बृहत्पाराशरहोराशास्त्रम् - अध्याय ५८
`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.
मुक्ताविद्रुमलाभश्च ज्ञानकर्मसुखादिकम् ।
विद्यामहत्त्वं कीर्तिश्च नूतनप्रभुदर्शनम् ॥१॥
विभवं दारपुत्रादि पितृमातृसुखावहम् ।
स्वोच्चादिस्थेऽथ नीचेऽस्ते षष्ठाष्टमव्ययराशिगे ॥२॥
पापयुक्तेऽथवा दृष्टे धनधान्यपशुक्षयः ।
आत्मबन्धुविरोधश्च शूलरोओगादिसम्भवः ॥३॥
राजकार्यकलापेन व्याकुलो भव्ति ध्रुवम् ।
द्वितीयद्यूननाथे तु दारक्लेशो भविष्यति ॥४॥
आत्मसम्बन्धिमरणं वातशूलादिसम्भवः ।
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥५॥
बुधस्यान्तर्गते केतौ लग्नात्केन्द्रत्रिकोणगे ।
शुभयुक्ते शुभैर्दृष्टे लग्नाधिपसमन्विते ॥६॥
योगकारकसम्बन्धे दायेशात्केन्द्रलाभगे ।
देहसौख्यं धनाल्पत्वं बन्धुस्नेहमथादिशेत् ॥७॥
चतुष्पाज्जीवलाभः स्यात्संचारेण धनागमः ।
विद्याकीर्तिर्प्रसङ्गश्च समानप्रभुदर्शनम् ॥८॥
भोजनाम्बरसौख्यं च ह्यादौ मध्ये सुखावहम् ।
दायेशाद्यदि रन्ध्रस्थे व्यये वा पापसंयुते ॥९॥
वाहनात्पतनं चैव पुत्रक्लेशादिसम्भवः ।
चौरादिराजभीतिश्च पापकर्मरतः सदा ॥१०॥
वृश्चिकादिविषाद्भीतिर्नीचैः कलहसंभवः ।
शोकरोगादिदुःखं च नीचसङ्गादिकं भवेत् ॥११॥
द्वितीयद्यूननाथे तु देहजाड्यं भविष्यति ।
तद्दोषपरिहाराय छागदानं तु कारयेत् ॥१२॥
सौम्यस्यान्तर्गते शुक्रे केन्द्रे लाभे त्रिकोणगे ।
सत्कथापुण्यधर्मादिसंग्रहः पुण्यकर्मकृत् ॥१३॥
मित्रप्रभुवशादिष्टं क्षेत्रलाभः सुखं भवेत् ।
दशाधिपात्केन्द्रगते त्रिकोणे लाभगेऽपि वा ॥१४॥
तत्काले श्रियमाप्नोति राजश्रीधनसम्पदः ।
वापीकूपतडागदिदानधर्मादिसंग्रहः ॥१५॥
व्यवसायात्फलाधिक्यं धनधान्यसमृद्धिकृत् ।
दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ॥१६॥
हृद्रोगो मानहानिश्च ज्वरातीसारपीडनम् ।
आत्मबन्धुवियोगश्च संसारे भवति ध्रुवम् ॥१७॥
आत्मकष्टं मनस्तापदायकं द्विजसत्तम ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥१८॥
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ।
जगदम्बाप्रसादेन ततः शान्तिमवाप्नुयात् ॥१९॥
सौम्यस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
त्रिकोणे धनलाभे तु तुङ्गांशे स्वांशगेऽपि वा ॥२०॥
राजप्रसादसुभाग्यं मित्रप्रभुवशात्सुखम् ।
भूम्यात्मजेन संदृष्टे आदौ भूलाभमादिशेत् ॥२१॥
लग्नाधिपेन संदृष्टे बहुसौख्यं धनागमम् ।
ग्रामभूम्यादिलाभं च भोजनाम्बरसौख्यकृत् ॥२२॥
लग्नाष्टमव्यये वापि शन्यारफणिसंयुते ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥२३॥
चौरादिशस्त्रपीडा च पित्ताधिक्यं भविष्यति ।
शिरोरुङ्मनसस्ताप इष्टबन्धुवियोगकृत् ॥२४॥
द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविश्यति ।
तद्दोषपरिहारार्थं शान्तिं कुर्याद्यथाविधि ॥२५॥
सौम्यस्यान्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि गुरुदृष्टिसमन्विते ॥२६॥
योगस्थानाधिपत्येन योगप्राबल्यमादिशेत् ।
स्त्रीलाभं पुत्रलाभं च वस्त्रवाहनभूषणम् ॥२७॥
नूतनालयलाभं च नित्यं मिष्ठान्नभोजनम् ।
गीतवाद्यप्रसंगं च शास्त्रविद्यापरिश्रमम् ॥२८॥
दक्षिणां दिशमाश्रित्य प्रयाणं च भविष्यति ।
द्वीपान्तरादिवस्त्राणां लाभश्चैव भविष्यति ॥२९॥
मुक्ताविद्रुमरत्नानि धौतवस्त्रादिकं लभेत् ।
नीचारिक्षेत्रसंयुक्ते देहबाधा भविष्यति ॥३०॥
दायेशात्केन्द्रकोणस्थे दुश्चिक्ये लाभगेऽपि वा ।
तद्भुक्त्यादौ पुण्यतीर्थस्थानदैवतदर्शनम् ॥३१॥
मनोधैर्यं हृदुत्साहो विदेशधनलाभकृत् ।
दायेशात्षष्ठरन्ध्रे वा व्यये वा पापसंयुते ॥३२॥
चोराग्निनृपभीतिश्च स्त्रीसमागमतो भवेत् ।
दुष्कृतिर्धनहानिश्च कृषिगोश्वादिनाशकृत् ॥३३॥
द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥३४॥
वस्त्रदानं प्रकुर्वीत आयुर्वृद्धिसुखावहम् ।
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥३५॥
सौम्यस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि लग्नाधिपसमन्विते ॥३६॥
राजानुग्रहशान्तिं च गृहे कल्याणसम्भवम् ।
लक्ष्मीकटाक्षचिह्नानि नष्टराज्यार्थमाप्नुयात् ॥३७॥
पुत्रोत्सवादिसन्तोषं गृहे गोधनसंकुलम् ।
गृहक्षेत्रादिलाभं च गजवाजिसमन्वितम् ॥३८॥
राजप्रीतिकरं चैव स्त्रीसौख्यं चातिशोभनम् ।
नीचक्षेत्रसमायुक्ते ह्यष्टमे वा व्ययेऽपि वा ॥३९॥
पापदृष्टियुते वापि देहपीडा मनोव्यथा ।
उद्योगभङ्गो दशादौ स्वग्रामे धान्यनशनम् ॥४०॥
ग्रंथिशस्त्रव्रणादीनां भयं तापज्वरादिकम् ।
दायेशात्केन्द्रगे भौमे त्रिकोणे लाभगेऽपि वा ॥४१॥
शुभदृष्टे धनप्राप्तिर्देहसौख्यं भवेनृणाम् ।
पुत्रलाभो यशोवृद्धिर्भ्रातृवर्गो महाप्रियः ॥४२॥
दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते ।
तद्भुक्त्यादौ महाक्लेशो भ्रातृवर्गे महद्भयम् ॥४३॥
नृपाग्निचौरभीतिश्च पुत्रमित्रविरोधनम् ।
स्थानभ्रंशो भवेदादौ मध्ये सौख्यं धनागमः ॥४४॥
अन्ते तु राजभीतिः स्यात्स्थानभ्रंशोह्यथापिवा ।
द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ॥४५॥
गोदानं च प्रकुर्वीत मृत्युञ्जयजपं चरेत् ।
शङ्करस्य प्रसादेन ततः सुकह्मवाप्नुयात् ॥४६॥
बुधस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे ।
कुलीरे कुम्भगे वापि कन्यायां वृषभेपि वा ॥४७॥
राजसम्मानकीर्तिं च धनं च प्रभविष्यति ।
पुण्यतीर्थस्थानलाभो देवतादर्शनं तथा ॥४८॥
इष्तापूर्ते च महतो मानश्चाम्बरलाभकृत् ।
भुक्त्यादौ देहपीडा च त्वन्ते सौख्यं विनिर्दिशेत् ॥४९॥
लग्नाष्टव्ययराशिस्थे तद्भुक्तौ धननाशनम् ।
भुक्त्यादौ देहनाशश्च वातज्वरमजीर्णकृत् ॥५०॥
लग्नादुपचये राहौ शुभग्रहसमन्विते ।
राजसंलापसन्तोषो नूतनप्रभुदर्शनम् ॥५१॥
दायेशाद्द्वादशे वापि ह्यष्टमे पापसंयुते ।
निष्ठुरं राजकार्याणि अथानभ्रंशो महद्भयम् ॥५२॥
बन्धनं रोगपीडा च निजबन्धुमनोव्यथा ।
हृद्रोगो मानहानिश्च धनहानिर्भविष्यति ॥५३॥
द्वितीयसप्तमस्थे वा ह्यपमृत्युर्भविष्यति ।
तद्दोषपरिहारार्थं दुर्गालक्ष्मीजपं चरेत् ॥५४॥
श्वेतां गां महिषीं दद्यादायुआरोग्यदायिनीम् ।
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥५५॥
बुधस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि लाभे वा धनराशिगे ॥५६॥
देहसौख्यं धनावाप्ती राजप्रीतिस्तथैव च ।
विवाहोत्सवकार्याणि नित्यं मिष्ठान्नभोजनम् ॥५७॥
गोमहिष्यादिलाभश्च पुराणस्र्/अवणादिकम् ।
देवतागुरुभक्तिश्च दानधर्ममखादिकम् ॥५८॥
यज्ञकर्मप्रवृद्धिश्च शिवपूजाफलं तथा ।
नीचे वास्तंगते वापि षष्ठाष्टव्ययगेऽपि वा ॥५९॥
शन्यारदृष्टसंयुक्ते कलहो राजविग्रहः ।
चौरादिदेहपीडा च पितृमातृविनाश्नम् ॥६०॥
मानहानि राजदण्डो धनहानिर्भविष्यति ।
विषाहिज्वरपीडा च कृषिभूमिविनाशनम् ॥६१॥
दयेशात्केन्द्रकोणे वा लाभे वा बलसंयुते ।
बन्धुपुत्रहृदुत्साहो शुभं च धनसंयुतम् ॥६२॥
पशुवृद्धिर्यशोवृद्धिरन्नदानादिकं फलम् ।
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ॥६३॥
अङ्गतापश्च वैकल्यं देहबाधा भ्विष्यति ।
कलत्रबन्धुवैषम्यं राजकोपो धनक्षयः ॥६४॥
अकस्मात्कलहाद्भीतिः प्रमादो द्विजतो भयम् ।
द्वितीयसप्तमस्थे वा देहबाधा भविष्यति ॥६५॥
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
गोभूरिरण्यदानेन सर्वारिष्टं व्यपोहति ॥६६॥
सौम्यस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
त्रिकोणलाभगे वापि गृहे कल्याणवर्द्धनम् ॥६७॥
राज्यलाभं महोत्साहं गृहं गोधनसंकुलम् ॥६८॥
शुभस्थानफलवाप्तिं तीर्थवासं तथादिशेत् ।
अष्टमे वा व्यये मन्दे दायेशाद्वा तथैव च ॥६९॥
अरातिदुःखबाहुल्यं दारपुत्रादिपीडनम् ।
बुद्धिभ्रंशो बन्धुनाशः कर्मनाशो मनोरुजः ॥७०॥
विदेशगमनं चैव दुःस्वप्नादिप्रदर्शनम् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥७१॥
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।
कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥७२॥
N/A
References : N/A
Last Updated : July 26, 2011
TOP