संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः

प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


अवतारो निवेशानां विधानं वास्तुनो यतः ।
कार्त्स्न्येन तमतो ब्रूमः सभ्यस्य प्रसवोत्तमः ॥१॥
कुलजातिक्रमाणां च क्रमं दीर्घाल्पजीविनाम् ।
संस्थानमभिधास्यामो लक्ष्यलक्षणमेव च ॥२॥
शुभाशुभानां वैराजमादिं तेषां प्रचक्षते ।
पूर्वोक्तस्य विमानस्य तस्यातो लक्ष्म कथ्यते ॥३॥
वैराजस्य यथाकारव्यवस्थानमशेषतः ।
चतुरश्रं समं क्षेत्रमशीत्यंशैर्विभाजयेत् ॥४॥
संयुक्तमष्टभिर्भागैः कुर्याद्गर्भगृहं शुभम् ।
द्विपञ्चाशद्धरैः सीमा गर्भकोष्ठसमन्विताः ॥५॥
द्वात्रिंशता देवकोष्ठैः सर्वैरेकान्तरैश्च तैः ।
बाह्यस्थाने ततः स्थानाद् द्वादशक्षोभणैर्धरैः ॥६॥
हेमरत्नमयैः स्तम्भैः शुक्लपट्टैश्च भूषितैः ।
शुक्लालङ्कारखचितैर्वितानैश्च विभूषणैः ॥७॥
स्फाटिकैर्विविधैर्जालैः सहरिन्मणिवेदिकैः ।
हंसकर्णकपोतालीतिर्यक्स्थाल्यर्धकर्णिकैः ॥८॥
पर्यन्तदेशधृतया गर्भस्योपरि घण्टया ।
लोकनाथेन तत्सृष्टमाद्यं वैराजसंज्ञितम् ॥९॥
तस्मात्स्वस्तिकसंज्ञः प्राग्गृहच्छन्दो विजायते ।
चतुश्शालस्त्रिशालश्च हिरण्यौकस्त्वतोऽपि च ॥१०॥
सिद्धार्थको द्विशालः स्यादेकशालस्तु कुम्भकः ।
सृष्टमन्यद्विमानं च वरं वीरं चतुर्मुखम् ॥११॥
गणानां देवतानां च स्कन्दस्य च यथाक्रमम् ।
प्रासादा द्वादशैतेऽन्ये जज्ञिरे शुभलक्षणाः ॥१२॥
स्वस्तिकः श्रीतरुश्चैव तृतीयः क्षितिभूषणः ।
भूजयो विजयो भद्रः श्रीकूटोष्णीषसंज्ञितौ ॥१३॥
नन्द्यावर्तो विमानश्च सर्वतो भद्र एव च ।
विमुक्तकोणप्रासाद इति वैराजसंभवाः ॥१४॥
एकैकस्मात्क्रमेणैवमेकैकः समजायत ।
स्वस्तिकाद् रुचको ज्ञेयः श्रीतरोः हिंपञ्जरः ॥१५॥
क्ष्माभूषणात्तशाला स्याद्भूजयाद्गयूथपः ।
विजयादवतंसश्च भद्रा न्नन्दी विनिर्गतः ॥१६॥
श्रीकूटाच्चित्रकूटाख्य उष्णीषात्प्रमदाप्रियः ।
व्यामिश्रो नन्दिकावर्ताद्विमानाद्धस्तिजावकः ॥१७॥
कुबेरः सर्वतोभद्रा न्मुक्तकोणाद्धराधरः ।
एतेभ्योऽपि च संभूताः कनीयांसोऽभिधानतः ॥१८॥
तद्भेदास्ते तदाकारैर्लक्ष्याः स्वैः स्वैः पृथग्विधैः ।
भागैस्तेषूत्तमैः पूर्वान् मध्यमान्मध्यमैस्तथा ॥१९॥
कनीयसः कनीयोभिः प्रासादानुपकल्पयेत् ।
शिखरैरपरैः श्लिष्टाः प्रासादा जज्ञिरे ततः ॥२०॥
प्रथमो रुचकस्तेषु द्वितीयो वर्धमानकाः ।
अवतंसस्तृतीयस्तु चतुर्थो भद्र उच्यते ॥२१॥
पञ्चमः सर्वतोभद्रः षष्ठः स्यान्मुक्तकोणकः ।
मेरुर्मन्दर इत्यष्टौ विज्ञेयाः शिखरोत्तमाः ॥२२॥
चतुरश्राः समाख्याता देवानामालयाः शुभाः ।
एते ते वंशजाः सर्वे निवेश्या ब्रह्मजातयः ॥२३॥
वैराजकुलसंभूताः प्रासादाः परमोत्तमाः ।
एतेभ्योऽन्येऽपि संभूताः पुत्रपौत्रप्रपौत्रयः ॥२४॥
स्ववंशाः सुपरीवाराः परवंशविवर्जिताः ।
कर्तव्या भूतिकामेन तेजसा शुभलक्षणाः ॥२५॥
नन्दका वर्धनाश्चैव सर्वकामफलप्रदाः ।
हृष्टपुष्टजनाकीर्णाः पूजासंस्कारवर्धनाः ॥२६॥
यदि हीना भवन्त्येते परवंशेन दूषिताः ।
तदुद्वेगं नृणां नित्यमर्थनाशं कुलक्षयम् ॥२७॥
पीडां च स्वामिनः कुर्युर्यदन्यदपि गर्हितम् ।
तस्मादेते विधातव्या दूषिता नान्यजातिभिः ॥२८॥
इति वैराजजातानामुत्पत्तिः प्रकीर्तिता ।
वैराजजन्मसुरसद्मपरम्परेय-
मुक्तैवमत्र शुभलक्ष्मवती समासात्
आनन्दकीर्त्तिधनधान्यकरी कृता स्या-
दन्यादृशी पुनरनर्थफलैव कर्तुः ॥२९॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP