नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
अथाभिधीयते वास्तुः कनीयान् षोडशास्पदः ।
पदैः षोडशभिः स स्यात् तत्र देवान् प्रचक्ष्महे ॥१॥
भुङ्क्ते मध्ये स्थितो मुख्यः पदमेकं सुरोत्तमः ।
कॢप्तं पदचतुर्भागैश्चतुर्भिश्चतुराननः ॥२॥
पदार्धभागभोक्तारश्चत्वारोऽमी सुरोत्तमाः ।
अर्यमा च विवस्वांश्च मित्रश्च क्ष्माधरोऽपि च ॥३॥
सवित्राद्यापवत्सान्ता येऽष्टौ कोणेषु वेधसः ।
चतुर्भागभुजस्ते स्युस्त्रिदशास्तपनत्विषः ॥४॥
चतुर्थी शादिकोणेषु ये स्थिताः क्रमशः सुराः ।
अष्टभागभुजस्तेऽष्टौ विनिर्दिष्टा मनीषिभिः ॥५॥
ये तथादितिपर्यन्ताः पर्जन्याद्याः सुरोत्तमाः ।
तेऽष्टौ चतुर्भागभुजो विद्वद्भिरिह कीर्तिताः ॥६॥
चरकान्ता जयन्ताद्या ये बाह्यस्थितयोऽमराः ।
भोगोऽर्धपदिकस्तेषां षोडशानामपि स्मृतः ॥७॥
चतुरश्रीकृते क्षेत्रे त्रयस्त्रिंशद्विभाजिते ।
अन्त्यपङ्क्तिद्वयं साधं चरक्याद्यर्थमुत्सृजेत् ॥८॥
अन्तरे वीथिकामर्धपदिकामुत्सृजेत्ततः ।
मध्ये तु सप्तविंशत्या भोगैर्वास्तु विभाजयेत् ॥९॥
एकोनत्रिंशता युक्तं पदानां शतसप्तकम् ।
यद्भवेत् तत्र गर्भे स्यादेकाशीतिपदः स्वभूः ॥१०॥
अष्टादशपदाश्चाष्टौ चपप्रभृतयः पृथक् ।
अर्यमाद्यं चतुःपञ्चाशत्पदं स्याच्चतुष्टयम् ॥११॥
ईशादयस्त्वदित्यन्ता बाह्या नवपदाः सुराः ।
देशानां सन्निवेशेऽसौ साहस्रो वास्तुरुच्यते ॥१२॥
अथोच्यते वृत्तवास्तुर्वृत्तप्रासादहेतवे ।
एकश्चतुःषष्टिपदभागः शतपदोऽपरः ॥१३॥
अष्टधा भाजिते वृत्तविष्कम्भे भागिकान्तरान् ।
चतुरः परिधीन्कुर्यान्मध्यवृत्तं द्विभागिकम् ॥१४॥
स्याद्बहिर्वृत्तवलयमष्टाविंशतिभागिकम् ।
तदन्तर्वृत्तवलयमष्टाष्टांशोज्झितं क्रमात् ॥१५॥
एवं कृते भवेन्मध्ये ब्रह्मणस्तच्चतुष्पदम् ।
इत्थं चतुःषष्टिपदो वृत्तवास्तुरुदाहृतः ॥१६॥
दशधा भाजिते वृत्तविष्कम्भे भागिकान्तराः ।
कार्याः परिधयः पञ्च मध्ये वृत्तं द्विभागिकम् ॥१७॥
बहिस्थं वलयं तस्य भजेत् षट्त्रिंशता ततः ।
शेषं चतुःषष्टिपदस्थित्या स्याच्छतवास्तुनि ॥१८॥
देवतापदसङ्क्षिप्तिरनयोश्चतुरश्रवत् ।
एवं कार्यवशात्कार्या वास्तवोऽन्येऽपि धीमता ॥१९॥
त्र्यश्रे षडश्रे चाष्टाश्रे षोडशाश्रे च वृत्तवत् ।
वृत्तायतेऽर्धचन्द्रे च वास्तौ पदविभाजनम् ॥२०॥
एक एव पुमानेषु बहुधा परिकल्पितः ।
सर्वस्मिन्नपि संस्थाने विभक्ते लक्षयेत्ततः ॥२१॥
शरीरं वास्तुपुंसोऽस्य गुणदोषा भवन्ति यत् ।
मुखं मूर्धा ततः श्रोत्रे दृक्ताल्वोष्ठरदाः क्रमात् ॥२२॥
वक्षः कण्ठः स्तनौ नाभिर्मेढ्रमुष्कावथो गुदम् ।
बाहू प्रबाहू पाणी स्फिगूरुजङ्घं पदद्वयम् ॥२३॥
कल्पयेदेवमेतेन स भवेत् पुरुषाकृतिः ।
सिरावंशानुवंशाश्च सन्धयः सानुसन्धयः ॥२४॥
मर्माण्यथ महावंशा लक्ष्या वास्तुशरीरगाः ।
सिराः कर्णगता याः स्युस्ता नाड्यः परिकीर्तिताः ॥२५॥
पदस्य षोडशो भागस्तत्प्रमाणं प्रकीर्तितम् ।
महावंशौ प्राक्प्रतीच्यौ याम्योदीच्यौ च मध्यगौ ॥२६॥
प्रमाणं पञ्चमो भागः पदस्योदाहृतं तयोः ।
वंशास्तेऽस्मिन् समुद्दिष्टा रेखा याः स्युर्मुखायताः ॥२७॥
यास्तिर्यगायता रेखास्तेऽनुवंशाः प्रकीर्तिताः ।
सम्पाता ये स्युरेतेषाम् मर्म तत्संप्रचक्षते ॥२८॥
उपमर्माणि तान्याहुः पदमध्यानि यानि हि ।
भागोऽष्टमोऽथ दशमो द्वादशः षोडशोऽपि च ॥२९॥
पदतो मानमिष्टं स्याद्वंशादीनामनुक्रमात् ।
वंशाष्टकस्य यः सन्धिः स सन्धिरिति कीर्तितः ॥३०॥
ये पुनः स्युस्तदङ्गानां प्रोक्तास्ते चानुसन्धयः ।
वालाग्रतुल्यं सन्धीनां प्रमाणं परिचक्षते ॥३१॥
तदर्धमनुसन्धीनां प्रमाणं समुदीरितम् ।
यत्नेनैतानि सन्त्यज्य वास्तुविद्याविशारदः ॥३२॥
द्र व्याणि प्रयतो नित्यं स्थपतिर्विनिवेशयेत् ।
महावंशस्य नाक्रान्तिं कुर्याद्द्रव्येण केनचित् ॥३३॥
इतरेषु पुनर्द्र व्यं मध्यवंशेषु सन्त्यजेत् ।
महावंशसमाक्रान्तौ भवेत्स्वामिवधो ध्रुवम् ॥३४॥
वर्षेण तपनाद्भीतिं वंशानां पीडनाद्विदुः ।
उपमर्माणि रोगाय मर्माणि कुलहानये ॥३५॥
उद्वेगायार्थनाशाय सिराश्च स्युः प्रपीडिताः ।
कलिः स्यात्सन्धिविद्धेषु पीडितेष्वनुसन्धिषु ॥३६॥
तस्मादेतानि सर्वाणि पीडितान्युपलक्षयेत् ।
ज्ञात्वा सिराः सानुसिराश्च नाडीर्वंशानुवंशानपि वास्तुदेहे ।
यत्नेन मर्माणि फलानि चैषां वेधं त्यजेद्यस्तमुपैति नापत् ॥३७॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे नाडीवंशानुवंशानां सिरानुसिरामर्मानुमर्मवेधविकल्पो नाम द्वादशोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP