अहोरात्रस्य पूर्वान्त्यलोपाद् होराऽवशिष्यते ।
तस्य विज्ञानमात्रेण जातकर्मफलं वदेत् ॥१॥
यदव्यक्तात्मको विष्णुः कालरुपो जनार्दनः ।
तस्याङ्गानि निबोध त्वं क्रमान्मेषादिराश्यः ॥२॥
मेषो वृषश्च मिथुनः कर्कसिंहकुमारिकाः ।
तुलालिऽश्च धनुर्नक्रे कुम्भो मीनस्ततः परम् ॥३॥
शीर्षानने तथा बाहू हृत्क्रोडकटिबस्तयः ।
गुह्योरुयुगले जानुयुग्मे वै जङ्घके तथा ॥४॥
चरनौ द्वौ तथा मेषात् ज्ञेयाः शीर्षादयः क्रमात् ।
चरस्थिरद्विस्वभावाः क्रूराक्रूरौ नरस्त्रियौ ॥५॥
पित्तानिलत्रिधात्वौक्यश्लेष्मिकाश्च क्रियादयः ।
रक्तवर्णो बृहद्गात्रश्चतुष्पाद्रात्रिविक्रमी ॥६॥
पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी ।
पृष्ठोदयी पावकी च मेषराशिः कुजाधिपः ॥७॥
श्वेतः शुक्राधिपो दीर्घश्चतुष्पाच्छर्वरीबली ।
याम्येट् ग्राम्यो वणिग्भूमिरजः पृष्ठोदयो वृषः ॥८॥
शीर्षोदयी नृमिथुनं सगदं च सवीणकम् ।
प्रत्यग्वायुर्द्विपाद्रात्रिबली ग्रामव्रजोऽनिली ॥९॥
समगात्रो हरिद्विर्णो मिथुनाख्यो बुधाधिपः ।
पाटलो वनचारी च ब्राह्मणो निशि वीर्यवान् ॥१०॥
बहुपादचरः स्थौल्यतनुः सत्त्वगुणी जली ।
पृष्ठोदयी कर्कराशिर्मृगांकाऽधिपतिः स्मृतः ॥११॥
सिंहः सूर्याधिपः सत्त्वी चतुष्पात् क्षत्रियो वनी ।
शीर्षोदयी बृहद्गात्रःपाण्डुः पूर्वेड् द्युवीर्यवान् ॥१२॥
पार्वतीयाथ कन्याख्या राशिर्दिनबलान्विता ।
शीर्षोदया च मध्यांगा द्विपाद्याम्यचरा च सा ॥१३॥
सा सस्यदहना वैश्या चित्रवर्णा प्रभञ्जिनी ।
कुमारी तमसा युक्ता बालभावा बुधाधिपा ॥१४॥
शीर्षोदयी द्युवीर्याढ्यस्तुलः कृष्णो रजोगुणी ।
पश्चिमो भूचरो घाती शूद्रो मध्यतनुर्द्विपात् ॥१५॥
शुक्राऽधिपोऽथ स्वल्पांगो बहुपाद्ब्राह्मणो बिली ।
सौम्यस्थो दिनवीर्याढ्यः पिशंगो जलभूवः ॥१६॥
रोमस्वाढ्योऽतितीक्ष्णाग्रो वृश्चिकश्च कुजाधिपः ।
पृष्ठोदयी त्वथ धनुर्गुरुस्वामी च सात्त्विकः ॥१७॥
पिंगलो निशिवीर्याढ्यः पावकः क्षत्रियो द्विपाद् ।
आदावन्ते चतुष्पादः समगात्रो धनुर्धरः ॥१८॥
पूर्वस्थो वसुधाचारी तेजस्वी ब्रह्मणा कृतः ।
मन्दाधिपस्तमी भौमी याम्येट् च निशि वीर्यवान् ॥१९॥
पृष्ठोदयी बृहद्गात्रः कर्बुरो वनभूचरः ।
आदौ चतुष्पदोन्ते तु विपदो जलगो मतः ॥२०॥
कुम्भः कुम्भी नरो बभ्रुवर्णो मध्यतनुर्द्विपात् ।
द्युवीर्यो जलमध्यस्थो वातशीर्षोदयी तमः ॥२१॥
शूद्रः पश्चिमदेशस्य स्वामी दैवाकरिः स्मृतः ।
मीनौ पुच्छास्यसंलग्नौ मीनराशिर्दिवाबली ॥२२॥
जली सत्त्वगुणाढ्यश्च स्वस्थो जलचरो द्विजः ।
अपदो मध्यदेही च सौम्यस्थो ह्युभयोदयी ॥२३॥
सुराचार्याधिपश्चेति राशीनां गदिता गुणाः ।
त्रिंशद्भागात्मकानां च स्थूलसूक्ष्मफलाय च ॥२४॥
अथातः सम्प्रवक्ष्यामि शृणुष्व मुनिपुंगव ।
जन्मलग्नं च संशोध्य निषेकं परिशोधयेत् ॥२५॥
तदहं संप्रवक्ष्यामि मैत्रेय त्वं विधारय ।
जन्मलग्नात् परिज्ञानं निषेकं सर्व्जन्तु यत् ॥२६॥
यस्मिन् भावे स्थितो मन्दस्तस्य मान्देर्यदन्तरम् ।
लग्नभाग्यान्तरं योज्यं यच्च राश्यादि जायते ॥२७॥
मासादि तन्मितं ज्ञेयं जन्मतः प्रक् निषेकजम् ।
यद्यदृश्यदलेङ्गेशस्तदेन्दोर्भुक्तभागयुक् ॥२८॥
तत्काले साधयेल्लग्नं शोधयेत् पूर्ववत्तनुम् ।
तस्माच्छुभाशुभं वाच्यं गर्भस्थस्य विशेषतः ॥२९॥
शुभाशुभं वदेत् पित्रोर्जीवनं मरणं तथा ।
एवं निषेकलग्नेन सम्यग् ज्ञेयं स्वकल्पनात् ॥३०॥