बृहत्पाराशरहोराशास्त्रम् - अध्याय ३५
`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.
अधुना नाभसा योगाः कथ्यन्ते द्विजसत्तम ।
द्वात्रिंशात् तत्प्रभेदास्तु शतघ्नाष्टादशोन्मिताः ॥१॥
आश्रयाख्यास्त्रयो योगाः दलसंज्ञं द्वयं ततः ।
आकृतिर्विशतिः संख्याः सप्त योगाः प्रकीर्तिताः ॥२॥
रज्जुश्च मुसलश्चैव नलश्चेत्याश्रयास्त्रयः ।
मालाख्यः सर्पसंज्ञश्च दलयोगौ प्रकीर्तितौ ॥३॥
गदाख्यः शकटाख्यश्च स्रृङ्गाटकविहंगसौ ।
हलवज्रयवाश्चैव कमलं वापियूपकौ ॥४॥
शरशक्तिदण्डनौकाकूटच्छत्रध्नूंषि च ।
अर्धचन्द्रस्तु चक्रं च समुद्रश्चेति विंशतिः ॥५॥
संख्याख्यावल्लकीदामपाशकेदारशूलकाः ।
युगो गोलश्च सप्तैते युक्ता दन्तमिता द्विज ॥६॥
सर्वैश्चरे स्थितै रज्जुः स्थिरस्थैर्मुसलः स्मृतः ।
नलाख्यो द्विस्वभावस्थैराश्रयाख्या इमे स्मृताः ॥७॥
केन्द्रत्रयगतैः सौम्यैः पापैर्वा दलसंज्ञकौ ।
क्रमान्मालाभुजंगाख्यौ शुभाशुभफलप्रदौ ॥८॥
आसन्नकेन्द्रद्वयगैः सर्वैर्योगो गदाह्वयः ।
शकटं लग्नजायास्थैः खाम्बुगैर्विहगः स्मृतः ॥९॥
योगः स्रृङ्गाटकं नाम लग्नात्मजतपःस्थितैः ।
अन्यस्थानात् त्रिकोणस्थैः सर्वैर्योगो हलाभिघः ॥१०॥
लग्नजायास्थितैः सौम्यैः पापाख्यैः खाऽम्बुसंस्थितैः ।
योगो वज्राभिधः प्रोक्तः वीपरीतस्थितैर्यवः ॥११॥
सर्वकेन्द्रगतैः सर्वैर्मिश्रैः कमलसंज्ञकः ।
केन्द्रादन्यत्रगैः सर्वैर्योगो वापीसमाह्वयः ॥१२॥
यूपो लग्नाच्चतुर्भस्थैः शरस्तुर्याच्चतुर्भगैः ।
शक्तिर्मदाच्चतुर्भस्थैर्दण्डो मध्याच्चतुर्भगैः ॥१३॥
लग्नात् सप्तमगैनौ का कूटस्तुर्याच्च सप्तमैः ।
छत्राख्यः सप्तमादेवं चापं मध्याद् भसप्तगैः ॥१४॥
लग्नादेकान्तरस्थैश्च षड्भगैश्चक्रमुच्यते ।
धनादेकान्तरस्थैस्तु समुद्रः षडगृहाश्रितै ॥१५॥
एकराशिस्थितैर्गोलो युगाख्यो द्विभसंस्थितैः ।
शूलस्तु त्रिभगैः प्रोक्तः केदारस्तु चतुर्भगैः ॥१६॥
पञ्चराशिस्थतैः पाशा दामाख्यः षड्गृहाश्रितैः ।
वीन्>आ सप्तभगैः सर्वैर्विहायान्यानुदीरितान् ॥१७॥
अटनप्रियाः सुरूपाः परदेशस्वास्थ्यभागिनो मनुजाः ।
क्रूराः खलस्वभावा रज्जुप्रभवाः सदा कथिताः ॥१८॥
मानज्ञानधनाद्यैर्युक्ता भूपप्रियाः ख्याताः ।
बहुपुत्राः स्थिरचित्ता मुसलसमुत्था भवन्ति नराः ॥१९॥
न्यूनातिरिक्तदेहा धनसञ्चयभागिनोऽतिनिपुणाश्च ।
बन्धुहिताश्च सुरूपा नलयोगे सम्प्रसूयन्ते ॥२०॥
नित्यं सुखप्रधाना वाहनवस्त्रान्नभोगसम्पन्ना ।
कान्ता सुबहुस्त्रीका मालायां सम्प्रसूताः स्युः ॥२१॥
वुषमाः क्रूरा निःस्वा नित्यं दुःखार्दिताः सुदीनाश्च ।
परभक्षपाननिरताः सर्पप्रभवा भवन्ति नराः ॥२२॥
सततोद्युक्तार्थवशा यज्वानः शास्त्रगेयकुशलाश्च ।
धनकनकरत्नसम्पत्संयुक्ता मानवा गदायां तु ॥२३॥
रोगार्ताः कुनखा मूर्खाः शकटानुजीविनो निःस्वा ।
मित्रस्वजनविहीनाः शकटे जाता भवन्ति नराः ॥२४॥
भ्रमणरुचयोविकृष्टा दूताः सुरतानुजीवनो धृष्टाः ।
कलहप्रियाश्च नित्यं विहगे योगे सदा जाताः ॥२५॥
प्रियकलहाः समरसहाः सुखिनो नृपतेः शुभकलत्राः ।
आढ्या युवतिद्वेष्याः स्रृङ्गाटकसम्भवा मनुजाः ॥२६॥
बह्वाशिनो दरिद्राः कृषीवला दुःखिताश्च सोद्वेगा ।
बन्धुसुहृदिभः त्यक्ताः प्रेष्याः हलसंज्ञके सदा पुरुषाः ॥२७॥
आद्यन्तवयःसुखिनः शूराः सुभगा निरीहाश्चः ।
भाग्यविहीना वज्रे जाताः खला विरुद्धाश्च ॥२८॥
व्रतनियममङ्गलपरा वयसो मध्ये सुखार्थपुत्रयुता ।
दातारः स्थिरचित्ता यवयोगभवाः सदा पुरुषाः ॥२९॥
विभवगुणाद्ग्.याः पुरुषाः स्थिरायुषो विपुलकीर्तय शुद्धाः ।
शुभशतकाः पृथ्वीशाः कमलभवाः मानवा नित्यम् ॥३०॥
निधिकरणे निपुणधियः स्थिरार्थसुखसंयुता सुतयुताश्च ।
नयनसुखसम्प्रहृष्टा वापीयोगेन राजानः ॥३१॥
आत्मविदिज्यानिरतः स्त्रिया युतः सत्त्वसम्पन्नः ।
व्रतनियमरतमनुस्यो यूपे जातो विशिष्टश्च ॥३२॥
इषुकारा बन्धनपाः मृगयाधनसेविताश्च मंसादा ।
हिंस्राः कुशिल्पकाराः शरयोगे मानवाः प्रसूयन्ते ॥३३॥
धनरहितविफलदुःखितनीचलसाश्चिरायुषः पुरुषाः ।
संग्रामबुद्धिनिपुणाः शक्त्यां जाताः स्थिराः शुभगाः ॥३४॥
हतपुत्रदारनिःस्वाः सर्वत्र च निर्धृंणाः स्वजनबाह्याः ।
दुःखितनीचप्रेष्या दण्डप्र्भवा भवन्ति नराः ॥३५॥
सलिलोपजीविविभवाः बह्वाशाः ख्यातकीर्तयो दुष्टाः ।
कृपणा मलिना लुब्धा नौसञ्जाताः खलाः पुरुषाः ॥३६॥
अनृतकथनबन्धनपा निष्किञ्चनाः शठाः क्रूराः ।
कूटसमुत्था नित्यं भवन्ति गिरिदुर्गवासिनो मनुजाः ॥३७॥
स्वजनाश्रयो दयावान्नानानृपवल्लभः प्रकृष्टमतिः ।
प्रथमेऽन्त्ये वयसि नराः सुखवान् दीर्घायुरातपत्री स्यात् ॥३८॥
आनृतिकगुप्तपालाश्चोराः कितवाश्च कानने निरताः ।
कार्मुकयोगे जाता भाग्यविहीनाः शुभा वयोमध्ये ॥३९॥
सेनापतयः सर्वेए कान्तशरीरा नृपप्रिया बलिनः ।
मणिकनकभूषणयुता भवन्ति योगेऽर्धचन्द्राख्ये ॥४०॥
प्रणताऽऽशेषनराधिपकिरीटरत्नप्रभास्फुरितपादः ।
भवति नरेन्द्रो मनुजश्चक्रे यो जायते योगे ॥४१॥
बहुरत्नधनसमृद्धा भोगयुता धनजनप्रियाः ससुता ।
उदधिसमुत्थाः पुरुषाः स्थिरविभवाः साधुशीलाश्च ॥४२॥
प्रियगीतनृत्यवाद्या निपुणाः सुखिनश्च धनवन्तः ।
नेतारो बहुभृत्या वीणायां कीर्तिताः पुरुषाः ॥४३॥
दाम्नि सुजनोपकारी नयधनयुक्तो महेश्वरः ख्यातः ।
बहुसुतरत्नसमृद्धो धीरो जायेत विद्वांश्च ॥४४॥
पाशे बन्धनभाजः कार्ये दक्षाः प्रपञ्चकाराश्च ।
बहुभाषिणो विशीला बहुभृत्याः सम्प्रतानाश्च ॥४५॥
सुबहूनामुपयोज्याः कृषीवलाः सत्यवादिनः सुखिनः ।
केदारे सम्भूताश्चलस्वभावा धनैर्युक्ताः ॥४६॥
तीक्ष्णालसधनहीना हिंस्राः सुबहिष्कृता महाशूराः ।
संग्रामे लब्धयशा शूले योगे भवन्ति नराः ॥४७॥
पाखण्डवादिनो वा धनरहिता वा बहिष्कृता लोके ।
सुतमातृधर्मरहिता युगयोगे ये नरा जाताः ॥४८॥
बलसंयुक्ता विधना वद्याविज्ञानवर्जिता मलिना ।
नित्यं दुःखितदीना गोले योगे भवन्ति नराः ॥४९॥
सर्वास्वपि दशस्वेते भवेयुः फलदायिनः ।
प्राणिनामिति विज्ञेयाः प्रवदन्ति तवाग्रजाः ॥५०॥
N/A
References : N/A
Last Updated : July 20, 2011
TOP