस्माद्येनापि रक्षिताः ॥
तस्यार्च्चनाविधिः कार्यो गणेशस्य महात्मनः ॥८५॥
कर्मारंभे तु विघ्नेशं ये नार्चंति गणाधिपम् ॥
कार्यसिद्धिर्न तेषां वै भवेत्तु भवतां यथा ॥८६॥
एतन्महेशस्य वचो निशम्य सुरासुराः किंनरचारणाश्च ॥
पूजाविधानं परमार्थतोऽपि पप्रच्छुरेनं च तदा गिरीशम् ॥८७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे समुद्रमंथनाख्याने शिवकृतविषभक्षणवृत्तान्तवर्णनंनाम दशमोऽध्यायः ॥१०॥
N/A
References : N/A
Last Updated : July 18, 2024
TOP