सहदेवाधिकारो नाम षष्ठोऽध्यायः
समराङ्गणसूत्रधार हा भारतीय वास्तुशास्त्र सम्बन्धित ज्ञानकोशीय ग्रन्थ आहे, ज्याची रचना धार राज्याचे परमार राजा भोज (1000–1055 इ.स.) यांनी केली होती.
अथ प्राक्कथितादस्माद्भूतसर्गादनन्तरम् ।
प्रजासीदमरैः सार्धमियं पूर्णजनाकुला ॥१॥
शोकव्याधिशरातङ्कविमुक्तास्त्रिदशा इव ।
पुराभवन् कृतयुगे पुमांसः स्थिरयौवनाः ॥२॥
ते निकुञ्जेषु शैलानां नदीषु च सरस्सु च ।
वनेषु च विचित्रेषु चिक्रीडुर्दैवतैः सह ॥३॥
हेलया ते समुत्पत्य कदाचिदमरैः सह ।
निरर्गलाः समासाद्य स्वर्विचेरुः सुरा इव ॥४॥
चित्राम्बरावृताः सर्वे नानाभरणशालिनः ।
विमानाकृतयस्तेषामासन् कल्पद्रुमा द्रुमाः ॥५॥
मनोज्ञाभिः सह स्त्रीभिर्विचित्राभरणास्त्रियः ।
कल्पद्रुमेष्वकार्षुस्ते वासं क्रीडां च तेष्वथ ॥६॥
क्षुत्तृड्दुःखोज्झिताः सर्वे बभूवुरयुतायुषः ।
रत्नावदातदेहास्ते कदाचिद्भूरसाशिनः ॥७॥
रतिप्रायास्तदासंस्ते स्वेच्छाहारविहारिणः ।
स्वीकारविग्रहच्छेदविशदीकृतचेतसः ॥८॥
नास्मिन्नर्कस्तपत्युग्रं न वाति प्रबलोऽनिलः ।
नीहारच्छेदसुन्दर्यो निशाः पूर्णेन्दुभूषणाः ॥९॥
भिन्नस्निग्धाञ्जनश्यामाः सतडिन्मन्द्र निस्वनाः ।
अचण्डाशनयश्चासन् कबरीकान्तयो घनाः ॥१०॥
माद्यत्पिकवधूदष्टमाकन्दमुकुराङ्कुराः ।
आसन्सदापुष्पफलाभोगा येषां वनालयाः ॥११॥
एकोऽग्रजन्मा वर्णोऽस्मिन् वेदोऽभूदेक एव च ।
ऋतुर्वसन्त एवैकः कुसुमायुधबान्धवः ॥१२॥
रूपश्रुतसुखैश्वर्यभाजस्ते निखिला अपि ।
समत्वान्नाभवत्तेषामुत्तमाधममध्यता ॥१३॥
न खेटनगरग्रामपुरक्षेत्रखलादिकम् ।
न दंशमशकक्रव्याद्भयं वा न ग्रहादि च ॥१४॥
कल्पद्रुमाप्तभोगानां न चैषां प्रभुरप्यभूत् ।
पुरास्मिन् भारते वर्षे तेषां निवसतामिति ॥१५॥
जगाम सुबहुः कालः सुरैः सार्धं सुरश्रियाम् ।
अज्ञाततत्प्रभावानां सहसंवाससंभवा ॥१६॥
अथैषामभवद्दैवादवज्ञा त्रिदशान् प्रति ।
अपूज्यमानास्ते पूज्याः सर्वेऽप्यखिलवेदिनः ॥१७॥
आदाय तत्कल्पतरुं निपेतुर्द्यां दिवौकसः ।
दिवंगमनशक्तिश्च दिव्यो भावश्च तद्गतः ॥१८॥
सरसः परमो भूमौ भूरसश्च न्यवर्तत ।
स्मृत्वा कल्पद्रुमांस्तांस्तान् क्रीडास्ताश्च सुरैः सह ॥१९॥
व्यलपन् बहुधात्यर्थमनर्थकृतचेतसः ।
ततो विलपतां भूरि स्वैरमाहारहेतवे ॥२०॥
प्राणत्राणार्थमेतेषामभूत् पर्पटको भुवि ।
भूरसेनैव तेनैते कुर्वाणाः प्राणरक्षणम् ॥२१॥
विना कल्पद्रुमैर्वासमन्यवृक्षेषु चक्रिरे ।
अथैषां पश्यतामेव कदाचिद्भाग्यसंक्षयात् ॥२२॥
विपर्ययाच्च कालस्य भूमेः पर्पटकोऽप्यगात् ।
ततः पर्पटके नष्टे तुषशूककणोज्झिताः ॥२३॥
अकृष्टपच्या मेदिन्यामभवञ्शालितण्डुलाः ।
शाल्योदनेन तेनाथ सुखादुव्यञ्जनेन ते ॥२४॥
परमां तृप्तिमासेदुः परितोषात्तचेतसः ।
तन्नाशशङ्कया शालितण्डुलानां द्रुमेष्वधः ॥२५॥
ते व्यधुर्महतो राशींस्तत्क्षेत्राणि च चक्रिरे ।
अजायत ततो लोभो मात्सर्येर्ष्यापुरस्सरः ॥२६॥
तत्र तत्र शनैश्चक्रे पदन्यासं च मन्मथः ।
द्वन्द्वप्राप्त्या ततस्तेषां बिभ्रतामुत्तमां गतिम् ॥२७॥
धैर्यध्वंसादभूत् स्त्रीषु भृशं रागतुरङ्गमः ।
दारक्षेत्रनिमित्तानि भूयांस्येषामनन्तरम् ॥२८॥
परिक्लेशैकमूलानि द्वन्द्वान्यासन्पृथक्पृथक् ।
ततः स्वकॢप्तमर्यादोच्छेदिष्वेष्वजितात्मसु ॥२९॥
अविनीतेष्वभाग्येषु स शालिस्तुषतामगात् ।
प्रवृद्धरजसां तेषां सा पुण्यश्लोकता गता ॥३०॥
मलप्रवृत्तिरभवत् तुषधान्योपसेवया ।
तुषधान्ये ततो नष्टे परिभुक्ते च सञ्चये ॥३१॥
चीरवल्कलवस्त्राणां कन्दमूलफलाशिनाम् ।
ऋतवः कालपर्यासात् षड् वसन्तादयोऽभवन् ॥३२॥
ततस्तेषामभूद्दोषरोगशोकाकुलं वपुः ।
मनश्च कामक्रोधेर्ष्यादैन्यासूयादिदूषितम् ॥३३॥
आधिदैवकमुष्णाम्बुशीतादिजनितं महत् ।
आधिभौतिकमप्यासीद्दुःखं व्यालमृगादिजम् ॥३४॥
इत्थं दुःखत्रयार्त्तास्ते व्यवायाद्यभिगुप्तये ।
हिमनीहारशीताम्बुवाताद्यापच्छिदेऽपि च ॥३५॥
अजातप्रीतयो वृक्षैः कुट्टिमानि गृहाणि ते ।
व्यधुश्छित्त्वाश्मभिर्वृक्षानन्यान् दुःखार्तेचेतसः ॥३६॥
स्मृत्वा कल्पद्रुमाकारास्तद्रू पाणि गृहाणि ते ।
एकद्वित्रिचतुःसप्तदशशालानि चक्रिरे ॥३७॥
शब्दा प्राकारपरिखेष्वाच्छन्नेषु तृणादिभिः ।
हृष्टास्तेष्वनयन् कालमाप्तेषु गृहमेधिनः ॥३८॥
इत्यमीषु गृहिणो गृहेषु ते शीतवातजलतापनाशिषु ।
हर्षसंवलितमानसाश्चिरं सन्निरस्तविपदोऽवसन् सुखम् ॥३९॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे सहदेवाधिकारो नाम षष्ठोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP