कथितं भवता प्रेम्णा ग्रहावतरणं मुने ।
तेषं गुणस्वरूपाद्यं कृपया कथ्यतां पुनः ॥१॥
शृणु विप्र प्रवक्ष्यामि भग्रहाणां परिस्थितिम् ।
आकाशे यानि दृश्यन्ते ज्योतिर्बिम्बात्यनेकशः ॥२॥
तेषु नक्षत्रसंज्ञानि ग्रहसंज्ञानि कानिचित् ।
तानि नक्षत्रनामानि स्थिरस्थानानि यानि चै ॥३॥
गच्छन्तो भानि गृह्णन्ति सततं ये तु ते ग्रहः ।
भचक्रस्य नगश्व्यंशा अश्विन्यादिसमाह्वयाः ॥४॥
तद्द्वादशविभागास्तु तुल्य मेषादिसंज्ञकाः ।
प्रसिद्धा राशयः सन्ति ग्रहास्त्वर्कादिसंज्ञकाः ॥५॥
राशीनामुदयो लग्नं तद्वशादेव जन्मिनाम् ।
ग्रहयोग्वियोगाभ्यां फलं चिन्त्यं शुभाशुभम् ॥६॥
संज्ञा नक्षत्रवृन्दानां ज्ञेयाः सामान्यशास्त्रतः ।
एतच्छास्त्रानुसारेण राशिकेएटफलं ब्रुवे ॥७॥
यस्मिन् काले यतः खेटा यान्ति दृग्गणितैकताम् ।
तत एव स्फुटाः कार्याः दिक्कालौ च स्फुटौ विद ॥८॥
स्वस्वदेशोद्भवैः साध्यं लग्नं राश्युदयैः स्फुटम् ।
अथादौ वच्मि खेटानां जातिरूपगुणानहम् ॥९॥
अथ खेटा रविश्चन्द्रो मङ्गलश्च बुधस्तथा ।
गुरुः शुक्रः शनी राहुः केतुश्चैते यथाक्रमम् ॥१०॥
तत्रार्कशनिभूपुत्राः क्षीणेन्दुराहुकेतवः ।
क्रूराः शेषग्रहा सौम्याः क्रूरः क्रूरयुतो बुधः ॥११॥
सर्वात्मा च दिवानाथो मनः कुमुदबान्धवः ।
सत्त्वं कुजो बुधैः प्रोक्तो बुधो वाणीप्रदायकः ॥१२॥
देवेज्यो ज्ञानसुखदो भृगुर्वीर्यप्रदयकः ।
ऋषिभिः प्राक्तनैः प्रोक्तश्छायासूनुश्च दुःखदः ॥१३॥
रविचन्द्रौ तु राजानौ नेता ज्ञेयो धरात्मजः ।
बुधो राजकुमारश्च सचिवौ गुरुभार्गवौ ॥१४॥
प्रेष्यको रविपुत्रश्च सेना स्वर्भानुपुच्छकौ ।
एवं क्रमेण वै विप्र सूर्यादीन् प्रविचिन्तयेत् ॥१५॥
रक्तश्यामो दिवाधीशो गौरगात्रो निशाकरः ।
नात्युच्चाङ्गः कुजो रक्तो दूर्वाश्यामो बुधस्तथा ॥१६॥
गौरगात्रो गुरुर्ज्ञेयः शुक्रः श्यावस्तथैव च ।
कृष्णदेहो रवेः पुत्रो ज्ञायते द्विजसत्तम ॥१७॥
वह्न्यम्बुशिखिजा विष्णुविढौजः शचिका द्विज ।
सूर्यादीनां खगानां च देवा ज्ञेयाः क्रमेण च ॥१८॥
क्लीवौ द्वौ सौम्यसौरी च युवतीन्दुभृगू द्विज ।
नराः शेषाश्च विज्ञेया भानुर्भौमो गुरुस्तथा ॥१९॥
अग्निभूमिनभस्तोयवायवः क्रमतो द्विज ।
भौमादीनां ग्रहाणां च तत्त्वानीति यथाक्रमम् ॥२०॥
गुरुशुक्रौ विप्रवर्णौ कुजार्कौ क्षत्रियौ द्विज ।
शशिसोम्यौ वैश्यवर्णौ शनिः शूद्रो द्विजोत्तम् ॥२१॥
जीवसूर्येन्द्रवः सत्त्वं बुधशुक्रौ रजस्तथा ।
सूर्यपुत्रभरापुत्रौ तमःप्रकृतिकौ द्विज ॥२२॥
मधुपिङ्गलदृक्सूर्यश्चतुरस्रः शुचिर्द्विज ।
पित्तप्रकृतिको धीमान् पुमानल्पकचो द्विज ॥२३॥
बहुवातकफः प्राज्ञश्चन्द्रो बृत्ततनुर्द्विज ।
शुभदृङ्मधुवाक्यश्च चञ्चलो मदनातुरः ॥२४॥
क्रूरो रक्तेक्षणो भौमश्चपलोदारमूर्तिकः ।
पित्तप्रकृतिकः क्रोधी कृशमध्यतनुर्द्विज ॥२५॥
वपुःश्रेष्ठः श्लिष्टवाक्च ह्यतिहास्यरुचिर्बुधः ।
पित्तवान् कफवान् विप्र मारुतप्रकृतिस्तथा ॥२६॥
बृहद्गात्रो गुरुश्चैव पिङ्गलो मूर्द्धजेक्षणे ।
कफप्रकृतिको धीमान् सर्वशास्त्रविशारदः ॥२७॥
सुखि कान्तवपु श्रेष्ठः सुलोचनो भृगोः सुतः ।
काव्यकर्ता कफाधिक्योऽनिलात्मा वक्रमूर्धजः ॥२८॥
कृश्दीर्घतनुः शौरिः पिङ्गदृष्ट्यनिलात्मकः ।
स्थूलदन्तोऽलसः पंगुः खररोमकचो द्विज ॥२९॥
धूम्राकारो नीलतनुर्वनस्थोऽपि भयंकरः ।
वातप्रकृतिको धीमान् स्वर्भानुस्तत्समः शिखी ॥३०॥
अस्थि रक्तस्तथा मज्जा त्वग् वसा वीर्यमेव च ।
स्नायुरेषामधीशाश्च क्रमात् सूर्यादयो द्विज ॥३१॥
देवालयजलं वह्निक्रीडादीनां तथैव च ।
कोशशय्योत्कराणान्तु नाथां सूर्यादयः क्रमात् ॥३२॥
अयनक्षणवारर्तुमासपक्षसमा द्विज ।
सूर्यादीनां क्रमाज्ज्ञेया निर्विशंकं द्विजोत्तम ॥३३॥
कटुक्षारतिक्तमिश्रमधुराम्लकषायकाः ।
क्रमेण सर्वे विज्ञेयाः सूर्यादीनां रसा इति ॥३४॥
बुधेज्यौ बलिनौ पूर्वे रविभौमौ च दक्षिणे ।
पश्चिमे सूर्यपुत्रश्च सितचन्द्रौ तथोत्तरे ॥३५॥
निशायां बलिनश्चन्द्रकुजसौरा भवन्ति हि ।
सर्वदा ज्ञो बली ज्ञेयो दिने शेषा द्विजोत्तम ॥३६॥
कृष्णे च बलिनः क्रूराः सौम्या वीर्ययुताः सिते ।
सौम्यायने सौम्यखेटो बली याम्यायनेऽपरः ॥३७॥
वर्षमासाहहोराणां पतयो बलिनस्तथा ।
शमंबुगुशुचंराद्या वृद्धितो वीर्यवत्तरः ॥३८॥
सूर्ये जनयति स्थूलान् दुर्भगान् सूर्यपुत्रकः ।
क्षीरोपेतांस्तथा चन्द्रः कटुकाद्यान् धरासुतः ॥३९॥
पुष्पवृक्षं भृगोः पुत्रे गुरुज्ञौ सफलाफलौ ।
नीरसान् सूर्यपुत्रश्च एवं ज्ञेयाः खगा द्विज ॥४०॥
राहुश्चाण्डालजातिश्च केतुर्जात्यन्तरस्तथा ।
शिखिस्वर्भानुमन्दानां वल्मीकः स्थानमुच्यते ॥४१॥
चित्रकन्था फनीन्द्रस्य केतुश्छिद्रयुतो द्विज ! ।
सीसं रहोर्नीलमणिः केतोर्ज्ञेयो द्विजोत्तम ॥४२॥
गुरोः पीताम्बरं विप्र भृगोः क्षौमं तथैव च ।
रक्तक्षौमं भास्करस्य इन्दोः क्षौमं सितं द्विज ॥४३॥
बुधस्य कृष्णक्षौमं तु रक्तवस्त्रं कुजस्य च ।
वस्त्रं चित्रं शनेर्विप्र पट्तवस्त्रं तथैव च ॥४४॥
भृगोरृतुर्वसन्तश्च कुजभान्वोश्च ग्रीष्मकः ।
चन्द्रस्य वर्षा विज्ञेया शरच्चैव तथा विदः ॥४५॥
हेमन्तोऽपि गुरोर्ज्ञेयः शनेस्तु शिशिरो द्विज ।
अष्टौ मासाश्च स्वर्भानोः केतोर्मासत्रयं द्विज ॥४६॥
राह्वारपंगुचन्द्रश्च विज्ञेया धातुखेचराः ।
मूलग्रहौ सूर्यशुक्रौ अपरा जीवसंज्ञकाः ॥४७॥
ग्रहेषु मन्दो वृद्धोऽस्ति आयुर्वृद्धिप्रदायकः ।
नैसर्गिके बहुसमान् ददाति द्विजसत्तम ॥४८॥
मेषो वृषो मृगः कन्या कर्को मीनस्तथा तुला ।
सूर्यादीनां क्रमादेते कथिता उच्चराश्यः ॥४९॥
भागा दश त्रयोऽष्टाश्व्यस्तिथ्योऽक्षा भमिता नखाः ।
उच्चात् सप्तमभं नीचं तैरेवांशैः प्रकीर्तितम् ॥५०॥
रवेः सिम्हे नखांशाश्च त्रिकोणमपरे स्वभम् ।
उच्चमिन्दोर्वृषे त्र्यंशास्त्रिकोणमपरेंऽशकाः ॥५१॥
मेषेऽर्कांशास्तु भौमस्य त्रिकोणमपरे स्वभम् ।
उच्चं बुधस्य कन्यायामुक्तं पञ्चदशांशकाः ॥५२॥
ततः पञ्चांशकाः प्रोक्तं त्रिकोणमपरे स्वभम् ।
चापे दशांशा जीवस्य त्रिकोणमपरे स्वभम् ॥५३॥
तुले शुक्रस्य तिथ्यंशास्त्रिकोणमपरे स्वभम् ।
शनेः कुम्भे नखांशाश्च त्रिकोणमपरे स्वभम् ॥५४॥
त्रिकोणात् स्वात्सुखस्वाऽन्त्यधीधर्मायुःस्वतुङ्गपाः ।
सुहृदो रिपवश्वान्वे समाश्चोभयलक्षणाः ॥५५॥
दशवन्ध्वायसहजस्वान्त्यस्थास्तु परस्परम् ।
तत्काले मित्रतां यान्ति रिपवोऽन्यत्र संस्थिताः ॥५६॥
तत्काले च निसर्गे च मित्रं चेदधिमित्रकम् ।
मित्रं मित्रसमत्वे तु शत्रुः शत्रुसमत्वके ॥५७॥
समो मित्ररिपुत्वे तु शत्रुत्वे त्वधिशत्रुता ।
एवं विविच्य दैवज्ञो जातकस्य फलं वदेत् ॥५८॥
स्वोच्चे शुभं फलं पूर्ण त्रिकोणे पादवर्जितम् ।
स्वर्क्षेऽर्धं मित्रगेहे तु पादमात्रं प्रकीर्तितम् ॥५९॥
पादार्धं समभे प्रोक्तं शून्यं नीचास्तशत्रुभे ।
तद्वद्दुष्टफलं ब्रूयद् व्यत्ययेन विचक्षणः ॥६०॥
त्र्यंशाढ्यविश्वभागैश्च चतुर्भैः सहितो रविः ।
धूमो नाम महादोषः सर्वकर्मविनाशकः ॥६१॥
धूमो मण्डलतः शुद्धो व्यतीपातोऽत्र दोषदः ।
सषद्भोऽत्र व्यतीपातः परिवेषोऽतिदोषकृत् ॥६२॥
परिवेषश्च्युतश्चक्रादिन्द्रचापस्तु दोषदः ।
वित्र्यंशास्यष्टिभागाध्यश्चापः केतुखगोऽशुभः ॥६३॥
एकराशियुतः केतुः सूर्यतुल्यः प्रजायते ।
अप्रकाशग्रहाश्चैते पापा दोषप्रदाः स्मृताः ॥६४॥
सूर्येन्दुलग्नगेष्वेषु वंशायुर्ज्ञाननाशनम् ।
इति धूमादिदोषाणां स्थितिः पद्मासनोदिता ॥६५॥
रविवारादिशन्यन्तं गुलिकादि निरूप्यते ।
दिवसानष्टधा भक्त्वा वारेशाद् गणेयत् क्रमात् ॥६६॥
अष्ट्मोंऽशो निरीशः स्याच्छन्यंशो गुलिकःस्मृतः ।
रात्रिमप्यष्टधा कृत्वा वारेशात् पञ्चमादितः ॥६७॥
गणयेदष्टमः खण्डो निष्यतिः परिकीर्तितः ।
श्न्यंशो गुलिकः प्रोक्तो रव्यंशः कालसंज्ञकः ॥६८॥
भौमांशो मृत्युरादिष्टो गुर्वंशो यमघण्ट्कः ।
सोम्यांशोऽर्धप्रहरकः स्वस्वदेशोद्भवः स्फुटः ॥६९॥
गुलिकेष्टवशाल्लग्नं स्फुटं यत् स्वस्वदेशजम् ।
गुलिकं प्रोच्यते तस्माज्जातकस्य फलं वदेत् ॥७०॥
भांशपादसमैः प्राणैश्चराद्यर्कत्रिकोणभात् ।
उदयादिष्टकालान्तं यद्भं प्राणपदं हि तत् ॥७१॥
स्वेष्टकालं पलीकृत्य तिथ्याप्तं भादिकं च यत् ।
चरागद्विभसंस्थेऽर्के भनौ युङ् नवमे सुते ॥७२॥
स्फुटं प्राणपदाख्यं तल्लग्नं ज्ञेयं द्विजोत्तम ।
लग्नाद् द्विकोणे तुर्ये च राज्ये प्राणपदं तदा ॥७३॥
शुभं जन्म विजानीयात्तथैवैकादशेऽपि च ।
अन्यस्थाने स्थितं चेत् स्यात् तदा जन्माशुभं वदेत् ॥७४॥