संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


अतः परं गृहादीनामप्रशस्तसमुच्छ्रितम् ।
क्रियते कथितं यस्मादेकत्र सुसमं भवेत् ॥१॥
रक्षोम्बुनाथकीनाशमरुद्दहनदिक्प्लवा ।
मध्यप्लवा च भूर्व्याधिदारिद्र य्मरकावहा ॥२॥
वह्निप्लवा वह्निभिये मृतये दक्षिणप्लवा ।
रुजे रक्षःप्लवा प्रत्यक्प्लवा धान्यधनच्छिदे ॥३॥
कलहाय प्रवासाय रोगाय च मरुत्प्लवा ।
मध्यप्लवा तु भूमिर्या सर्वनाशाय सा भवेत् ॥४॥
तुषास्थिकेशकीटत्वशङ्खभस्मोषरान्विताम् ।
कर्पराङ्गारिणीं दुष्टसत्त्वानार्यजनां त्यजेत् ॥५॥
चैत्रे शोककरं वेश्म ज्येष्ठे मृत्युप्रदायकम् ।
पशुनाशनमाषाढे शून्यं भाद्र पदे कृतम् ॥६॥
आश्विने कलहाय स्यात्कार्त्तिके भृत्यनाशनम् ।
माघे चाग्निभयाय स्यान्मासेष्वेषु न कारयेत् ॥७॥
पावकस्य पदे पृष्ठवंशस्यापि च पश्चिमे ।
पुरप्रासादकर्णे च कीलादि प्राक् प्रयोजयेत् ॥८॥
पूर्वपश्चिमदिङ्मूढं वास्तु स्त्रीनाशकृद्भवेत् ।
उदङ्मूढं न निष्पत्तिं याति सर्वं च नाशयेत् ॥९॥
यत्तु दक्षिणदिङ्मूढं जायते मरणाय तत् ।
प्राग्वास्तुनि कुर्वीत प्रासादं मन्दिरं पुरे ॥१०॥
वलितं चलितं भ्रान्तं विसूत्रं च समुत्सृजेत् ।
यत्स्यान्मुखविनिष्क्रान्तं वलितं तत्प्रकीर्तितम् ॥११॥
चलितं पृष्ठनिष्क्रान्तं दिङ्मूढं भ्रान्तमुच्यते ।
विसूत्रं कर्णहीनं स्यात्फलमेषां प्रचक्ष्महे ॥१२॥
वलिते चलति स्थानं चलिते विग्रहो भवेत् ।
भ्रान्तं योषिद्विनाशाय विसूत्रं भूरिशत्रुकृत् ॥१३॥
मूषकोत्करवल्मीकप्रान्ता वक्रा भुजङ्गवत् ।
छिन्ना भिन्ना विकर्णा च न वास्तुनि शुभा क्षितिः ॥१४॥
मूषकोत्करवत्यर्थं हन्ति वल्मीकिनी सुतम् ।
विकर्णा कुरुते कर्णरोगं छिन्ना विनाशिनी ।
भिन्ना भेदं करोत्युर्वी कुटिला मतिवक्रताम् ॥१५॥
सपादं सत्रिभागं वा सार्धं द्विगुणमेव च ।
यत्स्यान्मुखायतं वेश्म तदनिष्टफलप्रदम् ॥१६॥
यद् द्विशालं त्रिशालं वा चतुःशालमथापि वा ।
मूषया रहितं वेश्म तदनिष्ठफलप्रदम् ॥१७॥
पुरतः पृष्ठतः पार्श्वे यदि वालिन्दवर्जिता ।
गृहे न शस्यते शाला देवागारे तु शस्यते ॥१८॥
अन्यपृष्ठस्थितद्वारं वेश्म खादकमुच्यते ।
परस्परविरोधाय तद्वेश्म गृहिणोस्तयोः ॥१९॥
सशल्यं पादहीनं च समसन्धि शिरोगुरु ।
वेश्मनामिदमुद्दिष्टं मर्मदोषचतुष्टयम् ॥२०॥
वास्तुक्षेत्रस्य यत्राङ्गे यस्य वर्त्म प्रवर्तते ।
तदङ्गं वास्तुनस्तस्य च्छिन्नं तेनेति निर्दिशेत् ॥२१॥
छिन्नाङ्गं विकलं तत्स्याद्भीतिदं सर्वदोषकृत् ।
तद्भर्तुर्भज्यतेऽङ्गं तद्वेधस्तस्याफलोऽन्यथा ॥२२॥
स्वगृहद्वयमध्येन निर्वाहो यदि वर्त्मनः ।
द्वारवेधोदितान्दोषांस्तदा प्राप्नोति निश्चितम् ॥२३॥
मार्गश्चैको यदा गच्छेदुभयोर्गृहपार्श्वयोः ।
मार्गवेधस्तदा स स्याच्छोकसन्तापकारकः ॥२४॥
उत्सङ्गः पूर्णबाहुश्च हीनबाहुस्तथापरः ।
प्रत्यक्षाय इति प्रोक्तं प्रवेशानां चतुष्टयम् ॥२५॥
गृहस्य सम्मुखं यत्र द्वारं भवति वास्तुनः ।
उतसङ्ग इति स प्रोक्तः पूर्णबाहुः प्रदक्षिणः ॥२६॥
वामतो हीनबाहुः स्यात्प्रत्यक्षो वास्तु पृष्ठतः ।
चतुर्थोऽयं समुद्दिष्टः प्रवेशो वास्तुनो बुधैः ॥२७॥
उत्सङ्गाख्ये प्रवेशे स्यात्प्रजाहानिः कुटुम्बिनः ।
धनधान्यक्षयो वास्य मरणं ध्रुवं भवेत् ॥२८॥
पूर्णबाहौ पुत्रपौत्रा धनधान्यसुखानि च ।
भवन्ति वसतो नित्यं गृहिणस्तत्र वास्तुनि ॥२९॥
अल्पमित्रो गृही हीनबाहावत्यल्पबान्धवः ।
स्याद्वाल्पवित्तो जीयेत स्त्रीभिः पीड्येत वामयैः ॥३०॥
प्रत्यक्षाय प्रवेशस्तु विहितो यत्र वेश्मनि ।
तस्मिन्निवसतां पुंसां निश्चितः स्याद्धनक्षयः ॥३१॥
मूषास्वस्थानयुक्तासु शालाभेद इति स्मृतः ।
प्राप्नोति तत्र निवसन्मृत्युं दुःखं सरोगताम् ॥३२॥
उदग्दक्षिणशालासु पूर्वापरगतासु च ।
अन्यथा वा स्थितं द्वारं वधबन्धनकारकम् ॥३३॥
मूषागतान् भ्रमान्कुर्यान्न शालां प्रतिभेदयेत् ।
भ्रमभग्नासु शालासु विपद्यन्ते कुटुम्बिनः ॥३४॥
शालाभेदो भवेद्यत्र पृष्ठतः पार्श्वतोऽपि वा ।
धनधान्यक्षयस्तत्र गृहिणो जायते ध्रुवम् ॥३५॥
यत्र प्रत्यङ्मुखे शाले गृहं तत्स्याद्विकोकिलम् ।
आयुश्चतुष्पदं धान्यं वसतां तत्र नश्यति ॥३६॥
सीमाशालाप्रभिन्नस्य प्रासादस्य गृहस्य च ।
अस्थिरा जायते ऋद्धिः स्थितिश्च न भवेच्चिरम् ॥३७॥
सर्वदोषकरि ज्ञेया गर्भे चन्द्रा वलोकिता ।
मूषां विना विनाशाय कामोच्छित्त्यै गवाक्षकः ॥३८॥
यदा गण्डोऽथवा कुक्षिः पृष्ठं कक्षाथ भिद्यते ।
दायद्रयं जायते भर्तुस्तदानीमदुस्सहम् ॥३९॥
गर्भादुभयतो गण्डौ कक्षे स्तः कर्णभित्तिगे ।
दक्षिणोत्तरयोः कुक्षी पृष्ठतः पृष्ठमादिशेत् ॥४०॥
स्थापितद्वारसंरोधे गृहिणो जायतेऽश्मरी ।
द्वारे तु विहिते तस्मिन्ननर्थस्तस्य जायते ॥४१॥
पूर्वद्वारनिरोधं तु नवमागं कदाचन ।
श्रोत्ररोधेऽश्मरीदोषः कृत्तश्रोत्रेह्यनम्यता ॥४२॥
कृत्तानि यत्र चीयन्ते गवाक्षालोकनानि च ।
तत्र प्रसूतिर्न भवेन्निष्पन्नापि विनश्यति ॥४३॥
चीयमाना यदा भित्तिर्दक्षिणा स्याद्बहिर्मुखी ।
तदा व्याधिभयं विद्यान्नृपदण्डभयं तथा ॥४४॥
यदा तु पश्चिमं कुड्यं प्रयाति बहिरग्रतः ।
धनहानिं विजानीयाच्चौरेभ्यश्च भयं तदा ॥४५॥
उत्तरं तु यदा कुड्यं चीयमानं बहिर्व्रजेत् ।
गृहभर्तुश्च कर्तुश्च व्यसनं स्यात्तदा महत् ॥४६॥
यदाग्रं चीयमानायाः पूर्वभित्तेर्बहिर्व्रजेत् ।
तदा गृहपतेस्तीव्रं राजदण्डभयं भवेत् ॥४७॥
प्राग्दक्षिणो यदा कर्णश्चीयमानो बहिर्व्रजेत् ।
तत्राग्निभीतिरतुला संशयश्च प्रभोर्भवेत् ॥४८॥
बहिर्मुखो यदा गच्छेत्कर्णौ दक्षिणपश्चिमः ।
कलहोपद्र वस्तत्र स्याद् भार्यायाश्च संशयः ॥४९॥
यत्रोत्तरापरः कर्णश्चीयमानो व्रजेद्बहिः ।
पुत्रवाहनभृत्यानां भवेत्तस्मिन्नुपद्र वः ॥५०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP