केदारखण्डः - अध्यायः ३१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ शोनक उवाच ॥
हत्वा तं तारकं संख्ये कुमारेण महात्मना ॥
किं कृतं सुमहद्विप्र तत्सर्वं वक्तुमर्हसि ॥१॥
कुमारो ह्यपरः शंभुर्येन सर्वमिदं ततम् ॥
तपसा तोषितः शंभुर्ददाति परमं पदम् ॥२॥
कुमारो दर्शनात्सद्यः सफलो हि नृणां सदा ॥
ये पापिनो ह्यधर्म्मिष्ठाः श्वपचा अपि लोमश ॥
दर्शनाद्धूतपापास्ते भवंत्येव न संशयः ॥३॥
शौनकस्य वचः श्रुत्वा उवाच चरितं तदा ॥
व्यास शिष्यो महाप्रज्ञः कुमारस्य महात्मनः ॥४॥
॥ लोमश उवाच ॥
ह्ताव तं तारकं संख्ये देवानामजयं ततः ॥
अवध्यं च द्विजश्रेष्ठाः कुमारो जयमाप्तवान् ॥५॥
महिमा हि कुमारस्य सर्वशास्त्रेषु कथ्यते ॥
वेदैश्च स्वागमैश्चापि पुराणैश्च तथैव च ॥६॥
तथोपनिषदैश्चैव मीमांसाद्वितयेन तु ॥
एवंभूतः कुमारोयमशक्यो वर्णितुं द्विजाः ॥७॥
यो हि दर्शनमात्रेण पुनाति सकलं जगत् ॥
त्रातारं भुवनस्यास्य निशम्य पितृराट्स्वयम् ॥८॥
ब्रह्माणं च पुरस्कृत्य विष्णुं चैव सवासवम् ॥
स ययौ त्वरितेनैव शंकरं लोकशंकरम् ॥
तृष्टाव प्रयतो भूत्वा दक्षिणाशापतिः स्वयम् ॥९॥
नमो भर्गाय देवाय देवानां पतये नमः ॥
मृत्युंजयाय रुद्राय ईशानाय कपर्द्दिने ॥१०॥
नीलकंठाय शर्वाय व्योमावयवरूपिणे ॥
कालाय कालनाथाय कालरूपाय वै नमः ॥११॥
यमेन स्तूयमानो हि उवाच प्रभुरीश्वरः ॥
किमर्थमागतोऽसि त्वं तत्सर्वं कथयस्व नः ॥१२॥
॥यम उवाच ॥
श्रूयतां देवदेवेश वाक्य वाक्यविशारद ॥
तपसा परमेणैव तुष्टिं प्राप्तोसि शंकर ॥१३॥
कर्मणा परमेणैव ब्रह्मा लोकपितामहः ॥
तुष्टिमेति न संदेहो वराणां हि सदा प्रभुः ॥१४॥
तथा विष्णुर्हि भगवान्वेदवेद्यः सनातनः ॥
यज्ञैरनेकैः संतुष्ट उपवासव्रतैस्तथा ॥१५॥
ददाति केवलं भावं येन कैवल्यमाप्नुयुः ॥
नराः सर्वे मम मतं नान्यता हि वचो मम ॥१६॥
ददाति तुष्टो वै भोगं तथा स्वर्गादिसंपदः ॥
सूर्यो नमस्ययाऽरोग्यं ददातीह न चान्यथा ॥१७॥
गणेशो हि महादेव अर्घ्यपाद्यादिचंदनैः ॥
मंत्रावृत्त्या तथा शंभो निर्विघ्नं च करिष्यति ॥१८॥
तथान्ये लोकपाः सर्वे यथाशक्त्या फलप्रदाः ॥
यज्ञाध्ययनदानाद्यैः परितुष्टाश्च शंकर ॥१९॥
महदाश्चर्य संभूतं सर्वेषां प्राणिनामिह ॥
कृतं च तव पुत्रेण स्वर्गद्वारमपावृताम् ॥२०॥
दर्शनाच्च कुमारस्य सर्वे स्वर्गैकसो नराः ॥
पापिनोऽपि महादेव जाता नास्त्यत्र संशयः ॥२१॥
मया किं क्रियतां देव कार्याकार्यव्यवस्थितौ ॥
ये सत्यशीलाः शांताश्च वदान्या निरवग्रहाः ॥२२॥
जितेंद्रिया अलुब्धाश्च कामरागविवर्जिताः ॥
याज्ञिका धर्मनिष्ठाश्च वेदवेदांगपारगाः ॥२३॥
यां गतिं यांति वै शंभो सर्वे सुकृतिनोपि हि ॥
तां गतिं दर्शनात्सर्वे श्वपचा अधमा अपि ॥२४॥
कुमारस्य च देवेश महदाश्चर्यकर्मणः ॥
कार्त्तिक्यां कृत्तिकायोगसहितायां शिवस्य च ॥२५॥
शिवस्य तनयं दृष्ट्वा ते यांति स्वकुलैः सह ॥
कोटिभिर्बहुभिश्चैव मत्स्थानं परिमुच्य वै ॥२६॥
कुमारदर्शनात्सर्वे श्वपचा अपि यांति वै ॥
सद्गतिं त्वरितेनैव किं क्रियेत मयाधुना ॥२७॥
यमस्य वचनं श्रुत्वा शंकरो वाक्यमब्रवीत् ॥२८॥
॥शंकर उवाच ॥
येषां त्वंतगतं पापं जनानां पुण्यकर्मणाम् ॥
विशुद्धभावो भो धर्म्म तेषां मनसि वर्त्तते ॥२९॥
सत्तीर्थगमनायैव दर्शनार्थं सतामिह ॥
वांछा च महती तेषां जायते पूर्वकारिता ॥३०॥
बहूनां जन्मनामंते मयि भावोऽनुवर्त्तते ॥
प्राणिनां सर्वभावेन जन्माभ्यासेनभो यम ॥३१॥
तस्मात्सुकृतिनः सर्वे येषां भावोऽनुवर्त्ते ॥
जन्मजन्मानुवृत्तानां विस्मयं नैव कारयेत् ॥३२॥
स्त्रीबालशूद्राः श्वपचाधमाश्च प्राग्जन्मसंस्कारवशाद्धि धर्म्म ॥
योनिं पापिषु वर्त्तमानास्तथापि शुद्धा मनुजा भवंति ॥३३॥
तथा सितेन मनसा च भवंति सर्वे सर्वेषु चैव विषयेषु भवंति तज्ज्ञाः ॥
दैवेन पूर्वचरितेन भवंति सर्वे सुराश्चेंद्रादयो लोकपालाः प्राक्तनेन ॥३४॥
जाता ह्यमी भूतगणाश्च सर्वे ह्यमी ऋषयो ह्यमी देवताश्च ॥३५॥
विस्मयो नैव कर्त्तव्यस्त्वया वापि कुमारके ॥
कुमारदर्शने चैव धर्मराज निबोध मे ॥३६॥
वचनं कर्मसंयुक्तं सर्वेषां फलदायकम् ॥
सर्वतीर्थानि यज्ञाश्च दानानि विविधानि च ॥
कार्याणि मनःशुद्ध्यर्थं नात्र कार्या विचारणा ॥३७॥
मनसा भावितो ह्यात्मा आत्मनात्मानमेव च ॥
आत्मा अहं च सर्वेषआं प्राणिनां हि व्यवस्थितः ॥३८॥
अहं सदा भावयुक्त आत्मसंस्थो निरंतरः ॥
जंगमाजंगमानां च सत्यं प्रति वदामि ते ॥३९॥
द्वंद्वातीतो निर्विकल्पो हि साक्षात्स्वस्थो नित्यो नित्ययुक्तो निरीहः ॥
कूटस्थो वै कल्पभेदप्रवादैर्बहिष्कृतो बोधबोध्यो ह्यनन्तः ॥४०॥
विस्मृत्य चैनं स्वात्मानं केवलं बोधलक्षणम् ॥
संसारिणो हि दृश्यंते समस्ता जीवराशयः ॥४१॥
अहं ब्रह्मा च विष्णुश्च त्रयोऽमी गुणकारिणः ॥
सृष्टिपालनसंहारकारका नान्यथा भवेत् ॥४२॥
अहंकारवृतेनैव कर्मणा कारितावयम् ॥
यूयं च सर्वे विबुधा मनुष्याश्च खगादयः ॥४३॥
पश्वादयः पृथग्भूतास्तथान्ये बहवो ह्यमी ॥
पृथक्पृथक्समीचीना गुणवतश्च संसृतौ ॥४४॥
पतिता मृगतृष्णायां मायया च वशीकृताः ॥
वयं सर्वे च विबुधाः प्राज्ञाः पंडितमानिनः ॥४५॥
परस्परं दूषयंतो मिथ्यावादरताः खलाः ॥४६॥
त्रैगुणा भवसंपन्ना अतत्तवज्ञाश्च रागिणः ॥
कामक्रोधभयद्वेषमदमात्सर्यसंयुताः ॥४७॥
परस्परं दूषयंतो ह्यतत्त्वज्ञा बहिर्मुखाः ॥
तस्मादेवं विदित्वाथ असत्यं गुणभेदतः ॥४८॥
गुणातीते च वस्त्वर्थे परमार्थैकदर्शनम् ॥४९॥
यस्मिन्भेदो ह्यभेदं च यस्मिन्रागो विरागताम् ॥
क्रोधो ह्यक्रोधतां याति तद्वाम परमं श्रृणु ॥५०॥
न तद्भासयते शब्दः कृतकत्वाद्यथा घटः ॥
शब्दो हि जायते धर्म्मः प्रवृत्तिपरमो यतः ॥५१॥
प्रवृत्तिश्च निवृत्तिश्च तथा द्वंद्वानि सर्वशः ॥
विलयं यांति यत्रैव तत्स्थानं शाश्वतं मतम् ॥५२॥
निरंतरं निर्गुणं ज्ञप्तिमात्रं निरंजनं निर्विकाशं निरीहम् ॥
सत्तामात्रं ज्ञानगम्यं स्वसिद्धं स्वयंप्रभं सुप्रभं बोधगम्यम् ॥५३॥
एतज्ज्ञानं ज्ञानविदो वदंति सर्वात्मभावेन निरीक्षयंति ॥
सर्वातीतं ज्ञानगम्यं विदित्वा येन स्वस्थाः समबुद्ध्या चरंति ॥५४॥
अतीत्य संसारमनादिमूलं मायामयं मायया दुर्विचार्यम् ॥
मायां त्यक्त्वा निर्ममा वीतरागा गच्छंति ते प्रेतराणिनर्विकल्पम् ॥५५॥
संसृतिः कल्पनामूलं कल्पना ह्यमृतोपमा ॥
यैः कल्पना परित्यक्ता ते यांति परमां गतिम् ॥५६॥
शुक्त्यां रजतबुद्धिश्च रज्जुबुद्धिर्यर्थोरणे ॥
मरीचौ जलबुद्धिश्च मिथ्या मिथ्यैव नान्यथा ॥५७॥
सिद्धिः स्वच्छंदवर्त्तित्वं पारतंत्र्यं हि वै मृषा ॥
बद्धो हि परतंत्राख्यो मुक्तः स्वातंत्र्यभावनः ॥५८॥
एको ह्यात्मा विदित्वाथ निर्ममो निरवग्रहः ॥
कुतस्तेषां बंधनं च यथाखे पुष्पमेव च ॥५९॥
शशविषाणमेवैतज्त्रानं संसार एव च ॥
किं कार्यं बहुनोक्तेन वचसा निष्फलेन हि ॥६०॥
ममतां च निराकृत्य प्राप्तुकामाः परं पदम् ॥
ज्ञानिनस्ते हि विद्वांसो वीतरागा जितेंद्रियाः ॥६१॥
यैस्त्यक्तो ममताभावो लोभकोपौ निराकृतौ ॥
ते यांति परमं स्थानं कामक्रोधविवर्जिताः ॥६२॥
यावत्कामश्च लोभश्च रागद्वेषौ व्यवस्थितौ ॥
नाप्नुवंति च तां सिद्धिं शब्दमात्रैकबोधकाः ॥६३॥
॥यम उवाच ॥
शब्दाच्छब्दः प्रवर्त्तेत निःशब्दं ज्ञानमेव च ॥
अनित्यत्वं हि शब्दस्य कथं प्रोक्तं त्वया प्रभो ॥६४॥
अक्षरं ब्रह्मपरमं शब्दो वै ह्यरात्मकः ॥
तस्माच्छब्दस्त्वया प्रोक्तो निरीक्षक इति श्रुतम् ॥६५॥
प्रतिपाद्यं हि यत्किंचिच्छब्देनैव विना कथम् ॥
तत्सर्वं कथ्यतां शंभो कार्याकार्यव्यवस्थितौ ॥६६॥
॥शंकर उवाच ॥
श्रृणुष्वावहितो भूत्वा परमार्धयुतं वचः ॥
यस्य श्रवणमात्रेण ज्ञातव्यं नावशिष्यते ॥६७॥
ज्ञानप्रवादिनः सर्व ऋषयो वीतकल्मषाः ॥
ज्ञानाभ्यासेन वर्त्तंते ज्ञानं ज्ञानविदो विदुः ॥६८॥
ज्ञानं ज्ञेयं ज्ञानगम्यं ज्ञात्वा च परिगीयते ॥
कथं केन च ज्ञातव्यं किं तद्वक्तुं विवक्षितम् ॥६९॥
एतत्सर्वं समासेन कथयामि निबोध मे ॥
एको ह्यनेकधा चैव दृश्यते भेदभावनः ॥७०॥
यथा भ्रमरिकादृष्टा भ्रम्यते च मही यम ॥
तथात्मा भेदबुद्ध्या च प्रतिभाति ह्यनेकधा ॥७१॥
तस्माद्विमृश्य तेनैव ज्ञातव्यः श्रवणेन च ॥
मंतव्यः सुप्रयोगेण मननेन विशेषतः ॥७२॥
निर्द्धार्य चात्मनात्मानं सुखं बंधात्प्रमुच्यते ॥
मायाजालमिदं सर्वं जगदेतच्चाराचरम् ॥७३॥
मायामयोऽयं संसारो ममतालक्षणो महान् ॥
ममतां च बहिः कृत्वा सुखं बंधात्प्रमुच्यते ॥७४॥
कोऽहं कस्त्वं कुतश्चान्ये महामायावलंबिनः ॥
अजागलस्तनस्येव प्रपंचोऽयं निरर्थकः ॥७५॥
निष्फलोऽयं निराभासो निःसारो धूमडंबरः ॥
तस्मात्सर्वप्रयत्नेन आत्मानं स्मर वै यम ॥७६॥
॥ लोमश उवाच ॥
एवं प्रचोदितस्तेन शंभुना प्रेतराट्स्वयम् ॥
बुद्धो भूत्वा यमः साक्षादात्मभूतोऽभवत्तदा ॥७७॥
कर्म्मणां हि च सर्वेषां शास्ता कर्मानुसारतः ॥
बभूव डंबरो नॄणां भूतानां च समाहितः ॥७८॥
॥ ऋषय ऊचुः ॥
हत्वा तु तारकं युद्धे कुमारेण महात्मना ॥
अत ऊर्ध्वं कथ्यतां भोः किं कृतं महदद्भुतम् ॥७९॥
॥ सूत उवाच ॥
हते तु तारके दैत्ये हिमवन्प्रमुखाद्रयः ॥
कार्त्तिकेयं समागत्य गीर्भी रम्याभिरैडयन् ॥८०॥
॥गिरय ऊचुः ॥
नमः कल्याणरूपाय नमस्ते विश्वमंगल ॥
विश्वबंधो नमस्तेऽस्तु नमस्ते विश्वभावन ॥८१॥
वरीष्ठाः श्वपचा येन कृता वै दर्शनात्त्वया ॥
त्वां नमामो जगद्बंधुं त्वां वयं शरणागताः ॥८२॥
नमस्ते पार्वतीपुत्र शंकरात्मज ते नमः ॥
नमस्ते कृत्तिकासूनो अग्निभूत नमोस्तु ते ॥८३॥
नमोस्तु ते देववरैः सुपूज्य नमोऽस्तु ते ज्ञानविदां वरिष्ठ ॥
नमोऽस्तु ते देववर प्रसीद शरण्य सर्वार्तिविनाशदक्ष ॥८४॥
एवं स्तुतो गिरिभिः कार्त्तिकेयो ह्युमासुतः ॥
तान्गिरीन्सुप्रसन्नात्मा वरं दातुं समुत्सुकः ॥८५॥
॥कार्त्तिकेय उवाच ॥
भोभो गिरिवरा यूयं श्रृणुध्वं मद्वचोऽधुना ॥
कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ ॥८६॥
भवत्स्वेव हि वर्त्तते दृषदो यत्नसेविताः ॥
पुनंतु विश्चं वचनान्मम ता नात्र संशयः ॥८७॥
पर्वतीयानि तीर्थानि भविष्यंति न चान्यथा ॥
शिवालयानि दिव्यानि दिव्यान्यायतनानि च ॥८८॥
अयनानि विचित्राणि शोभनानि महांति च ॥
भविष्यंति न संदेहः पर्वता वचनान्मम ॥८९॥
योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः ॥
तपस्विनां महाभागः फलदो हि भविष्यति ॥९०॥
मेरुश्च गिरिराजोऽयमाश्रयो हि भविष्यति ॥
लोकालोको गिरिवर उदयाद्रिर्महायशः ॥९१॥
लिंगरूपो हि भगवान्भविष्यति न चान्यथा ॥
श्रीशैलो हि महेंद्रश्च तथा सह्याचलोगिरिः ॥९२॥
माल्यवान्मलयो विन्ध्यस्तथासौ गंधमादनः ॥
श्वेतकूटस्त्रिकूटो हि तथा दर्दुरपर्वतः ॥९३॥
एते चान्ये च बहवः पर्वता लिंगरूपिणः ॥
मम वाक्याद्भविष्यंति पापक्षयकरा ह्यमी ॥९४॥
एवं वरं ददौ तेभ्यः पर्वतेभ्यश्च शांकरिः ॥
ततो नंदीह्युवाचाथ सर्वागमपुरस्कृतम् ॥९५॥
॥नंद्युवाच ॥
त्वया कृता हि गिरयो लिंगरूपिण एव ते ॥
शिवालयाः कथं नाथ पूज्याः स्युःसर्वदैवतैः ॥९६॥
॥कुमार उवाच ॥
लिंगं शिवालयं ज्ञेयं देवदेवस्य शूलिनः ॥
सर्वैर्नृभिर्दैवतैश्च ब्रह्मादिभिरतांद्रितैः ॥९७॥
नीलं मुक्ता प्रवालं च वैडूर्यं चंद्रमेव च ॥
गोमेदं पद्मरागं च मारतं कांचनं तथा ॥९८॥
राजतं ताम्रमारं च तथा नागमयं परम् ॥
रत्नधातुमयान्येव लिंगानि कथितानि ते ॥९९॥
पवित्राण्येव पूज्यानि सर्वकामप्रदानि च ॥
एतेषामपि सर्वेषां काश्मीरं हि विशिष्यते ॥१००॥
ऐहिकामुष्मिकं सर्वं पूजाकर्तुः प्रयच्छति ॥१०१॥
॥नंद्युवाच ॥
लिंगानामपि पूज्यं स्याद्बाणलिंगं त्वया कथम् ॥
कथितं चोत्तमत्वेन तत्सर्वं वदसुव्रत ॥१०२॥
॥कुमार उवाच ॥
रेवायां तोयमध्ये च दृश्यंते दृषदो हि याः ॥
शिवप्रसादात्तास्तु स्युर्लिंगरूपा न चान्यथा ॥१०३॥
श्लक्ष्णमूलाश्च कर्तव्याः पिंडिकोपरि संस्थिताः ॥
पूजनीयाः प्रयत्नेन शिवदीक्षायुतेन हि ॥१०४॥
पिंडीयुक्तं च शास्त्रेण विधिना च यजेच्छिवम् ॥
वरदो हि जगन्नाथः पूजकस्य न चान्यथा ॥१०५॥
पंचाक्षरी यस्य मुखे स्थिता सदा चेतोनिवृत्तिः शिवचिंतने च ॥
भूतेषुः साम्यं परिवादमूकता षंढत्वमेव परयोषितासु ॥१०६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे कार्त्तिकेयप्रोक्तशिवलिंगमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥३१॥
N/A
References : N/A
Last Updated : July 19, 2024
TOP