इत्यरिष्टं मया प्रोक्तं तद्भङ्गश्चापि कथ्यते ।
यत् समालोक्यं जातानां रिष्ताऽरिष्टं वदेद्बुधः ॥१॥
एकोऽपि ज्ञार्यशुक्राणां लग्नात् केन्द्रगतो यदि ।
अरिष्टं निखिलं हन्ति तिमिरं भास्करो यथा ॥२॥
एक एव बली जीवो लग्नस्थो रिष्टसंचयम् ।
हन्ति पापक्षयं भक्त्या प्रणाम इव शूलिनः ॥३॥
एक एव विलग्नेशः केन्द्रसंस्थो बलान्वितः ।
अरिष्टं निखिलं हन्ति पिनाकी त्रिपुरं यथा ॥४॥
शुक्लपक्षे क्षपाजन्म लग्ने सौम्यनिरीक्षिते ।
विपरीतं कृष्णपक्षे तथारिष्टविनाशनं ॥५॥
व्ययस्थाने यदा सूर्यस्तुलालग्ने तु जायते ।
जीवेत् स शतवर्षाणि दीर्घायुर्बालको भवेत् ॥६॥
गुरुभौमौ यदा युक्तौ गुरुदृऋटोऽथवा कुजः ।
हत्वाऽरिष्टमशेषं च जनन्याः शुभक्रद्भवेत् ॥७॥
चतुर्थदशमे पापः सौम्यमध्ये यदा भवेत् ।
पितुः सौख्यकरो योगः शुभैः केन्द्रत्रिकोणगैः ॥८॥
सौम्यान्तरगतैः पापैः शुभैः केन्द्रत्रिकोणगैः ।
सद्यो नाशयतेऽरिष्टं तद्भावोत्थफलं न तत् ॥९॥