बृहत्पाराशरहोराशास्त्रम् - अध्याय ८४
`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.
ग्रहाणां दोषशान्त्यर्थं तेषां पूजाविधिं वद ।
मानवानां हितार्थाय संक्षेपात् कृपया मुने ॥१॥
ग्रहा सूर्यादयः पूर्वं मया प्रोक्ता द्विजोत्तम ।
जगत्यां सर्वजन्तूनां तदधीनं सुखाऽसुखम् ॥२॥
तस्मात् सुशान्तिकामो वा श्रीकामो वा सुचेतसा ।
वृष्टायायुः पुष्टिकामो वा तेषां यज्ञं समाचरेत् ॥३॥
ताभ्राच्च स्फटिकाद्रक्तचन्दनात् स्वर्णकादुभौ ।
रजतादयसः सीसात् कांस्यात् कार्याः क्रामद् ग्रहाः ॥४॥
पूर्वोक्तैः स्वस्ववर्णैर्वा पटे लेख्या द्विजोत्तमैः ।
स्वस्वोक्तदिग्विभागेषु गन्द्याद्यैर्मण्डनेषु वा ॥५॥
पद्मासनः पद्महस्तः पद्मपत्रसमद्युतिः ।
सप्ताश्वरथसंस्थश्च द्विभुजश्च दिवाकरः ॥६॥
श्वेतः श्वेताम्बरो देवो दशाश्वः श्वेतभूषणः ।
गदाहस्तो द्विबाहुश्च विधातव्यो विधुर्द्विज ॥७॥
रक्तमाल्याम्बरधरो शक्तिशूलगदाधरः ।
वरदस्तु चतुर्बाहुर्मङ्गलो मेषवाहनः ॥८॥
पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः ।
खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥९॥
गुरुशुक्रौ क्रमात् पीतश्वेतवर्णौ चतुर्भुजौ ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥१०॥
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
वाणवाणासनधरो विज्ञेयोऽर्कसुतो द्विज ॥११॥
करालवदनः खड्गचर्मशूली वरप्रदः ।
सिंहस्थो नीलवर्णश्च राहुरेवं प्रकल्प्यते ॥१२॥
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।
गृध्रासना नित्यं केतवः स्युर्वरप्रदा ॥१३॥
सर्वे किरीटिनः कार्या ग्रहा लोकहितप्रदाः ।
स्वांगुलेनोच्छ्रिता विज्ञैः शतमष्टोत्तरं सदा ॥१४॥
यथावर्णं प्रदेयानि सुद्ष्पाणि वसनानि च ।
गन्धो दीपो बलिश्चैव धूपो देयश्च गुग्गुलुः ॥१५॥
यस्य ग्रहस्य यद्द्रव्यमन्नं यस्य च यत् प्रियम् ।
तच्च तस्यै प्रदातव्यं भक्तियुक्तेन चेतसा ॥१६॥
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।
उद्बुध्यस्वेति मन्त्रांश्च जपेदथ बृहस्पते ॥१७॥
अन्नात् परिश्रुतश्चेति शन्नो देवीरभीष्टये ।
कया नश्चित्र इत्येवं केतु कृण्वन्निमांस्तथा ॥१८॥
सप्त रुद्रा दिशो नन्दा नवचन्द्रा नृपास्तथा ।
त्रिपक्षा अष्टचन्द्राश्च सप्तचन्द्रास्तथैव च ॥१९॥
इमाः संख्याः सहस्रघ्ना जपसंख्याः प्रकीर्तिताः ।
क्रमादर्कादिखेटानां प्रीत्यर्थं द्विजपुङ्गव ॥२०॥
अर्कः पलाशः खदिरस्त्वपामार्गस्तु पिप्पलः ।
उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ॥२१॥
होतव्या मधुसर्पिभ्यां दध्ना क्षीरेण वा युताः ।
एकैकस्य त्वष्ट शतमष्टाविंशतिरेव वा ॥२२॥
गुडैदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥२३॥
दद्याद् ग्रहक्रमादेवं विप्रेभ्यो भोजनं द्विज ।
शक्तितो वा यथालाभं देयं सत्कारपूर्वकम् ॥२४॥
धेनुः शङ्खस्तथाऽनड्वान् हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता रव्यादिदक्षिणाः ॥२५॥
यस्य यश्च यदा दुःस्थः स तं यत्नेन पूजयेत् ।
एषां धात्रा वरो दत्तः पूजिताः पूजयिष्यथ ॥२६॥
मानवानां ग्रहाधीना उञ्छ्रायाः पतनानि च ।
भावाऽभावौ च जगतां तस्मात् पूज्यतमा ग्रहाः ॥२७॥
N/A
References : N/A
Last Updated : July 26, 2011
TOP