सपापो देहपोऽष्टारिव्ययगो देहसौख्यहृत् ।
केन्द्रे कोणे स्थितोऽङ्गेशः सदा देहसुखं दिशेत् ॥१॥
लग्नपोऽस्तङ्गतो नीचे शत्रुभे रोगकृद् भवेत् ।
शुभः केन्द्रत्रिकोणस्था सर्वरोगहराः स्मृताः ॥२॥
लग्ने चन्द्रेऽथव क्रूरग्रहैर्दृष्टेऽथवा युते ।
शुभदृष्टिविहीने च जन्तोर्देहसुखं न हि ॥३॥
लग्ने सौम्ये सुरूपः स्यात् क्रूरेरूपविवर्जितः ।
सौम्यखेटैर्युते दृष्टे लग्ने देहसुखान्वितः ॥४॥
लग्नेशो ज्ञा गुरुर्वाऽपि शुक्रो वा केन्द्रकोणगः ।
दीर्घायुर्धनवान् जातो बुद्धिमान् राजवल्लभः ॥५॥
लग्नेशे चरराशिस्थे शुभग्रहनिरीक्षिते ।
कीर्तिश्रीमान् महाभोगी देहसौख्यसमन्वितः ॥६॥
बुधो जीवोऽथवा शुक्रो लग्ने चन्द्रसमन्वितः ।
लग्नात् केन्द्रगतो वाऽपि राजलक्षणसंयुतः ॥७॥
ससौरे सकुजे वापि लग्ने मेषे वृषे हरौ ।
राश्यंशसदृशौ गात्रे स जातो नालविष्टितः ॥८॥
चतुष्पदगतो भानुः परे वीर्यसमन्विताः ।
द्विस्वभावगता जातौ यमलाविति निर्दिशेत् ॥९॥
रवौन्दू एकभावस्थावेकंशकसमन्वितौ ।
त्रिमात्रा च थिभिर्मासैः पित्रा भ्रात्रा च पोषितः ॥१०॥
एवमेव फलं वाच्यं चन्द्रादपि सदा बुधैः ।
अथ जातनरस्याङ्गे व्रणचिह्नादिकं ब्रुवे ॥११॥
शिरो नेत्रे तथ कर्णौ नासिके च कपोलकौ ।
हनूर्मुखं च लग्नाद्या तनावाद्यदृकाणके ॥१२॥
मध्यद्रेष्काणगे लग्ने कण्ठोंऽसौ च भुजौ तथा ।
पार्श्वे च हृदये क्रोडे नाभिश्चेति यथाक्रमम् ॥१३॥
वस्तिर्लिङ्गगुदे मुष्कावूरू जानू च जंघके ।
पादश्चेत्युदितैर्वाममङ्गं ज्ञेयं तृतीयके ॥१४॥
यस्मिन्नङ्गे स्थितः पापो व्रणं तत्र समादिशेत् ।
नियतं सबुधैः क्रूरैः सौम्यैर्लक्ष्म वदेद् बुधः ॥१५॥