अरिष्टं तत्प्रभङ्गं च श्रुतं त्वत्तो मया मुने ।
कस्माद् भावात् फलं किं किं विचार्यमिति मे वद ॥१॥
देहं रूपं च ज्ञानं च वर्णं चैव बलाबलम् ।
सुखं दुःखं स्वभावञ्च लग्नभावान्निरीक्षयेत् ॥२॥
धनधान्यं कुटुम्बांश्च मृत्युजालममित्रकम् ।
धातुरत्नादिकं सर्वं धनस्थानान्निरीक्षयेत् ॥३॥
विक्रमं भृत्यभ्रात्रादि चोपदेशप्रयाणकम् ।
पित्रोर्वै मरणं विज्ञो दुश्चिक्याच्च निरीक्षयेत् ॥४॥
वाहनान्यथ बन्धूंश्च मातृसौख्यादिकान्यपि ।
निधि क्षेत्रं गृहं चापि चतुर्थात् परिचिन्तयेत् ॥५॥
यन्त्रमन्त्रौ तथा विद्यां बुद्धेश्चैव प्रबन्धकम् ।
पुत्रराज्यापभ्रांशादीन् पश्येत् पुत्रालयाद् बुधः ॥६॥
मातुलान्तकशंकानां शत्रूंश्चैव व्रणादिकान् ।
सपत्नीमातरं चापि षष्ठभावान्निरीक्षयेत् ॥७॥
जायामध्वप्रयाणं च वाणिज्यं नष्टवीक्षणम् ।
मरणं च स्वदेहस्य जायाभावान्निरीक्षयेत् ॥८॥
आयु रणं रिपुं चापि दुर्गं मृतधनं तथा ।
गत्यनुकादिकं सर्वं पश्येद्रन्ध्राद्विचक्षणः ॥९॥
भाग्यं श्यालं च धर्मं च भ्रातृपत्न्यादिकांस्तथा ।
तीर्थयात्रादिकं सर्वं धर्मस्थानान्निरीक्षयेत् ॥१०॥
राज्यं चाकाशंवृत्तिं च मानं चैव पितुस्तथा ।
प्रवासस्य ऋणस्यापि व्योमस्थानान्निरीक्षणम् ॥११॥
नानावस्तुभवस्यापि पुत्रजायादिकस्य च ।
आयं वृद्धिं पशूनां च भवस्थानान्निरीक्षणम् ॥१२॥
व्ययं च वैरिवृत्तान्तरिःफमन्त्यादिकं तथा ।
व्ययाच्चैष हि ज्ञातव्यमिनि सर्वत्र धीमता ॥१३॥
यो यो शुभैर्युतो दृष्टो भावो वा पतिदृष्टयुक् ।
युवा प्रवृद्धो राज्यस्थः कुमारो वाऽपि यत्पतिः ॥१४॥
तदीक्षणवशात् तत्तद्भाबसौख्यं वदेद् बुधः ।
यद्यद् भावपतिर्नष्टस्त्रिकेशाद्यैश्च संयुतः ॥१५॥
भावं न वीक्षते सम्यक् सुप्तो वृद्धोमृतोऽथवा ।
पीडितो वाऽस्य भावस्य फलं नष्टं वदेद् ध्रुवम् ॥१६॥