अथ मेषादिराशीनां चरादीनां पृथक् पृथक् ।
दृष्टिभेदं प्रवक्ष्यामि श्रृणु त्वं द्विजसत्तम ॥१॥
राशयोऽभिमुखं विप्र तथा पश्यन्ति पार्श्वभे ।
यथा चरः स्थिरानेवं स्थिरः पश्यति वै चरान् ॥२॥
द्विस्वभावो विनाऽत्मानां द्विस्वभावान् प्रपश्यति ।
समीपस्थं परित्यज्य खेटास्तत्र गतास्तथा ॥३॥
चरेषु संस्थिताः खेटाः पश्यन्ति स्थिरसङ्गतान् ।
स्थिरेषु संस्थिता एवं पश्यन्ति चरसंस्थितान् ॥४॥
उभयस्थास्तु सूर्याद्या पश्यन्युभयसंस्थितान् ।
निकटस्थं विना खेटाः पश्यन्तीत्ययमागमः ॥५॥
दृष्टिचक्रमहं वक्ष्ये ययावद् ब्रह्मणोदितम् ।
तस्य विन्यासमात्रेण दृष्टिभेदः प्रकाश्यते ॥६॥
प्राचि मेएषवृषौ लेख्यौ कर्कसिंहौ तथोत्तरे ।
तुलाऽली पश्चिमे विप्र मृगकुम्भौ च दक्षिणे ॥७॥
ईशकोणे तु मिथुनं वायव्ये कन्यकां तथा ।
नौरृर्त्यां चापमालिख्य वह्निकोणे छषं लिखेत् ॥८॥
एवं चतुर्भुजाकारं वृत्ताकारमथापि वा ।
दृष्टिचक्रं प्रविन्यस्यैवं ततो दृष्टिं विचारयेत् ॥९॥