पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः - १०१ ते १५०
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
अनेन होत्रं हव्यं च नमतान्नं विधीयते ।
द्वाभ्यामाकर्षणच्छत्रारं प्रग्रहप्रदर्शनम् ॥१०१॥
एतेन न चास्यरादर्श वा जग्र पुनः ।
अवक्षेपसमुत्क्षेपौ व्यावृत्तेन तु खण्डनम् ॥१०२॥
भ्रमता तु विधातव्यममुना परिपेषणम् ।
दीर्घदण्डग्रहे चैव षवस्त्रीतालम्बने तथा ॥१०३॥
कुशकेशकलापादिग्रहे स्रग्दामसंग्रहे ।
दृष्टिभ्रू सहितो हस्तः प्रयोक्तव्यो विचक्षणैः ॥१०४॥
इति खटकामुखः
खटकाख्ये यदा हस्ते तर्जनी संप्रसारिता ।
हस्तः सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥१०५॥
एतदीयप्रदेशिन्या व्यापारः प्रायशो भवेत् ।
नतोऽर्वाक कम्पितो बालव्यालोद्वाहिकभ्रमाः ॥१०६॥
ते स तत्र नत्र कर्मणि युज्यते ।
भ्रुमाया भिनयेच्चक्रं तं जृम्भितं चलयानया ॥१०७॥
विलोलया पताकादीन् --- या ।
धूपदीपप्लुतावल्लीपल्लवान् वालपत्रमात् ॥१०८॥
--- भ्रुद्वया पुष्पमञ्जरीम् ।
चलया वक्रगमनं चूलिकामुद्ध --- या ॥१०९॥
सा बुधा चादाहु विधातर्धकम्पितपा ।
धूपदीपलतावल्लीपल्लवान् बालपन्नगान् ॥११०॥
शिखण्डकान् मण्डलं च नयनं चोर्ध्वलोलया ।
तारकानासिकादण्डयष्टी पूर्वसुस्थयानया ॥१११॥
दक्षिणो दर्शयेत्रासन्नताधो नताक्रया ।
तिर्यङ्मण्डलया सर्वं तया लोकं प्रदर्शयेत् ॥११२॥
आद्यदीर्घे च विधास्ते विदध्यादुन्नतामिमाम् ।
विनमन्तीं पुनः कुर्यादपराह्णप्रदर्शने ॥११३॥
कर्तव्या वदनाभ्याशे सा कुञ्चितविजृम्भिता ।
अङ्गुलिः नृत्ततत्त्वज्ञैर्वाक्यार्थस्य निरूपणे ॥११४॥
सोऽयं तदिति निर्देशे प्रसृतोत्तानकम्पिता ।
रोषे प्रकम्पिताग्रा च हस्तेनाभ्युन्नतेन च ॥११५॥
प्रसृताग्रेण न मता च कर्तव्या स्वेदरूपणे ।
कुन्तलाङ्गदगण्डानां कुण्डलानां च रूपणे ॥११६॥
सर्द्विश वर्तना कार्या प्राचलती च सा मूहः ।
ललाटसंवृतोद्वृत्ता कार्या हस्तिनिरूपणा ॥११७॥
प्रसारितोन्नामिता वा रिपूद्देशेस विधीयते ।
कार्या संकपानी साग्रे सो प्रकोपदर्शने ॥११८॥
कोऽसावित्यापि निर्देशे कार्या तिर्यग्विनिर्गमा ।
कर्णकूटनयेन शब्दश्रवणेस्तातसंश्रया ॥११९॥
कार्ये हस्तद्वयाङ्गुल्यौ संयुते संमुखे युते ।
वियोगे विघटन्त्यौ तु कलहे स्वस्तिकाकृती ॥१२०॥
चतुधनिता कार्ये परस्परनिपीडने ।
ऊर्ध्वाग्रचलिता यावत्कर्तव्यै के --- वर्णने ॥१२१॥
कुर्याद् दृशं भ्रुवौ चास्य हस्तस्यानुगते बुधः ।
इति सूचीमुखः ।
यस्याङ्गुल्यस्तु विरलामाभोरुहाङ्गुष्ठेन कुञ्चिताः ॥१२२॥
ऊर्ध्वाश्च सङ्गताग्राश्च स भवेत् पद्मकोशकः ।
श्रीफलकस्य कपित्थस्य ग्रहणं तेन रूपयेत् ॥१२३॥
बीजपूरकमुख्यानामन्येषामपि दर्शनम् ।
कार्यं फलानां तत्तुल्यरूपेणोर्ध्वस्थितेन च ॥१२४॥
कुर्यात् प्रसारितास्येन योषित्कुचनिरूपणम् ।
कुर्याद् दृष्टिभ्रुवौ चास्य हस्तस्यानुगते बुधः ॥१२५॥
पद्मकोणकः ।
अङ्गुल्यः संहताः सर्वाः सहाङ्गुष्ठेन यस्य तु ।
तथानितघाश्चैव स तु सर्पशिराः करः ॥१२६॥
उत्तानितं तु कुर्वीत सेचनोदकदानयोः ।
अधोमुखं विचलितं भुजगस्य गतौ पुनः ॥१२७॥
विधात द्विगुणां वामबाहुतस्थिशरादधः ।
विदध्यात्सर्पशिरसा हस्तेनास्फोटनक्रियाम् ॥१२८॥
रचितभ्रुकुटिः कुर्यादेवं तिर्यक्छिरो दधत् ।
पुरतोऽधोमुखे न भास्या लनमाचरेत् ॥१२९॥
दृष्टिर्भ्रूसहिता कार्या हस्तस्यास्यानुयायिनी ।
इति सर्पशिराः ।
अधोमुखीनानिसृणे मङ्गुलीनां समागतिः ॥१३०॥
कनिष्ठाङ्गुष्ठकावूर्ध्वे तदासौ मृगशीर्षकः ।
इह साम्प्रतमस्तथेत्यत्ना प्रयोजयेत् ॥१३१॥
स्थाच्छत्र्यलाभेने तिर्यगुक्ति पूश्वाक्षे पातने ।
स्वेदापमार्जने कार्योऽधोमुखस्तत्प्रदेर्युशगः ॥१३२॥
कुट्टमिते संचलितः कर्तव्योऽधोमुखश्च सः ।
अस्यानुयायिनी दृष्टिः पाणी कुर्याद्भवापि ॥१३३॥
इति मृगशीर्षकः ।
त्रेताग्निसंस्थिता मध्यातर्जन्यङ्गुष्ठका मता ।
काङ्गूलेऽनामिका वक्रा तथाचोर्ध्वा कनीयसी ॥१३४॥
त्रेतोत्तनेन कर्कन्धूप्रभृतीनि प्रदर्शयेत् ।
तरुणानि फलान्यन्यद्वस्तु किञ्चिच्च यल्लघु ॥१३५॥
वाक्यान्यङ्गुलिविक्षेपैः स्त्रीणां रोषकृतानि च ।
मुक्तामरकतादीनां रत्नानां च प्रदर्शनम् ॥१३६॥
हस्तेनानेन कर्तव्यं भ्रुवौ चास्पृष्टष्टगे ।
इति काङ्गूलः ।
आवर्तिन्यः करतले यस्याङ्गुल्यो भवन्ति हि ॥१३७॥
पार्श्वागता विकीर्णाश्च सोऽलपद्मः प्रकीर्तितः ।
तिर्यक्पुरःस्थितः कार्यो हस्तोऽयं प्रतिषेधने ॥१३८॥
कस्य त्वमिति नास्तीति वाक्ये शून्ये च धीमता ।
आत्मोपन्यसने स्त्रीणां न सन्देशच्छेतो भवेत् ॥१३९॥
अस्य चानुगता दृष्टिर्विधातव्या भ्रुवौ तथा ।
इत्यलपद्मः ।
अङ्गुल्यः प्रसृतास्तिस्रस्तथाचोर्ध्वा कनीयसी ॥१४०॥
तासां मध्ये स्थितोऽङ्गुष्ठः स करश्चतुरः स्मृतः ।
अधोमुखः प्रचलितो मतस्येन ततत्कथा ॥१४१॥
विनये च नये चायं कार्योऽभिनयवेदिना ।
वैपुणा तून्नतशिवा साः कृस्वा भ्रेतां भ्रुवा ॥१४२॥
विदध्याच्चतुरं हस्तमुत्तानं नियमे पुनः ।
किन्तु भ्रवं --- कुटिलां विनयं प्रति नाचरेत् ॥१४३॥
अधोमुखेन हस्तेन तेन बालं प्रदर्शयेत् ।
बालप्रदर्शने कुर्याद् कुटीविनतानिरः ॥१४४॥
तेनोत्तानवलता येदातुरनन्तरम् ।
तिर्यक्प्रसर्प्य तूत्तानो बहिश्चाविकृताननैः ॥१४५॥
सत्ये चानुमतौ चैव हस्त एष विधीयते ।
एवमेव प्रयोक्तव्यो युक्ते पय्येशमध्यमः ॥१४६॥
द्वाभ्यामेकेन वा स्तुस्तौ क मण्डलावस्थितेन च ।
विचारितं प्रयोक्तव्यं विह्रतं लज्जितं तथा ॥१४७॥
वदनं तत्र कर्तव्यमविकार्यं नतभ्रुवा ।
वितर्कितमुरोभ्यर्णे मण्डलावस्थितेन तु ॥१४८॥
अधोमुखेन पुरतः कार्यं विश्लिष्यता तथा ।
मुखं चानिकृतं तत्र कार्यमभ्युन्नते भ्रुवौ ॥१४९॥
शिरस्तु वामतो तत्र नतं च पुनः ।
उभाभ्यां नयनाभ्यां तु मृगकर्णप्रदर्शनम् ॥१५०॥
N/A
References : N/A
Last Updated : November 26, 2017
TOP