संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः

देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


त्रिदशानामथाकारान् ब्रूमः प्रहरणानि च ।
दैत्यानामथ यक्षाणां गन्धर्वोरगरक्षसाम् ॥१॥
विद्याधरपिशाचानां --- यथायथम् ।
ब्रह्मानलार्चिःप्रतिमः कर्तव्यः सुमहाद्युतिः ॥२॥
स्थूलाङ्गः श्वेतषुष्पश्च श्वेतवेष्टनवेष्टितः ।
कृष्णाजिनोत्तरीयश्च श्वेतवासाश्चतुर्मुखः ॥३॥
दण्डः कमण्डलुश्चास्य कर्तव्यो वामहस्तयोः ।
अक्षसूत्रधरस्तद्वद् मौञ्ज्या मेखलया वृतः ॥४॥
कार्यो वर्धयमानस्तु जगद् दक्षिणपाणिना ।
एवं कृते तु लोके क्षेमं भवति सर्वतः ॥५॥
ब्राह्मणार्थवर्धन्ते सर्वकामैर्न संशयः ।
यदा विरूपादीनां वा कृरसोदरी ॥६॥
ब्राह्मणैर्वा भवेद्वर्णा सा नेष्टा भयदायिनी ।
निहन्ति कारकं रौद्रा दीनरूपा च शिल्पिनम् ॥७॥
कृशा व्याधिं विनाशं च कुर्यात्कारयितुः सदा ।
कृशोदरी तु दुर्भिक्षं विरूपा चानपत्यताम् ॥८॥
एतान् दोषान् परित्यज्य कर्तव्या सा सुशोभना ।
ब्रह्मणोवार्चा विधानज्ञैः प्रथमे यौवने स्थिता ॥९॥
चन्द्रा ङ्कितजटः श्रीमान् नीलकण्ठः सुसंयतः ।
विचित्रमुकुटः शम्भुर्निशाकरसमप्रभः ॥१०॥
दोर्भ्यां द्वाभ्यां चतुर्भिवा वधा युक्तो वा दोर्भिरष्टभिः ।
पट्टिशव्यग्रहस्तश्च पन्नगाजिनसंयुतः ॥११॥
सर्वलक्षणसम्पूर्णो नेत्रत्रितयभूषणः ।
एवंविधगुणैर्युक्तो यत्र लोकेश्वरो हरः ॥१२॥
परा तत्र भवेद् वृद्धिर्देशस्य च नृपस्य च ।
यदारण्ये समाने वा विधीयेत महेश्वरः ॥१३॥
एवं रूपस्तदा कार्यः कारकस्य शुभावहः ।
अष्टादशभुजो दोष्णां विंशत्या वा समन्वितः ॥१४॥
शतबाहुः कदाचिद्वा सहस्रभुज एव च ।
रौद्र रूपो गणवृतः सिंहचर्मोत्तरीयकः ॥१५॥
तीक्ष्णदंष्ट्राग्रदशनः शिरोमालाविभूषितः ।
चन्द्रा ङ्कितशिराः श्रीमान् पीनोरस्कोग्रदर्शनः ॥१६॥
भद्र मू कर्तव्यः श्मशानस्थो महेश्वरः ।
द्विभुजो राजधान्यां तु पत्तने स्याच्चतुर्भुजः ॥१७॥
कर्तव्यो विंशतिभुजः श्मशानारण्यमध्यगः ।
एकोऽपि भगवान् भद्र स्थानभेदविकल्पितः ॥१८॥
रौद्र सौम्यस्वभावश्च क्रियमाणो भवेद्बुधैः ।
उद्याद्यथा भावद्भागभगवान् सौम्यदर्शनः ॥१९॥
स एव तीक्ष्णतामेति मध्यन्दिनगतः पुनः ।
तथारण्यस्थितो नित्यं रौद्रो भवति शङ्करः ॥२०॥
स येद सौम्यावति स्थाने सौम्यो व्यवस्थितः ।
स्थानान्येतानि सर्वाणि ज्ञात्वा किम्पुरुषादिभिः ॥२१॥
प्रमथैः सहितः कार्यः शङ्करो लोकशङ्करः ।
एतद्यथावत्कथितं संस्थानं त्रिपुरद्रुहः ॥२२॥
कार्त्तिकेयस्य संस्थानमिदानीमभिधीयते ।
तरुणार्कनिभो रक्तवासाः पावकसप्रभः ॥२३॥
ईषद्बालाकृतिः कान्तो मङ्गल्यः प्रियदर्शनः ।
प्रसन्नवदनः श्रीमानोजस्तेजोन्वितः शुभः ॥२४॥
विशेषान्मुटुकैश्चित्रि मुक्तामणि भूषितः ।
षण्मुखो वैकवक्त्रो वा शक्तिं रोचिष्मतीं दधत् ॥२५॥
नगरे द्वादशभुजः खेटके षड्भुजो भवेत् ।
ग्रामे भुजद्वयोपेतः कर्तव्यः शुभमिच्छता ॥२६॥
शक्तिः शरस्तथा खड्गो मुसृण्टी मुद्गरोऽपि च ।
हस्तेषु दक्षिणेष्वेतान्यायुधान्यस्य दर्शयेत् ॥२७॥
एकः प्रसारितश्चान्यः षष्ठो हस्तः प्रकीर्तितः ।
चतुः पताका घण्टा च खेटः कुक्कुटस्तथा ॥२८॥
वामहस्तेषु षष्ठस्तु तत्र शोजर्जन करः ।
एवमायुधसम्पन्नः संग्रामस्थो विधीयते ॥२९॥
अव्यया तु विधातव्यः क्रीडालीलान्वितश्च सः ।
छागकुक्कुटसंयुक्तः शिखियुक्तो मनोरमः ॥३०॥
नगरेषु सदा कार्यः स्कन्दः परजयैषिभिः ।
खेटके तु विधातव्यः षण्मुखो ज्वलनप्रभः ॥३१॥
तथा तीक्ष्णायुधोपेतः स्रद्गामभिरलङ्कृतः ।
ग्रामेऽपि द्विभुजः कार्यः कान्तिद्युतिसमन्वितः ॥३२॥
दक्षिणा च भवेद्भक्तिर्नाम हस्ते तु कुक्कुटः ।
विचित्रपक्षः सुमहान् कर्तव्योऽतिमनोहरः ॥३३॥
एवं पुरे खेटके च ग्रामे वाभिलं शुभम् ।
कार्त्तिकेयं --- कुर्यादाचार्यः शास्त्रकोविदः ॥३४॥
अविरुद्धेषु कार्येषु खेटे याग्रामे पुरोत्तमे ।
कार्त्तिकेयस्य संस्थानमेतद् यत्नेन कारयेत् ॥३५॥
बालस्तु सुभुजः श्रीमान् स्थले केतु महाद्युतिः ।
वनमालाकुलोरस्को निशाकरसमप्रभः ॥३६॥
गृहीतसीरमुसलः कार्यो दिव्यमदोत्कटः ।
चतुर्भुजः सौम्यवक्रो नीलाम्बरसमावृतः ॥३७॥
मुकुटालङ्कृतशिरोरोहो रागविभूषितः ।
रेवतीसहितः कार्यो वनदेवः प्रतापवान् ॥३८॥
विष्णुर्वैदूर्यसङ्काशः पीतवासाः श्रियाकृतः ।
वराहो वामनश्च स्यान्नरसिंहो भयानकः ॥३९॥
कार्यो वा दाशरथी रामो जामदग्न्यश्च वीर्यवान् ।
द्विभुजोऽष्टभुजो वापि चतुर्बाहुररिन्दमः ॥४०॥
शङ्खचक्रगदापाणिरोजस्वी कान्तिसंयुतः ।
नानारूपस्तु कर्तव्यो ज्ञात्वा कार्यान्तरं विभुः ॥४१॥
इत्येष विष्णुः कथितः सुरास्वरनमस्वरनमस्त्वतः ।
त्रिदशेशः सहस्राक्षो वज्रभृत्सुभुजो बली ॥४२॥
किरीटी सगदः श्रीमाञ्श्वेताम्बरधरस्तथा ।
श्रोणिसूत्रेण महा दिव्याभरणभूषितः ॥४३॥
कार्यो राजश्रिया युक्तः पुरोहितसहायवान् ।
वैवस्वतस्तु विज्ञेयः कालेः केसं परायणः ॥४४॥
तेजसा सूर्यसङ्काशो जाम्बूनदविभूषितः ।
सम्पूर्णचन्द्र वदनः पीतवासास्तुः शुभेक्षणः ॥४५॥
विचित्रमुकुटः कार्यो वराङ्गदविभूषितः ।
तेजसा सूर्यसङ्काशः कर्तव्यो बलवाञ्छुभः ॥४६॥
धन्वन्तरिर्भरद्वाजः प्रजानीयतयस्तथा ।
दक्षार्थाः सदृशाः कार्या कार्यो रूपाणि --- रपि ॥४७॥
अर्चिष्मान् ज्वलनः कार्यः यत्कण्ठाश्वसमीरणः ।
सौम्यः कार्यस्तथा विस्या--- रुद्र शरीरिणः ॥४८॥
रक्तवस्त्रधराः कृष्णा नानाभरणभूषिताः ।
कर्तव्या राक्षसाः सर्वे बहुप्रहरणान्विताः ॥४९॥
पूर्णचन्द्र मुखा शुभ्रा बिम्बोष्ठी चारुहासिनी ।
श्वेतवस्त्रधरा कान्ता दिव्यालङ्कारभूषिता ॥५०॥
कटिदेशनिविष्टेन वामहस्तेन शोभना ।
सपद्मेन वान्तेन दक्षिणेन शुचिस्मिता ॥५१॥
कर्तव्या श्रीः प्रसन्नास्या प्रथमे यौवने स्थिता ।
गृहीतशूलपरिघपाहिकापट्टिसध्वजा ॥५२॥
बिभ्राणा खेटकोपेतलघुखड्गं च पाणिना ।
घण्टामेकां च सौवर्णीं दधती घोररूपिणी ॥५३॥
कौशिकी पीतकौशेयवसना सिंहवाहना ।
सेचोष्टौ --- विधातव्याः शुक्लाम्बरधराः --- ॥५४॥
शोभमानाश्च मुकुटैर्नानारत्नविभूषितैः ।
सदृशावश्विनौ कार्यौ लोकस्य शुभदायकौ ॥५५॥
शुक्लमाल्याम्बरधरौ जाम्बूनदविभूषितौ ।
त्रिपञ्चदशपूतिरस्येदं भृङ्गवन्मेचकप्रभाम् ॥५६॥
वैदूर्यशकंसङ्काशा हरितश्मश्रवोऽपि च ।
रोहिता विकृता रक्तलोचना बहुरूपिणः ॥५७॥
नागैः शिरोरुहालीनैर्विरागाभरणाम्बराः ।
कार्याः पिशाचा भूताश्च परुषासत्यवादिनः ॥५८॥
बहुप्रकारमन्दहा विरूपा विकृताननाः ।
घोररूपा विधातव्या ह्रस्वा नानासुधाश्च ते ॥५९॥
सुभीमविक्रमा भीमा सङ्घा यज्ञोपवीतिनः ।
वर्मभिः शाटिकाचित्रैर्भूताः कार्याः सदा बुधैः ॥६०॥
येऽपि नोक्ता विधातव्यास्तेऽपि कार्यानुरूपतः ।
यस्य यस्य च यल्लिङ्गमसुरस्य सुरस्य च ॥६१॥
यक्षराक्षसयोर्वापि नाना गन्धर्वयोरपि ।
तेन लिङ्गेन कार्यः स यथा साधुविजानता ॥६२॥
प्रायेण वा वीर्यवन्तो हि दानवाः क्रूरकर्मिणः ।
किरीटिनश्च कर्तव्या विविधायुधपाणयः ॥६३॥
तेभ्योऽपीषत्कनीयांसो दैत्याः कार्या गुणैरपि ।
दैत्येभ्यः परिहीणास्तु यक्षाः कार्या मदोत्कटाः ॥६४॥
हीनास्तेभ्योऽपि गन्धर्वा गन्धर्वेभ्योऽपि पन्नगाः ।
नागेभ्यो राक्षसा हीनाः क्रूरविक्रिमतसूषिणः ॥६५॥
विद्याधराश्च यक्षेभ्यो हीनदेहधराः स्मृताः ।
चित्रमाल्याम्बरधराश्चित्रचर्मासिपाणयः ॥६६॥
नानावेषधरा घोरा भूतसङ्घा भयानकाः ।
पिशाचेभ्योऽधिकाः स्थूलास्तेजसा परुषास्तथा ॥६७॥
अन्यूनाधिकरूपांश्च कुर्वीत प्रायशः शुभान् ।
दिव्यैरासणाभरणैश्च युक्ताः ।
कृतीथविदधीत यथोदितांस्तान् ॥६८॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे देवादिरूपप्रहरणसंयोगलक्षणाध्यायो नाम सप्तसप्तति

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP