प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
प्रतिमानामथ ब्रूमो लक्षणं द्र व्यमेव च ।
सुवर्णरूप्यताम्राः स्युर्दारुलेखानि शक्तितः ॥१॥
चित्रं चेति विनिर्दिष्टं द्र व्यमर्चासु सप्तधा ।
सुवर्णं पुष्टिकृद्विद्याद्र जतं कीर्तिवर्धनम् ॥२॥
प्रजाविवृद्धिजं ताम्रं शैलेयं भूजयावहम् ।
आयुष्यं दावरवं द्र व्यं लेख्यचित्रे धनावहे ॥३॥
प्रारभेद् विधिना प्राज्ञो ब्रह्मचारी जितेन्द्रि यः ।
हविष्यनियताहारो जपहोमपरायणः ॥४॥
शयानो धरणीपृष्ठे कुशास्तरणे तदन्तरम् ।
अप्राप्ताया द्वयोर्मध्यं भवेत्पञ्चाक्षिसम्मितम् ॥५॥
नेत्रश्रवणयोर्मध्यं भवेदङ्गुलपञ्चकम् ।
कर्णौ चाक्षिसमौ ज्ञेयावुत्सेधाद्द्विगुणायतौ ॥६॥
साकर्णपाली स्यान्मध्यं पत्पिष्यल्यकृकूटयोः ।
द्विभागोलकायता पिष्पल्याश्रिताङ्गुलविस्तृता ॥७॥
अरोमप्रभवा ज्ञेया व्याकृष्टधनुराकृतिः ।
एवम्प्रमाणं स्यादेषां कर्णपृष्ठाश्रयोऽपि च ॥८॥
ऊर्ध्वबन्धादधोबन्धः कर्णमूलसमाश्रितः ।
अध्यर्धं गोलकं ज्ञेयः पृष्ठतश्चैवमेव सः ॥९॥
निष्पावसदृशाकारा कर्तव्या कर्णपिप्पली ।
आयामेनाङ्गुलं सा स्याद्विस्तारेण चतुर्यवा ॥१०॥
पिप्पल्याधातयोर्मध्ये लकार इति संज्ञितः ।
स्यादध्यर्धाङ्गुलायामो विस्तारेण च सोऽङ्गुलम् ॥११॥
मध्ये लकारो निम्नः स्यान्मानाद्यवचतुष्टयम् ।
मूले पिप्पलिकायाः स्याच्छ्रोत्रच्छिद्रं चतुर्यवम् ॥१२॥
या गोलकारपीगूष्मो स्तूतिकेति प्रकीर्तिता ।
अर्धाङ्गुलायता सा स्याद्यवद्वितयविस्तृता ॥१३॥
लकारावर्तयोर्मध्ये पीयुषी सा प्रकीर्तिता ।
अङ्गुलद्वितयायामा विस्तृता साधमङ्गुलम् ॥१४॥
कर्णस्य बाह्या रेखा या तामावर्तं प्रचक्षते ।
षडङ्गुलप्रमाणः स्याद्वक्रो वृत्तायतश्च सः ॥१५॥
मूलांशोऽर्धाङ्गुलः कार्यः क्रमान्मध्ये यवद्वयम् ।
अग्रे यवप्रमाणश्च विस्तारेण विधीयते ॥१६॥
लकारावर्तयोर्मध्यमुद्धात इति कीर्तितम् ।
अधोभागे --- पीयूष्या विस्तारेण यवत्रयम् ॥१७॥
ऊर्ध्वतः कर्णविस्तारो गोलकाद् द्वियवान्वितः ।
मध्ये च द्विगुणं नालं मूले मात्रा सषड्यवा ॥१८॥
समुदायप्रमाणे णोलकद्वितयायतः ।
कर्णप्रसप्तः कर्तव्यो निम्नोच्चूमतविभागवान् ॥१९॥
अङ्गुलं पश्चिमं नालं पूर्वमर्धाङ्गुलं भवेत् ।
कुर्वीत कोमले नाले कला द्वितयमायते ॥२०॥
श्रवणस्य विभागोऽयं पर्वायथावत् परिकीर्तितः ।
अन्यूनाधिकमानः स्यात्प्रशस्तो दूषितोऽन्यथा ॥२१॥
चिबुकं द्व्यङ्गुलायामं तस्यार्धमधरं विदुः ।
तदर्धमुत्तरोष्ठः स्याद्भाजी चार्धाङ्गुलोच्छ्रया ॥२२॥
नासापुटौ तु विज्ञेयौ चतुर्थं भागमोष्ठयोः ।
तयोः प्रान्तौ तु कर्तव्यौ करवीरसमौ शुभौ ॥२३॥
तारकान्तःसमे चैव सृक्वणी परिचक्षते ।
नासिका स्यात्प्रमाणेन चतुरङ्गुलमायता ॥२४॥
पुटप्रान्ते च विस्तारो नासाग्रस्याङ्गुलद्वयम् ।
विस्तारेणाङ्गुलान्यष्टौ तदर्थमपि चायतम् ॥२५॥
प्रमाणगुणसंयुक्तं ललाटं परिकीर्तितम् ।
आरभ्य चिबूकाद्यावत् केशान्तं पश्चिमात्तथा ॥२६॥
गणिकन्तं शिरसो मानं भवेद्द्वात्रिंशदङ्गुलम् ।
--- कर्णयोर्मध्ये मष्टकोऽष्टादशाङ्गुलः ॥२७॥
--- ग्रीवयोः परीणाहो विंशतिश्चतुरन्विता ।
ग्रीवातः स्यादुरोभाग उरसो नाभिरेव च ॥२८॥
नामेन्द्रं भवेद्भागौ द्वावुभयमेव च ।
ऊर्वोः समे मते जङ्घे जानुनी चतुरङ्गुले ॥२९॥
चतुर्दशाङ्गुलौ पादौ स्मृतावायाममानतः ।
षडङ्गुलौ तु विस्तारादुत्सेधाच्चतुरङ्गुलौ ॥३०॥
पञ्चाङ्गुलपरीणाह अङ्गुलौ त्र्यङ्गुलायतः ।
अङ्गुष्ठकसमा चैव स्यादायामात्प्रदेशिनी ॥३१॥
तस्याः षोडशभागेन हीना स्यान्मध्यमाङ्गुलिः ।
अष्टभागेन मध्याया हीनां विद्यादनामिकाम् ॥३२॥
तस्याश्चैवाष्टभागेन हीना ज्ञेया कनिष्ठिका ।
पादोनमङ्गुलं कुर्यादङ्गुष्ठस्य नखं बुधः ॥३३॥
अङ्गुलीनां नखान् कुर्यात् खं पञ्चत्र्यंशसंमितान् ।
कुर्वीताङ्गुलकोत्सेधं त्रिभ्यन्वित्तमङ्गुलाम् ॥३४॥
प्रदेशिन्यङ्गुलोत्सेधा हीना शेषा यथाक्रमम् ।
जङ्घामध्ये परीणाहो भवेदष्टादशाङ्गुलः ॥३५॥
जानुमध्ये परीणाहस्त्वङ्गुलान्येकविंशतिः ।
तस्यैव सप्तमं भागं विद्याज्जानुकपालकम् ॥३६॥
ऊरुमध्ये परीणाहो भवेद्द्वात्रिंशदङ्गुलः ।
भागार्धमाशै वृषणौ मेढ्रं वृषणसंस्थितम् ॥३७॥
षडङ्गुलपरीणाहं कोशस्तु चतुरङ्गुलः ।
अष्टादशाङ्गुलमिता विस्तारेण कटिर्भवेत् ॥३८॥
अङ्गुलार्धं भवेन्नारीरोधोवश्वाङ्गुलं भवेत् ।
नाभिमध्ये परीणाहः षट्चत्वारिंशदङ्गुलः ॥३९॥
द्वादशाङ्गुलमात्रं तु स्तनयोरन्तरं विदुः ।
स्तनयोरुपरिष्टात्तु कक्षप्रान्तौ षडङ्गुलौ ॥४०॥
उत्सेधात्पृष्ठविस्तारो विंशतिश्चतुरन्विता ।
उरसः सह पृष्ठेन परीणाहः प्रकीर्तितः ॥४१॥
षडङ्गात्परीमाणादङ्गुलानीति निश्चयः ।
परीणाहाच्चतुर्विंशत्यङ्गुलाष्टौ च विस्तृता ॥४२॥
ग्रीवा कार्या भुजायामः षट्चत्वारिंशदङ्गुलः ।
पर्वोपरितनं बाहोः कार्यमष्टादशाङ्गुलम् ॥४३॥
षोडशाङ्गुलमात्रं तु द्वितीयं पर्व कथ्यते ।
बाहुमध्ये परीणाहो भवेदष्टादशाङ्गुलः ॥४४॥
प्रवाहोस्तु परीणाहो भवति द्वादशाङ्गुलः ।
आयामेन तलत्वापि कीर्तितो द्वादशाङ्गुलः ॥४५॥
अङ्गुलीरहितः प्राज्ञैः सप्ताङ्गुल उदाहृतः ।
पञ्चाङ्गुलानि विस्तीर्णो लेखालक्षणलक्षितः ॥४६॥
पञ्चाङ्गुलानि मानेन कर्तव्या मध्यमाङ्गुलिः ।
पर्वणोऽर्धं तु मध्याया हीनां विद्यात्प्रदेशिनीम् ॥४७॥
प्रदेशिनीसमा चैव स्यादायामादनामिका ।
पर्वार्धमानहीना च प्रमाणेन कनिष्ठिका ॥४८॥
अङ्गुलीनां नखाः कार्याः सर्वे पर्वार्धसंमिताः ।
आयाममात्रमेतासां परीणाहं प्रचक्षते ॥४९॥
अङ्गुष्ठकस्य दैर्घ्यं स्यादङ्गुलानां चतुष्टयम् ।
पञ्चाङ्गुलं परीणाहं स्पष्टचारुयवाङ्कितं ॥५०॥
तुङ्गास्थमानपर्यन्तात् किञ्चिद्धीना नखा मताः ।
अङ्गुष्ठकप्रदेशिन्योरन्तरं द्व्यङ्गुलं भवेत् ॥५१॥
स्त्रीणामप्येवमेतत्स्यात्स्तनोरुजघनाधिकम् ।
त्रीणि चत्वारि चत्वारि त्रीणि चत्वार्यथापि च ॥५२॥
एकादशैकाडश वा दशधा विंशतिस्त्रयम् ।
विंशतिस्त्रीणि च स्त्रीणां मानमेतत् प्रकीर्तितम् ॥५३॥
कनिष्ठं मानमेतत्स्यान्मध्यं सत्र्यंशमष्टकम् ।
पलानाष्टमकं सार्धमुत्तमं परिकीर्तितम् ॥५४॥
उरसश्च भवेत्तासां विस्तारोऽष्टादशाङ्गुलः ।
कर्तव्यः कटिविस्तारो विंशति चतुरुताः ।
एतत्प्रमाणमुद्दिष्टं प्रतिमानां समासतः ॥५५॥
प्रमाणमेतत् सकलाशराणामर्धास्तु निर्दिष्टमनुक्रमेण ।
कार्यं सदा शिल्पिभिरंशुमतैर्यथोचितद्र व्यसमुद्भवासु ॥५६॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP