केदारखण्डः - अध्यायः २५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ लोमश उवाच ॥
तत्रोपविविशुः सर्वे सत्कृताश्च हिमाद्रिणा ॥
ते देवाः सपरिवाराः सहर्षाश्च सवाहनाः ॥१॥

तत्रैव च महामात्रं निर्मितं विश्वकर्मणा ॥
दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः ॥२॥

तथैव विष्णोस्त्वपरं भवनं स्वयमेव हि ॥
भास्वरं सुविचित्र च कृतं त्वष्ट्रा मनोरमम् ॥
वण्डीगृहं मनोज्ञं च तथैव कृतवान्स्वयम् ॥३॥

तथैव श्वेतं परमं मनोज्ञं महाप्रभं देववरैः सुपूजितम् ॥
कैलासलक्ष्मीप्रभया महत्या सुशोभितं तद्भवनं चकार ॥४॥

तत्रैव शंभुः परया विभूत्या स स्थापितस्तेन हिमाद्रिणा वै ॥५॥

एतस्मिन्नंतरे मेना समायाता सखीगणैः ॥
नीराजनार्थं शंभुं च ऋषिभिः परिवारिता ॥६॥

तदा वादित्रदिर्घोपैर्नादितं भुवनत्रयम् ॥
नीराजनं कृतं तस्य मेनया च तपस्विनः ॥७॥

अवलोक्य परा साध्वी मेनाऽजानाद्धरं तदा ॥
गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता ॥८॥

यद्वै पुरोक्तं च तया पार्वत्या मम सन्निधौ ॥
ततोऽधिकं प्रपश्यामि सौंदर्यं परमेष्ठिनः ॥
महेशस्य मया दृष्टमनिर्वाच्यं च संप्रति ॥९॥

एवं विस्मयमापन्ना विप्रपत्नीभिरावृता ॥
अहतां बरयुग्मेन शोभिता वरवर्णिनी ॥१०॥

कंचुकी परमा दिव्या नानारत्नैश्च शोभिता ॥
अंगीकृता तदा देव्या रराज परया श्रिया ॥११॥

बिभ्रती च तदा हारं दिव्यरत्नविभूषितम् ॥
वलयानि महार्हाणि शुद्धचामीकराणि च ॥१२॥

तत्रोपविष्टा सुभगा ध्यायंती परमेश्वरम् ॥
सखीभिः सेव्यमाना सा विप्रपत्नीभिरेव च ॥१३॥

एतस्मिन्नंतरे तत्र गर्गो वाक्यमभाषत ॥
पाणिग्रहार्थं शंभुं च आनयध्वं स्वमंदिरम् ॥
त्वरितेनैव वेलायामस्यामेव विचक्षणाः ॥१४॥

तच्छ्रुत्वा वचनं तस्य गर्गस्य च महात्मनः ॥
अभ्युत्थानपराः सर्वे पर्वताः सकलत्रकाः ॥१५॥

महाविभूत्या संयुक्ताः सर्वे मंगलपाणयः ॥
सालंकृतास्तदा तेषां पत्न्योलंकारमंडिताः ॥१६॥

उपायनान्यनेकानि जगृहुः स्निग्धलोचनाः ॥
तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा ॥१७॥

आजग्मुः सकलात्रास्ते यत्र देवो महेश्वरः ॥
प्रमथैरावृतस्तत्र चंड्या चैवाभिसेवितः ॥१८॥

तथा महर्षिभिस्तत्र तथा देवगणैः सह ॥
एभिः परिवृतः श्रीमाञ्छंकरो लोकशंकरः ॥१९॥

श्रुत्वा वादित्रनिर्घोषं सर्वे शंकरसेवकाः ॥
उत्थिता ऐकापद्येन देवैर्ऋषिभिरावृताः ॥२०॥

तथोद्यतो योगिनाचक्रयुक्ता गणा गणानां गणानां पतिरेकवर्चसाम् ॥
शिवंपुरस्कृत्य तदानुभावास्तथैव सर्वे गणनायकाश्च ॥२१॥

तद्योगिनी चक्रमतिप्रचंडं टंकारभेरीरवनिस्वनेन ॥
चंडीं पुरस्कृत्य भयानकां तदा महाविभूत्या समलंकृतां तदा ॥२२॥

कंठे कर्कोटकं नागं हारभूतं च कार सा ॥
पदकं वृश्चिकानां च दंदशूकांश्च बिभ्रती ॥२३॥

कर्णावतंसान्सा दध्रे पाणिपादमयांस्तथा ॥
रणे हतानां वीराणां शिरांस्युरसिचापरान् ॥२४॥

द्वीपिचर्मपरीधाना योगिनीचक्रसंयुता ॥
क्षेत्रपालावृता तद्वद्भैरवैः परिवारिता ॥२५॥

तथा प्रेतैश्च भूतैश्च कपटैः परिवारिता ॥
वीरभद्रादयश्चैव गणाः परमदारुणाः ॥
ये दक्षयज्ञनाशार्थे शिवेनाज्ञापितास्तदा ॥२६॥

तथा काली भैरवी च माया चैव भयावहा ॥
त्रिपुरा च जया चैव तथा क्षेमकरी शुभा ॥२७॥

अन्याश्चैव तथा सर्वाः पुरस्कृत्य सदाशिवम् ॥
गंतुकामाश्चोग्रतरा भूतैः प्रेतैः समावृताः ॥२८॥

एताः सर्वा विलोक्याथ शिवभक्तो जनार्द्दनः ॥
महर्षीश्च पुरस्कृत्य ह्यमरांश्च तथैव च ॥
अनसूयां पुरस्कृत्य तथैव च ह्यरुंधतीम् ॥२९॥

 ॥विष्णुरुवाच ॥
चण्डीं कुरु समीपस्थां लोकपालनतां प्रभो ॥३०॥

तदुक्तं विष्णुना वाक्यं निशम्य जगदीश्वरः ॥
उवाच प्रहसन्नेव चंडीं प्रति सदाशिवः ॥३१॥

अत्रैव स्थीयतां चंडीं यावदुद्वहनं भवेत् ॥
मम भावान्विजानासि कार्याकार्ये सुशोभने ॥३२॥

एवमाकर्ण्य वचनं शंभोरमिततेजसः ॥
उवाच कुपिता चंडी विष्णुमुद्दिश्य सादरम् ॥३३॥

तथान्ये प्रमथाः सर्वे विष्णुमूचुः प्रकोपिताः ॥
यत्रयत्र शिवो भाति तत्रतत्र वयं प्रभो ॥३४॥

त्वया निवारिताः कस्माद्वयमाभ्युदये परे ॥
तेषां तद्वचनं श्रुत्वा केशवोवाक्यमब्रवीत् ॥३५॥

चण्डीमुद्दिश्य प्रमथानन्यांश्चैव तथाविधान् ॥
यूयं चैव मया प्रोक्ता मा कोपं कर्त्तुमर्हथ ॥३६॥

एवमुक्तास्तदा तेन चंडीमुख्या गणास्तदा ॥
एकांतमाश्रिताः सर्वे विष्णुवाक्याज्ज्वलद्धृदः ॥३७॥

तावत्सर्वे समायाताः पर्वतेंद्रस्य मंत्रिणः ॥
सकलत्राः संभ्रमेण महेशं प्रति सत्वरम् ॥३८॥

पंचवाद्यप्रघोषेण ब्रह्मघोषेण भूयसा ॥
योषिद्भिः संवृतास्तत्र गीतशब्देन भूयसा ॥३९॥

एवं प्राप्ता यत्र शंभुः सकलैः परिवारितः ॥
आगत्य कलशैः साकं स्नापितो हि सदाशिवः ॥
स्त्रीभिर्मंगलगीतेन सर्वाभरणभूषितः ॥४०॥

ऋषयो देवगंधर्वास्तथान्ये पर्वतोत्तमाः ॥
शंभ्यग्रगास्तदा जग्मुः स्त्रियश्चैव सुपूजिताः ॥
बभौ छत्रेण महता ध्रिमाणेन मूर्द्धनि ॥४१॥

चामरै वीर्ज्यमानोऽसौ मुकुटेन विराजितः ॥
ब्रह्मा विष्णुस्तथा चंद्रो लोकपालस्तथैव च ॥४२॥

अग्रगा ह्यपि शोभंतः श्रिया परमया युताः ॥
तथा शंखाश्च भेर्यश्च पटहानकगोमुखाः ॥४३॥

तथैव गायकाः सर्वे परममंगलम् ॥
पुनः पुनरवाद्यंत वादित्राणि महोत्सवे ॥४४॥

अरुंधती महाभागा अनसूया तथैव च ॥
सावित्री च तथा लक्ष्मीर्मातृभिः परिवारिताः ॥४५॥

एभिः समेतो जगदेकबंधुर्बभौ तदानीं परमेण वर्चसा ॥
सचंद्रसूर्यानिलवायुना वृतः सलोकपालप्रवरैर्महर्षिभिः ॥४६॥

स वीज्यमानः पवनेनः साक्षाच्छत्रं च तस्मै शशिना ह्यधिष्ठितम् ॥
सूर्यः पुरस्तादभवत्प्रकाशकः श्रियान्वितो विष्णुरभूच्च सन्निधौ ॥४७॥

पुष्पैर्ववर्षुर्ह्यवकीर्यमाणा देवास्तदानीं मुनिभिः समेताः ॥
ययौ गृहं कांचनकुट्टिमं महन्महावि भूत्यापरिशोभितं तदा ॥
विवेश शंभुः परया सपर्यया संपूज्यमानो नरदेवदानवैः ॥४८॥

एवं समागतः शंभुः प्रविष्टो यज्ञमण्डपम् ॥
संस्तूयमानो विबुधैः स्तुतिभिः परमेश्वरः ॥४९॥

गजादुत्तारयामास महेशं पर्वतोत्तमः ॥
उपविश्य ततः पीठे कृत्वा नीराजनं महत् ॥५०॥

मेनया सखिभिः साकं तथैव च पुरोधसा ॥
मधुपर्कादिकं सर्वं यत्कृतं चैव तत्र वै ॥५१॥

ब्रह्मणा नोदितः सद्यः पुरोधाः कृतवान्प्रभुः ॥
मंगलं शुभकल्याणं प्रस्तावसदृशं बहु ॥५२॥

अंतर्वेद्यां संप्रवेश्य यत्र सा पार्वती स्थिता ॥
वेदिकोपरि तन्वंगी सर्वाभरणभूषिता ॥५३॥

तत्रानीतो हरः साक्षाद्विष्णुना ब्रह्मणा सह ॥
लग्नं निरीक्षमाणास्ते वाचस्पतिपुरोगमाः ॥५४॥

गर्गो मुनिश्चोपविष्टस्तत्रैव घटिकालये ॥
यावत्पूर्णा घटी जाता तावत्प्रणवभाषणम् ॥५५॥

ॐपुण्येति प्रणिगदन्गर्गो वध्वंजलिं दधे ॥
पार्वत्यक्षतपूर्णं च शिवोपरि ववर्ष वै ॥५६॥

तया संपूजितो रुद्रो दध्यक्षतकुशादिभिः ॥
मुदा परमया युक्ता पार्वती रुचिरानना ॥५७॥

विलोकयंती शंभुं तं यदर्थे परमं तपः ॥
कृतं पुरा महादेव्या परेषां परमं महत् ॥५८॥

तपसा तेन संप्राप्तो जगज्जीवनजीवनः ॥
नारदेन ततः प्रोक्तो महादेवो वृषध्वजः ॥५९॥

तथा गंगादिभिश्चन्यैर्मुनिभिः सनकादिभिः ॥
प्रति पूजां कुरु क्षिप्रं पार्वत्याश्च त्रिलोचन ॥
तदा शिवेन सा तन्वी पूजितार्घ्याक्षतादिभिः ॥६०॥

एवं परस्परं तौ च पार्वतीपरमेश्वरौ ॥
अर्च्यमानौ तदानीं च शुशुभाते जगन्मयौ ॥६१॥

त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षंतौ परस्परम् ॥
तदा नीराजितौ लक्ष्म्या सावित्र्या च विशेषतः ॥
अरुंधत्या तदा तौ च दंपती परमेश्वरौ ॥६२॥

अनसूया तथा शंभुं पार्वतीं च यशस्विनीम् ॥
दृष्ट्वा नीराजयामास प्रीत्युत्कलितलोचना ॥६३॥

तथैव सर्वा द्विजयोषितश्च नीराजयामासुरहो पुनः पुनः ॥
सतीं च शंभुं च विलोकयंत्यस्तथैव सर्वा मुदिता हसंत्यः ॥६४॥

॥ लोमश उवाच ॥
एतस्मिन्नंतरे तत्र गर्गाचार्यप्रणोदितः ॥
हिमवान्मेनया सार्द्धं कन्यां दातुं प्रचक्रमे ॥६५॥

हैमं कलशमादाय मेना चार्द्धां गामाश्रिता ॥
हिमाद्रेश्च महाभागा सर्वाभरणभूषिता ॥६६॥

तदा हिमाद्रिणा प्रोक्तो विश्वनाथो वरप्रदः ॥
ब्रह्मणा सह संगत्य विष्णुना च तथैव च ॥६७॥

सार्द्धं पुरोधसा चैव गर्गेण सुमहात्मना ॥
कन्यादानं करोम्यद्य देवदेवस्य शूलिनः ॥६८॥

प्रयोगो भण्यतां ब्रह्मन्नस्मिन्समय आगते ॥
तथेति मत्वा ते सर्वे कालज्ञा द्विजसत्तमाः ॥६९॥

कथ्यतां तात गोत्रं स्वं कुलं चैव विशेषतः ॥
कथयस्व महाभाग इत्याकर्ण्य वचस्तथा ॥
सुमुखेन विमुखः सद्यो ह्यशोच्यः शोच्यतां गतः ॥७०॥

एवंविधः सुरवरैर्ऋषिभिस्तदानीं गंधर्वयक्षमुनिसिद्धगणैस्तथैव ॥
दृष्टो निरुत्तरमुखो भगवान्महेशो हास्यं चकार सुभृशं त्वथ नारदश्च ॥७१॥

वीणां प्रकटयामास ब्रह्मपुत्रोऽथ नारदः ॥
तदानीं वारितो धीमान्वीणां मा वादय प्रभो ॥७२॥

इत्युक्तः पर्वतेनैव नारदो वाक्यमब्रवीत् ॥
त्वया पृष्टो भवः साक्षात्स्वगोत्रकथनं प्रति ॥७३॥

अस्य गोत्रं कुलं चैव नाद एव परं गिरे ॥
नादे प्रतिष्ठितः शंभुर्नादो ह्यस्मिन्प्रतिष्ठितः ॥७४॥

तस्मान्नादमयः शंभुर्नादाच्च प्रतिलभ्यते ॥
तस्माद्वीणा मया चाद्य वादिता हि परंतप ॥७५॥

अस्य गोत्रं कुलं नाम न जानंति हि पर्वत ॥
ब्रह्मादयो हि विवुधा अन्येषां चैव का कथा ॥७६॥

त्वं हि मूढत्वमापन्नो न जानासि हि किंचन ॥
वाच्यावाच्यं महेशस्य विषया हि बहिर्मुखाः ॥७७॥

येये आगमिकाश्चाद्रे नष्टास्ते नात्र संशयः ॥
अरूपोयं विरूपाक्षो ह्यकुलीनोऽयमुच्यते ॥७८॥

अगोत्रोऽयं गिरिश्रेष्ठ जामाता ते न संशयः ॥
न कर्त्तव्यो विमर्शोऽत्र भवता विबुधेन हि ॥७९॥

न जानंति हरं सर्वे किं बहूक्त्या मम प्रभो ॥
यस्याज्ञानान्महाभाग मोहिता ऋषयो ह्यमी ॥८०॥

ब्रह्मापि तं न जानाति मस्तकं परमेष्ठिनः ॥
विष्णुर्गतो हि पातालं न दृष्टो हि तथैव च ॥८१॥

तेन लिंगेन महता ह्यगाधेन जगत्त्रयम् ॥
व्याप्तमस्तीति तद्विद्धि किमनेन प्रयोजनम् ॥८२॥

अनयाराधितं नूनं तव पुत्र्या हिमालय ॥
तत्त्वतो हि न जानासि कथं चैव महागिरे ॥८३॥

आभ्यामुत्पाद्यते विश्वमाभ्यां चैव प्रतिष्ठितम् ॥
एतच्छ्रुत्वा वचस्तस्य नारदस्य महात्मनः ॥८४॥

हिमाद्रिप्रमुखाः सर्वे तथा चेंद्रपुरोगमाः ॥
साधुसाध्विति ते सर्वे ऊचुर्विस्मितमानसाः ॥८५॥

ईश्वरस्य तु गांभीर्यं ज्ञात्वा सर्वे विचक्षणाः ॥
विस्मयेन समाश्लिष्टा ऊचुः सर्वे परस्परम् ॥८६॥

॥ ऋषय ऊचुः ॥
यस्याज्ञया जगदिदं च विशालमेव जातं परात्परमिदं निजबोधरूपम् ॥
सर्वं स्वतंत्रपरमेश्वरभागम्यं सोऽसौ त्रिलोकनिजरूपयुतो महात्मा ॥८७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखंडे शिवशास्त्रे शिवपार्वतीविवाहवर्णनंनाम पंचविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : July 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP