संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
हस्तलक्षणं नाम नवमोऽध्यायः

हस्तलक्षणं नाम नवमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।



हेतुः समस्तवास्तूनामाधारः सर्वकर्मणाम् ।
मानोन्मानविभागादिनिर्णयैकनिबन्धनम् ॥१॥
परिध्युदयविस्तारदैर्घ्याणां स्युरमी यतः ।
ज्येष्ठमध्याधमा भेदा यं च ज्ञात्वा न मुह्यति ॥२॥
इदानीं तस्य हस्तस्य सम्यङ् निश्चयसंयुतम् ।
कथ्यते त्रिविधस्यापि लक्षणं शास्त्रदर्शितम् ॥३॥
रेण्वष्टकेन वालाग्रं लिक्षा स्यादष्टभिस्तु तैः ।
भवेद् यूकाष्टभिस्ताभिर्यवमध्यं तदष्टकात् ॥४॥
अष्टाभिः सप्तभिः षड्भिरङ्गुलानि यवोदरैः ।
ज्येष्ठमध्यकनिष्ठानि तच्चतुर्विंशतिः करः ॥५॥
सोऽष्टभिः पर्वभिर्युक्तः करः कार्यो विजानता ।
करस्यार्धं चतुःपर्व शेषं स्याद्भक्तमङ्गुलैः ॥६॥
तत्राग्रे पर्वरेखाः स्युस्तिस्रः पुष्पकभूषिताः ।
शेषास्वङ्गुलरेखासु पुष्पाणि विदधीत न ॥७॥
अत्रार्धे मध्यतः कार्यं द्वेधा पञ्चममङ्गुलम् ।
मध्यं त्रिधाष्टमं कार्यं चतुर्धा द्वादशं ततः ॥८॥
हस्तः स्वाङ्गुलमानेन विधेयाङ्गुलमिष्यते ।
तत्साधं द्विगुणं वापि बाहुल्यं तु तदर्धतः ॥९॥
कथितः करभेदोऽयमङ्गुलानां विभेदतः ।
तस्य निर्माणदारूणि देवताश्च प्रचक्ष्महे ॥१०॥
खदिराञ्जनवंशादि श्लक्ष्णं हीरं मनोरमम् ।
सारवच्च भवेदिष्टं दारु हस्तप्रकल्पने ॥११॥
ग्रन्थिलं लघु निर्दग्धं जीर्णं विस्फुटितं तथा ।
अदृढं कोटराक्रान्तं दारु हस्ताय नेष्यते ॥१२॥
त्रिविधस्याप्यथैतस्य पर्वरेखासु देवताः ।
मध्यादारभ्य विज्ञेयाः क्रमेण नव वच्मि ताः ॥१३॥
ब्रह्मा वह्निर्यमो विश्वकर्मा नाथश्च पाथसाम् ।
वायुर्धनाधिपो रुद्रो विष्णुश्चाग्रे जगत्पतिः ॥१४॥
वास्तुद्र व्यविभागेषु यानेषु च विशेषतः ।
प्रारभेत यतो मानं कल्पयेद्देवतास्ततः ॥१५॥
विद्धैश्च द्र व्यमध्यैश्च देवताभिश्च पीडिते ।
प्रत्येकं त्रिदशस्थाने यथोक्तं फलमादिशेत् ॥१६॥
शिरोर्त्तिरनलप्लोषो मरणं स्थपतेर्वधः ।
अतिसारो मरुद्व्याधिरर्थभ्रंशो भयं नृपात् ॥१७॥
कुलपीडा च महती कर्तृकारकयोरिति ।
यथाक्रमममी दोषा ब्रह्मादीनां निपीडनात् ॥१८॥
ब्रह्मानलकयोर्मध्ये यदा हस्तं तु धारयेत् ।
कर्मस्वधिगतस्तेषां पुत्रलाभो भविष्यति ॥१९॥
कर्मणः सुष्ठुनिष्पत्तिस्तिष्टतेभोगमक्षयम् ।
ब्रह्मा यमस्तयोर्मध्ये यदा हस्तं तु धारयेत् ॥२०॥
कर्ता सशिल्पिकश्चैव नचिरेण विनश्यति ।
विश्वानलकयोर्मध्ये हस्तसूत्रं यदा धृतम् ॥२१॥
सुकर्मणि मध्यान्तं निष्पन्ने पुरवृद्धिता ।
यमजलदयोर्मध्ये मध्यमं च विनिर्दिशेत् ॥२२॥
पवनो विश्वकर्मा चोभयोर्मध्ये च धारणम् ।
यदा तु तत्र कर्मान्तं शुभं तत्सर्वकामदम् ॥२३॥
नीरधनदयोर्मध्ये मध्यमं च विनिर्दिशेत् ।
एषां मध्ये यदा वत्सहस्तं तत्र यदा धृतम् ॥२४॥
अनावृष्टिभयं लोके देशभङ्गो न संशयः ।
रुद्र पवनयोर्मध्ये रुचिहस्तं तु धारयेत् ॥२५॥
तत्र लक्ष्मीवतस्तस्य कार्यसिद्धिर्न संशयः ।
विष्णुधनदयोर्मध्ये यदा पाणिकरायतः ॥२६॥
विविधास्तत्र भोगाश्च प्रजायन्ते नरस्य हि ।
ज्येष्ठादीनामथैतेषां संज्ञाभेदो विधीयते ॥२७॥
यच्च येन भवेद्द्रव्यं मेयं तदपि कीर्त्यते ।
यवाष्टकाङ्गुलैः कॢप्तः प्रकर्षेणायतः किल ॥२८॥
ज्येष्ठो हस्तः स विद्वद्भिः प्रोक्तः प्राशयसंज्ञितः ।
यः पुनः कल्पितः सप्तयवकॢप्तैरिहाङ्गुलैः ॥२९॥
तज्ज्ञैः स मध्यमो हस्तः साधारण इति स्मृतः ।
मात्रेत्यल्पं यतः प्रोक्तं हस्तश्च शय उच्यते ॥३०॥
तेन मात्राशयः स स्याद्धस्तो यः षड्यवाङ्गुलः ।
विभागायामविस्ताराः खेटग्रामपुरादिषु ॥३१॥
प्रासादवेश्मपरिखाद्वाररथ्यासभादिषु ।
मार्गाश्च निर्गमाश्चैषां सीमक्षेत्रान्तराणि च ॥३२॥
वनोपवनभागाश्च देशान्तरविभक्तयः ।
योजनक्रोशगव्यूतिप्रमाणमपि चाध्वनः ॥३३॥
प्राशयेन प्रमातव्याः खातक्रकचराशयः ।
तलोच्छ्रयान् मूलपादान् जलोद्देशानधः क्षितेः ॥३४॥
तथा दोलाम्बुशस्त्रादि पातमानविनिर्णयम् ।
शैलखातनिकेतानि सुरुङ्गामानमान्तरम् ॥३५॥
साधारणेन वाट्यध्वमानं च परिकल्पयेत् ।
आयुधानि धनुर्दण्डान् यानं शयनमासनम् ॥३६॥
प्रमाणं कूपवापीनां गजानां वाजिनां नृणाम् ।
अरघट्टेक्षुयन्त्राणि युगयूपहलानि च ॥३७॥
शिल्प्युपस्करनौछत्रध्वजातोद्यानि यानि च ।
वृसीधर्मोपकरणपटवानादिकं च यत् ॥३८॥
नल्वदण्डांस्तथा मात्राशयहस्तेन मापयेत् ।
भेदत्रयान्वितमपि प्रोक्तं हस्तस्य लक्षणम् ॥३९॥
संज्ञाभेदोऽथ सामान्यमानानां प्रतिपाद्यते ।
स्यादेकमङ्गुलं मात्रा कला प्रोक्ताङ्गुलद्वयम् ॥४०॥
पर्व त्रीण्यङ्गुलान्याहुर्मुष्टिः स्याच्चतुरङ्गुला ।
तलं स्यात्पञ्चभिः षड्भिः करपादाङ्गुलैर्भवेत् ॥४१॥
सप्तभिर्दिष्टिरष्टाभिरङ्गुलैस्तूणिरिष्यते ।
प्रादेशो नवभिस्तैः स्याच्छ्यतालो दशाङ्गुलः ॥४२॥
गोकर्ण एकादशभिर्वितस्तिर्द्वादशाङ्गुला ।
चतुर्दशभिरुद्दिष्टः पादो नाम तथाङ्गुलैः ॥४३॥
रत्निः स्यादेकविंशत्या स्यादरत्निः करोन्मितः ।
द्वाचत्वारिंशता किष्कुरङ्गुलैः परिकीर्त्तितः ॥४४॥
चतुरुत्तरयाशीत्या व्यामः स्यात्पुरुषस्तथा ।
षण्णवत्याङ्गुलैश्चापं भवेन्नाडीयुगं तथा ॥४५॥
शतं षडुत्तरं दण्डो नल्वस्त्रिंशद्धनुर्मितः ।
क्रोशो धनुःसहस्रं तु गव्यूतं तद्द्वयं विदुः ॥४६॥
चतुर्गव्यूतमिच्छन्ति योजनं मानवेदिनः ।
एकं दश शतमस्मात्सहस्रमनु चायुतम् ॥४७॥
नियुतं प्रयुतं तस्मादर्बुदन्यर्बुदे अपि ।
वृन्दखर्वनिखर्वाणि शङ्कुपद्माम्वुराशयः ॥४८॥
ततः स्यान्मध्यमन्त्यं च परं चापरमप्यतः ।
परार्धं चेति विज्ञेयं दशवृद्ध्योत्तरोत्तरम् ॥४९॥
सङ्ख्यास्थानानि कथितान्येवमेतानि विंशतिः ।
इदानीं कालसङ्ख्यायाः प्रमाणमभिधीयते ॥५०॥
दृङ्निमेषो निमेषः स्यात् तैः पञ्चदशभिः स्मृता ।
काष्ठा ताभिः कला ताभिर्मुहूर्त्तस्तैरहर्निशम् ॥५१॥
त्रिंशतैतत् त्रिकं विद्यात्क्रमादित्युत्तरोत्तरम् ।
अहोरात्रैः पुनः पञ्चदशभिः पक्ष उच्यते ॥५२॥
पक्षद्वयेन मासः स्याद्भवेन्मासद्वयादृतुः ।
ऋतुत्रयं स्यादयनं वत्सरस्त्वयनद्वयम् ॥५३॥
दशधायमिति प्रोक्तः कालः कालविदां वरैः ।
इत्युक्तमेतदखिलं करमानमत्र सम्यक्तया निगदितापि च कालसङ्ख्या ।
अन्तःपुरं जनपदामरधाममार्गैराचक्ष्महे नगरसंप्रविभागमत्र ॥५४॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे हस्तलक्षणं नाम नवमोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP