अथाहं सम्प्रवक्ष्यामि तवाग्रे द्विजसत्तम ।
भावहोराघटीसंज्ञलग्नानीति पृथक् पृथक् ॥१॥
सूर्योदयं समारभ्य घटिकानां तु पंचकम् ।
प्रयाति जन्मपर्यन्तं भावलग्नं तदेव हि ॥२॥
इष्टं घट्यादिकं भक्त्वा पंचभिर्भादिजं फलम् ।
योज्यमौदयिके सूर्ये भावलग्नं स्फुटं च तत् ॥३॥
तथा सार्धद्विघटिकामितादर्कोदयाद् द्विज ।
प्रयाति लग्नं तन्नाम होरालग्नं प्रचक्षते ॥४॥
इष्टघट्यादिकं द्विघ्नं पञ्चाप्तं भादिकं च यत् ।
योज्यमौदयिके भानौ होरालग्नं स्फुटं हि तत् ॥५॥
कथयामि घटीलग्नं सृनु त्वं द्विजसत्तम ।
सूर्योदयत् समारभ्य जन्मकालावधि क्रमात् ॥६॥
एकैकघटिकामानात् लग्नं यद्याति भादिकम् ।
तदेव घटिकालग्नं कथितं नारदादिभिः ॥७॥
राशयस्तु घटीतुल्याः पलार्धप्रमितांशकाः ।
योज्यमौदयिके भनौ घटीलग्नं स्फुटं हि तत् ॥८॥
क्रमादेषां च लग्नानां भावकोष्ठं पृथक् लिखेत् ।
ये ग्रहा यत्र भे तत्र ते स्थाप्या राशिलग्नवत् ॥९॥
वर्णदाख्यदशां भानां कथयाम्यथ तेऽग्रतः ।
यस्य विज्ञानमात्रेण वदेदायुर्भवं फलम् ॥१०॥
ओजलग्नप्रसूतानां मेषादेर्गणयेत् क्रमात् ।
समलग्नप्रसूतानाम् मीनादेरपसव्यतः ॥११॥
मेषमीनादितो जन्मलग्नान्तं गणयेत् सुधीः ।
तथैव होरालग्नान्तं गणयित्वा ततः परम् ॥१२॥
ओजत्वेन समत्वेन सयातीये उभे यदि ।
तर्हि संख्ये योजयीत वैजात्ये तु वियोजयेत् ॥१३॥
मेषमीनादितः पश्चाद्यो राशिः स तु वर्णदः ।
एतत्प्रयोजनं वक्ष्ये सृणु त्वं द्विजपुंगवः ।
होरालग्नभयोर्नेया सबलाद्वर्णदा दशा ॥१४॥
यत्संख्ये वर्णदो लग्नात् तत्तत्संख्याक्रमेण तु ।
क्रमयुत्क्रमभेदेन दशा स्यादोजयुग्मयो ॥१५॥
पापदृष्टिः पापयोगो वर्ण्दस्य त्रिकोणके ।
यदि स्यात् तर्हि तद्राशिपर्यन्तं तस्य जीवनं ॥१६॥
रुद्रशूले यथैवायुर्मरणादि निरूप्यते ।
तथैव वर्णदस्यपि त्रिकोणे पापसंगमे ॥१७॥
वर्णदादपि भो विप्र लग्नवच्चिन्तयेत् फलम् ।
वर्णदात् सप्तमाद् भावत् कलत्रायुर्विचिन्तयेत् ॥१८॥
एकादशादग्रजस्य तृतीयात्तु यवीयसः ।
सुतस्य पंचमे विद्यान्मातुश्चतुर्थभावत् ॥१९॥
पितुश्च नवमाद् भावादयुरेएवं विचिन्तयेत् ।
शूलराशिदशायां वै प्रवलायामरिष्टकम् ॥२०॥
एवं तन्वादिभावानां कर्तव्या वर्णा दशा ।
पूर्ववच्च फलं ज्ञेयं देहिनां च शुभाशुभम् ॥२१॥
ग्रहनां वर्णदा नैव राशीनां वर्ण्दा दशा ।
कृत्वार्कधा राशिदशां क्रमादन्तर्दशां वदेत् ॥२२॥
एवमन्तर्दशादिं च कृत्वा तेन फलं वदेत् ।
क्रमव्युत्क्रमभेदेन लिखेदन्तर्दशामपि ॥२३॥
स्वस्वदेशोद्भवं लग्नं जन्मलग्नमिमिहोच्यते ।
भावहोरादिलग्नानां सर्वत्रैव समक्रिया ॥२४॥