संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ४१

बृहत्पाराशरहोराशास्त्रम् - अध्याय ४१

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथाऽतः संप्रवक्ष्यामि धनयोगं विशेषतः ।
यस्मिन् योगे समुत्पन्नो निश्चितो धनवान् भवेत् ॥१॥
पण्चमे भृगुजक्षेत्रे तस्मिन् शुक्रेण संयुते ।
लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः ॥२॥
पंचमे तु बुधक्षेत्रे तस्मिन् बुधयुतो सति ।
चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः ॥३॥
पण्चमे च रविक्षेत्रे तस्मिन् रवियुते सति ।
लाभे शनीन्दुजीवाढ्ये बहुद्रव्यस्य नायकः ॥४॥
पंचमे तु शनिक्षेत्रे तस्मिन् शनियुते सति ।
लाभे रवीन्दुसंयुक्ते बहुद्रव्यस्य नायकः ॥५॥
पंचमे तु गुरुक्षेत्रे तस्मिन् गुरुयुते सति ।
लाभे चन्द्रसुते जातो बहुद्रव्यस्य नायकः ॥६॥
पंचमे तु कुजक्षेत्रे तस्मिन् कुजयुते सति ।
लाभस्थे भृगुपुत्रे तु बहुद्रव्यस्य नायकः ॥७॥
पंचमे तु शशिक्षेत्रे तस्मिन् शशियुते सति ।
शनौ लाभस्थिते जातो बहुद्रव्यस्य नायकः ॥८॥
भानुक्षेत्रगते लग्ने तस्मिन् भानुयुते पुनः ।
भौमेन गुरुणा युक्ते दृष्टे जातो युतो धनैः ॥९॥
चन्द्रक्षेत्रगते लग्ने तस्मिन् चन्द्रयुते सति ।
बुधेन गुरुणा युक्ते दृष्टे जातो धनी भवेत् ॥१०॥
भौमक्षेत्रे गते लग्ने तस्मिन् भौमेन संयुते ।
सौम्यशुक्रार्कजैर्युक्ते दृष्टे श्रीमान्नरो भवेत् ॥११॥
बुधक्षेत्रगते लग्ने तस्मिन् बुधयुते सति ।
शनिजीवयुते दृष्टे जातो धनयुतो भवेत् ॥१२॥
गुरुक्षेत्रगते लग्ने तस्मिन् गुरुयुते सति ।
बुधभौमयुते दृष्टे जायते धनवान्नरः ॥१३॥
भृगुक्षेत्रगते लग्ने तस्मिन् भृगुयुते सति ।
शनिसौम्ययुते दृष्टे यो जातः स धनी भवेत् ॥१४॥
शनिक्षेत्रगते लग्ने तस्मिन् शनियुते सति ।
भौमेन गुरुणा युक्ते दृष्टे जातो धनैर्युतः ॥१५॥
धनदौ धर्मधीनाथौ ये वा ताभ्यां युता ग्रहाः ।
तेऽपि स्वस्वदशाकाले धनदा नाऽत्र संशयः ॥१६॥
ग्रहाणामुक्तयोगेषु क्रूरसौम्यविभागतः ।
बलाबलविवेकेन फलमूह्यं विचक्षणैः ॥१७॥
केन्द्रेशः पारिजातस्थस्तदा दाता भवेन्नरः ।
उत्तमे ह्युत्तमो दाता गोपुरे पुरुषत्वयुक् ॥१८॥
सिंहासने भवेन्मान्यः शूरः पारावतांशके ।
सभाध्यक्षो देवलोके ब्रह्मलोके मुनिर्मत ।
ऐरावतांशके तृष्टो दिग्योगो नैव जायते ॥१९॥
पारिजाते सुताधीशे विद्या चैव कुलोचिता ।
उत्तमे चोत्तमा ज्ञेया गोपुरे भुवनांकिता ॥२०॥
सिंहासने तथा वाच्या साचिव्येन समन्विता ।
पारावते च विज्ञेया ब्रह्मविद्या द्विजोत्तम ॥२१॥
सुतेशे देवलोकस्थे कर्मयोगश्च जायते ।
उपासना ब्रह्मलोके भक्तिस्त्वरावतांशके ॥२२॥
धर्मेशे पारिजातस्थे तीर्थकृत्त्वत्र जन्मनि ।
पूर्वजन्मन्यपि ज्ञेयस्तीर्थकृच्चोत्तमांशके ॥२३॥
गौपुरे मखकर्ता च परे चैवाऽत्र जन्मनि ।
सिंहासने भवेद्वीरः सत्यवादी जितेन्द्रियः ॥२४॥
सर्वधर्मान् परित्यज्य ब्रह्मैकपदमाश्रितः ।
पारवते च परमो हंअश्चैवात्र जन्मनि ॥२५॥
लगुडी वा त्रिदण्डी स्याद्देवलोके न संशयः ।
ब्रह्मलोके शक्रतदं याति कृत्वाऽश्वमेधकम् ॥२६॥
ऐरावते तु धर्मात्मा स्वयं धर्मो भविष्यति ।
श्रीरामः कुन्तिपुत्राद्यो यथा जातो द्विजोत्तम ॥२७॥
विष्णुस्थानं च केन्द्रं स्याल्लक्ष्मीस्थानं त्रिकोणकम् ।
तदीशयोश्च सम्बन्धाद्राजयोगः पुरोदितः ॥२८॥
पारिजाते स्थितौ तौ चेन्नृपो लोकानुरक्षकः ।
उत्तमे चोत्तमो भूपो गजवाजिरथादिमान् ॥२९॥
गोपुरे नृपशार्दूलः पूजितांध्रिर्नृपैर्भवेत् ।
सिंहासने चक्रवर्ती सर्वभूमिप्रपालकः ॥३०॥
अस्मिन् योगे हरिश्चन्द्रो मनुश्चैवोत्तमस्तथा ।
बलिर्वैश्वानरो जातस्तथान्ये चक्रवर्तिनः ॥३१॥
वर्तमानयुगे जातस्तथा राजा युधिष्ठिरः ।
भविता शालिवाहाद्यस्तथैव द्विजसत्तम ॥३२॥
पारावतांशकेऽप्येवं जाता मन्वादयस्तथा ।
विष्णोः सर्वेऽवताराश्च जायन्ते देवलोकके ॥३३॥
ब्रह्मलोकके तु ब्रह्माद्या जायन्ते विश्वपालकाः ।
ऐरावतांशके जातः पूर्व स्वायंभुवो मनुः ॥३४॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP