महासमागमनो नाम प्रथमोऽध्यायः
समराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती.
महाराजाधिराजश्रीभोजदेवविरचितं समराङ्गणसूत्रधारापरनामधेयं वास्तुशास्त्रम् महासमागमनो नाम प्रथमोऽध्यायः ।
देवः स पातु भुवनत्रयसूत्रधारस्त्वां बालचन्द्र कलिकाङ्कितजूटकोटिः ।
एतत्समग्रमपि कारणमन्तरेण कार्त्स्न्यादसूत्रितमसूत्र्यत येन विश्वम् ॥१॥
सुखं धनानि ऋद्धिश्च सन्ततिः सर्वदा नृणाम् ।
प्रियाण्येषां तु संसिद्धयै सर्वं स्याच्छुभलक्षणम् ॥२॥
यच्च निन्दितलक्ष्मा च तदेतेषां विघातकृत् ।
अतः सर्वमुपादेयं यद्भवेच्छुभलक्षणम् ॥३॥
देशः पुरं निवासश्च सभा वेश्मासनानि च ।
यद्यदीदृशमन्यच्च तत्तच्छ्रेयस्करं मतम् ॥४॥
वास्तुशास्त्रादृते तस्य न स्याल्लक्षणनिश्चयः ।
तस्माल्लोकस्य कृपया शास्त्रमेतदुदीर्यते ॥५॥
अथैकदा जगज्जन्महेतुमम्बुरुहासनम् ।
पृथ्वी पृथुभयभ्रान्ता चकिताक्षी समाययौ ॥६॥
प्रणम्य प्रणतिप्रह्वनिखिलत्रिदशेश्वरम् ।
सगद्गदमुवाचेति भूतधात्री पितामहम् ॥७॥
भगवन्नहमेतेन पृथुना पृथुतेजसा ।
उपद्रुता त्वां शरणं प्राप्ता त्रायस्व मां ततः ॥८॥
वदन्त्यामिति मेदिन्यामाविरासीदथो पृथुः ।
संरम्भमुक्तहृदयो ब्रह्माणं प्रणनाम च ॥९॥
जगादैनमथ स्निग्धध्वनिगम्भीरया गिरा ।
कुर्वंस्तद्यानहंसानां पयोदध्वनिशङ्कितम् ॥१०॥
त्वयास्मि जगतां नाथ जगतोऽधिपतिः कृतः ।
स्थापितानि च भूतानि सर्वाण्यपि वशे मम ॥११॥
तेष्वियं मम विश्वेश कदाचिद्वशवर्तिनी ।
समीकरोमि पाषाणजालान्यस्याः किलाधुना ॥१२॥
व्यस्तानि धनुषा तावद्गौर्भूत्वेयं पलायिता ।
दोग्धुकामोऽहमप्येनां चिरमन्वगमं महीम् ॥१३॥
यत्रक्वापि प्रयात्येषा तत्र मामेव पश्यति ।
अपश्यन्त्यन्यतस्त्राणमदुग्धा त्वामुपस्थिता ॥१४॥
अस्यां वर्णाश्रमस्थानविभागश्च विधास्यते ।
इयं च दुर्गमानेकक्षोणीधरकुलाकुला ॥१५॥
विधास्येऽस्यां कथं त्वेतदिति मे शङ्कितं मनः ।
पृथुनेत्यथ विज्ञप्तो भगवानब्जसम्भवः ॥१६॥
उवाच बोधयन्नेनं कृत्वा भूमिं च निर्भयाम् ।
इयं मही महीपाल विधिवत् पालिता सती ॥१७॥
सस्यैरुत्पाद्य निष्पन्नैस्तव भोग्या भविष्यति ।
यच्च ते स्यादभिप्रेतं स्थानादिविनिवेशनम् ॥१८॥
तदेष त्रिदशाचार्यः सर्वसिद्धिप्रवर्तकः ।
सुतः प्रभासस्य विभोः स्वस्रीयश्च बृहस्पतेः ॥१९॥
विश्वाभिसायिधीः सर्वं विश्वकर्मा करिष्यति ।
राजन्नसौ महेन्द्र स्य विदधावमरावतीम् ॥२०॥
अन्या अप्यमुना रम्याः पुर्यो लोकभृतां कृताः ।
त्वया क्षेत्रीकृतां मूर्त्तिं दृष्ट्वा साद्रि द्रुमामसौ ॥२१॥
सन्निवेशान् पुरग्रामनगराणां विधास्यति ।
तद्गच्छ वत्स लोकानामितस्त्वं हितकाम्यया ॥२२॥
भयोज्झिता त्वमप्युर्वि पृथोः प्रियकरी भव ।
काले स्मृतः स्मृतः पुण्यो राज्ञः प्रियचिकीर्षया ॥२३॥
त्वमप्यखिलमेवैतद् विश्वकर्मन् करिष्यसि ।
इत्युक्त्वा गमनमुपेयुषि प्रजेशे स्वं स्थानं क्षितिभुजि चाश्रिते मुदोर्व्याम् ॥
प्रालेयावनिभृतमाजगाम खेलत्सिद्धस्त्रीपरिगतमाशु विश्वकर्मा ॥२४॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे महासमागमनो नाम प्रथमोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP