संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः

गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


उपादेयानि यान्यत्र परित्याज्यानि यानि च ।

गृहद्र व्यप्रमाणानि तानीदानीं प्रचक्ष्महे ॥१॥
द्वारस्य गृहविस्तारैर्हस्ततुल्याङ्गुलैर्भवेत् ।
उछ्रायः सप्तभिर्युक्तैर्विस्तृतिस्तु तदर्धतः ॥२॥
प्रकल्पयेद्गृहद्वारं क्रमेणैव कनीयसा ।
त्रैराशिकेन मध्यानां द्वादशांशं परित्यजेत् ॥३॥
इत्युच्छ्रितिस्तदर्धेन सर्वेषामपि विस्तरः ।
उच्छ्रायमुत्तमानां तु कुर्यादष्टांशवर्जितम् ॥४॥
विस्ताराङ्गुलसंयुक्तां कुर्यादतिकनियसाम् ।
चतुःषष्टिगृहद्वारमुदयेनार्धविस्तृतम् ॥५॥
विस्तारहस्ततुल्यानि षष्ट्या पञ्चशताथवा ।
संयुतान्यङ्गुलानि स्यादुच्छ्रायोऽर्धेन विस्तृतिः ॥६॥
गृहोत्सेधेन वा त्र्यंशहीनेन स्यात्समुच्छ्रितिः ।
तदर्धेन तु विस्तारो द्वारस्येत्यपरो विधिः ॥७॥
द्वारोच्छ्रायकरैस्तुल्येष्वङ्गुलेषु विनिक्षिपेत् ।
चत्वारि पेद्यापिण्डः स्यात्सपादं विदधीत तम् ॥८॥
सार्धं वा सत्रिभागं वा द्विगुणं चाधिकं न तु ।
एवं कृते भवेत् द्वारपेद्याया विस्तृतिः स्फुटा ॥९॥
सार्धेन पेद्यापिण्डेन पिण्डं स्यादम्बरो भवेत् ।
सार्धस्तु पेद्याविस्तारः स्यादुदुम्बरविस्तृतिः ॥१०॥
पेद्यापिण्डेन तुल्या स्याच्छाखाया विस्तृतिः शुभा ।
सार्धया वैतया रूपशाखाया अपि विस्तृतिः ॥११॥
विस्तारार्धेन पेद्यायाः खल्वशाखा विधीयते ।
रूपशाखासमा वा स्यात्सार्धा वा बाह्यमण्डला ॥१२॥
पादोना त्र्यंशहीना वा विस्तारादर्धमेव वा ।
प्रासादेषु च तुल्यः स्याद्भारशाखाविनिर्गमः ॥१३॥
आद्या शाखा भवेद्देवी द्वितीया नन्दिनीति च ।
तृतीया सुन्दरी नाम चतुर्थी स्यात् प्रियानना ॥१४॥
भद्रे ति पञ्चमी शाखा प्रशस्ताः पञ्च वेश्मनि ।
अतोऽधिकास्तु याः शाखा गृहद्वारि न ताः शुभाः ॥१५॥
विस्तारात् षोडशो भागश्चतुर्हस्तसमन्वितः ।
तलोच्छ्रयः प्रशस्तोऽयं भवेद्विदितवेश्मनाम् ॥१६॥
सप्तहस्तो भवेज्ज्येष्ठे मध्यमे षट्करोन्मितः ।
पञ्चहस्तः कनिष्ठे तु विधातव्यस्तथोदयः ॥१७॥
ज्येष्ठे भवेत्सप्तदशहस्ताच्छाला प्रविस्तृता ।
मध्यमे दशहस्तात्तु पञ्चहस्तात्कनीयसि ॥१८॥
उदुम्बरार्थे बाहुल्यं तलन्यासं तु कारयेत् ।
तलन्याससमं पट्टमलिन्दस्य परिग्रहे ॥१९॥
द्वारविस्तारपादेन स्तम्भकोटिर्विधीयते ।
साष्टांशेनाधिकेनाथ सत्रिभागे वा पुनः ॥२०॥
कुर्यादेकादशांशेन तथास्यैव प्रपालकम् ।
स्तम्भान् कुर्यादृतेऽष्टांशान्नव द्वादशधाथवा ॥२१॥
भागैस्ततः स्वार्धसमैरर्धभागसमन्वितैः ।
अधस्ताडष्टभागा स्यात्स्तम्भस्य प्रतिपालना ॥२२॥
स्तम्भमूलस्य विस्तारादर्धेन स्थलनिर्गमः ।
तदर्धेन विधातव्यो मसूरकविनिर्गमः ॥२३॥
उत्कालकसमुछ्रायः स्तम्भपिण्डसमः शुभः ।
कुम्भिकोत्कालवत्पिण्डे विस्तारेऽष्टांशसम्मिता ॥२४॥
प्रागुक्तस्तम्भभागेन सपादेन विधीयते ।
दीर्घत्वमाद्यपत्राणां शेषाणां पादहानितः ॥२५॥
पादः पादो भवेन्न्यूनः पात्राणां रसनोच्छ्रयात् ।
सार्धभागोच्छ्रिता कार्या रसना कण्टकोपमा ॥२६॥
सार्धपादोच्छ्रिता यद्वा जङ्घा शेषं यथोदितम् ।
इत्थं स्यात्पद्मकस्तम्भो युक्त्या युक्तस्वरूपकैः ॥२७॥
अष्टाश्रो वा विधातव्यः स्तम्भसूत्रपरिक्रमात् ।
तद्विस्तारसमं त्यक्तोत्सेधं भागान्विभाजयेत् ॥२८॥
अष्टाश्रच्छेदमानेन बाह्यसूत्रानुपल्लवान् ।
विदध्यान्मध्यभागे तु कोणांश्च पल्लविकाकुलान् ॥२९॥
घटिका पुष्पमालाभिः पल्लवैश्चोपशोभिता ।
छेदभागः समः कार्यो बहिर्भागविवर्जितः ॥३०॥
घटपल्लवको नाम स्तम्भोऽयं परिकीरितः ।
विहितो वेश्मनामेष स्वामिनः श्रेयसे भवेत् ॥३१॥
कुबेरो वा विधातव्यः षोडशाश्रक्रियान्वितः ।
ऊर्ध्वतः पल्लवाकीर्णो जङ्घास्य चतुरश्रिका ॥३२॥
श्रीधरश्च भवेद्वृत्तः कल्पनास्य कुबेरवत् ।
एवं गृहाणां चत्वारः स्तम्भा लक्ष्मभिरीरिताः ॥३३॥
स्तम्भमूलस्य विस्तृत्या तलपदस्य विस्तृतिः ।
सपादया विधातव्या बाहुल्यं पादहीनया ॥३४॥
स्तम्भेन तुल्यं विस्तारे बाहल्ये पदसम्मितम् ।
हीरग्रहणमायामे स्तम्भाग्रात्त्रिगुणं भवेत् ॥३५॥
हीरग्रहणविस्तारं भागात्सप्त प्रकल्पयेत् ।
तत्स्यात्सृष्टोत्तरं भागं भागेनेष्टं प्रवेशनम् ॥३६॥
तस्याधस्तात्त्रिकण्टेन त्रिभागं लम्बितेन च ।
लिखेदुभावर्धचन्द्रौ पार्श्वयोरुभयोरपि ॥३७॥
खल्वं कृत्वा ततो मध्यं भागद्वयमधोगतम् ।
कुर्यात्त्रिकण्टकं कान्तं तुम्बिकामथ लम्बिकाम् ॥३८॥
द्वयोर्मध्येऽपरं भूयो द्विभागस्थं च कण्टकम् ।
तुम्बिकां लम्बमानां वा पत्रजातिविभूषिताम् ॥३९॥
तस्याश्चापरतीरं स्यात्पद्मपत्र्या विभूषितम् ।
तलपट्टसमः पेद्रो विस्तारात्पिण्डतोऽपि च ॥४०॥
पट्टत्र्यंशेन तीरे स्यात्पट्टपिण्डार्धनिर्गमः ।
स्तम्भाग्रेण समा कार्या विस्तारस्थौल्यतस्तुला ॥४१॥
तदर्धेन जयन्तीनां कर्तव्ये पिण्डविस्तृती ।
ताभ्यो विधेयाः पादोनाः सन्धिपाला यदृच्छया ॥४२॥
निर्यूहेषु च ये पट्टाः पादोनांस्तांस्तु कारयेत् ।
तुलापट्टाश्च पादोनास्तदर्धेन जयन्तिकाः ॥४३॥
तुलार्धेन विधातव्या प्रतिमोकस्य विस्तृतिः ।
पट्टस्योपरि कण्ठः स्याद्भूषितो रूपकर्मणा ॥४४॥
वेदिकाजालरूपाद्यो निर्यूहः संप्रशस्यते ।
विधातव्या च सच्छत्रा निबद्धाङ्गणवापिका ॥४५॥
स्तम्भपट्टांश्च विस्तीर्णान् सपादांस्तत्र कल्पयेत् ।
तुलापिण्डाः समाः कार्याः सङ्ग्रहैः सुदृढैर्युताः ॥४६॥
वेदिकाजालसम्पन्नं तलं कार्यं मनोरमम् ।
भूमौ भूमौ भवेत्तच्च द्वादशांशविवर्जितम् ॥४७॥
प्रणाल्यः सर्वतः कार्या मूलग्राहाग्रनिर्गमाः ।
दण्डच्छाद्यं गृहेषु स्याज्ज्ञेयं तच्च चतुर्विधम् ॥४८॥
भूताख्यं तिलकं तद्वन्मण्डलं कुमुदं तथा ।
गृहच्छाद्येषु तेषु स्यादुछ्रायोऽपि चतुर्विधः ॥४९॥
क्षेत्रतुर्यांशतः कार्यो दैर्घ्येणच्छाद्यदण्डकः ।
तदर्धं मुष्टिकायामो दण्डत्र्यंशेन लम्बना ॥५०॥
चतुरश्रं समं कान्तं मधुरं सुदृढं घनम् ।
वेश्मनां छाद्यकं कार्यं भूतं नाम्ना सुपूजितम् ॥५१॥
तस्यैवाष्टादशो भागो यदा स्यादुच्छ्रयेऽधिकः ।
उदयस्तिलको नाम शस्तः स गृहकर्मणि ॥५२॥
द्वाभ्यामुच्चतरः पूर्वो मण्डलः कुमुदस्त्रिभिः ।
अभित्तिस्थे भवेच्छाद्ये चन्द्र रेखाविभूषितम् ॥५३॥
गुणरागान्विता भित्तिर्यद्वा घनचयात्मिका ।
तत्रच्छाद्यं भवेच्चान्यदवधारणसंज्ञितम् ॥५४॥
सिंहकर्णकपोतालीघण्टाकर्णार्धपक्षगाः ।
ध्वजच्छत्रकुमारांश्च गृहेषु परिवर्जयेत् ॥५५॥
न पक्षराजिध्वजसिंहकर्णकुमारघण्टाः समरालपल्लीः ।
न प्रस्खलार्धानि नचैव पत्राण्यायोजयेद्वेश्मसु मङ्गलार्थी ॥५६॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP