संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः

तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


पुरातनं नवं वापि कृतं वाथार्धनिर्मितम् ।
देवतानां नृपाणां च तोरणं निपतेद्यदि ॥१॥
भज्यते दह्यते वाथ नमते सज्जतेऽथवा ।
दवविद्युज्जलाद्यैर्वा हन्यते तत्कदाचन ॥२॥
तत्र दोषान् प्रवक्ष्यामो दोषप्रशमनानि च ।
तोरणं निपतेत्सर्वं शिरो वास्य कथञ्चन ॥३॥
राज्ञां सेनापतीनां च प्रतीहारपुरोधसाम् ।
प्रधानाश्वगजानां च विप्रपौरजनस्य च ॥४॥
तत्र मृत्युभयं विद्याद्दुर्भिक्षं चापि निर्दिशेत् ।
तस्मात्प्रशमहेत्वर्थं विधिं कुर्यादिमं बुधः ॥५॥
ऋत्विग्भिर्ब्राह्मणैर्धीरः स्थपतिः सपुरोहितैः ।
रात्रौ होमबलिं कुर्यान्नगरे तु चतुर्दिशम् ॥६॥
कर्णचत्वरशृङ्गाटेष्ववनीपालवेश्मनि ।
स्थानेष्वेतेषु विप्राद्यैर्वेदिं निष्पाद्य साक्षताम् ॥७॥
कलशैर्द्र व्यगन्धैश्च श्वेतमाल्याम्बरैर्वृताम् ।
तत्र होमं प्रकुर्वीत शान्तिकं बलिमेव च ॥८॥
एवं प्रशमयेत्सर्वं यत्किञ्चिद्दुरितोत्थितम् ।
तोरणं भज्यते चेत्तद्रा ष्ट्रभङ्गं विनिर्दिशेत् ॥९॥
अस्य प्रशमहेत्वर्थं पूर्वोक्तं कारयेद्विधिम् ।
तदेवैकं प्रदह्येत तोरणं नगरेर्यदि ॥१०॥
तदा वह्निभयं ब्रूयाद्रा ष्ट्रस्य नगरस्य च ।
सबाह्याभ्यन्तरं विप्रैर्विधिमेनं प्रयोजयेत् ॥११॥
नते वा शीर्णभग्ने वा व्याधिपीडां विनिर्दिशेत् ।
होमं बलिं च कुर्वीत पुनःसंस्कारमस्य च ॥१२॥
वातेन विद्युता वापि तोरणं यदि भज्यते ।
तस्मिन्रोगाः प्रवर्तन्ते कुलपीडाधनक्षयाः ॥१३॥
शान्तिकर्म प्रकुर्वीत ततः शान्तिकरं भवेत् ।
एवमादौ कृते पश्चात्पुनः संस्कारयेद्बुधः ॥१४॥
पूर्वावयवनिर्माणाद्विशिष्टं रचयेत्पुनः ।
दृढसन्धिनिगूढं च दृढद्र व्यसमन्वितम् ॥१५॥
विविधं रूपकर्माढ्यं सुसंस्थानं मनोरमम् ।
अकुब्जमनतं चैव पूर्वोत्कृष्टतरं तथा ॥१६॥
नियुक्ते तु पुनः शान्तिं ब्राह्मणान् वाचयेत्ततः ।
पुराणे वा नवे वाथ कृते वार्धकृतेऽथवा ॥१७॥
प्रासादे वा गृहे वापि कपोतः प्रविशेद्यदि ।
तत्र दोषाः प्रपद्यन्ते शान्तिकर्म तथैव च ॥१८॥
कालमूर्तिः कपोतश्च पापमूलकरण्डकम् ।
विहङ्गापशदो हीनः कृष्णचारी विहिङ्गमः ॥१९॥
चतुर्विधः समाख्यातो मुनिभिः स तपोधनैः ।
श्वेतो विचित्रकण्ठश्च विचित्रोऽन्योऽथ कृष्णकः ॥२०॥
कपोतो भवने यस्य श्वेतवर्णो विशेत् क्वचित् ।
कीर्त्तिविद्याधनं पुण्यं शीघ्रं च नयते क्षयम् ॥२१॥
नित्यं रोगाः प्रवर्धन्ते शिशुपीडा च जायते ।
चित्रकण्ठो हरेज्जायां पुत्रान्सर्वान् विचित्रकः ॥२२॥
सर्वाः सिद्धीश्च कृष्णाङ्गः प्रदुष्य च कुलं हरेत् ।
रोगाः सर्वेऽपि वर्धन्ते विपदो व्यसनानि च ॥२३॥
बन्धनानि च जायन्ते प्रविष्टे तु कपोतके ।
तस्माद्यत्नपरो भूत्वा प्रायश्चित्तं समाचरेत् ॥२४॥
स्नातस्त्रिकालशुद्धात्मा सोपवासो जितेन्द्रि यः ।
देवपूजाचनरतो नित्यं दानपरः शुचिः ॥२५॥
यवान्नप्रायभोजी च नित्यं होमपरायणः ।
गुरुविप्ररतश्चैव श्वेतमाल्याम्बरस्तथा ॥२६॥
गृही सगृहिणीकस्तु व्रतमेतत्समाचरेत् ।
श्वेतके पञ्चरात्रं च चित्रकण्ठे दशैव तत् ॥२७॥
चित्रे पञ्चदशाहानि कृष्णे दिवसविंशतिः ।
व्रतस्थेन तु कर्तव्यमग्निकार्यं मनोरमम् ॥२८॥
यथालाभं समादाय तस्य देहं सपिच्छकम् ।
निकृन्तेत् खण्डखण्डानि विभागाष्टशतानि तम् ॥२९॥
घृतप्लुतानि पुण्यानि मधुलाजान्वितानि च ।
पञ्चवारुणसंज्ञेन वह्निकार्ये कृतेऽक्षतैः ॥३०॥
ततश्च मांसं जुहुयाद्धव्यमात्रेण मन्त्रवित् ।
हुते क्रव्ये ततः क्षीरं दधिमध्वाज्यमेव च ॥३१॥
संपूजयेद्ग्रहान् सर्वान् ब्राह्मणान्वाचयेत् ततः ।
स्ववित्तपादं श्वेते तु विप्रेभ्यः प्रतिपादयेत् ॥३२॥
वित्ताधं चित्रकण्ठे तु पादोनं सर्वचित्रके ।
कृष्णे सर्वधनत्यागः कर्तव्यो ब्राह्मणात्पुनः ॥३३॥
एवं शान्तिर्भवेद्गेहे सर्वदोषक्षयावहा ।
महतीं श्रियमाप्नोति धनलाभश्च जायते ॥३४॥
पुत्रैः पौत्रैर्वृद्धिमाप्नोत्यनन्तामायुर्दीर्घं प्राप्नुयात्संयतात्मा ।
एतत्कृत्वा मुच्यते सर्वपापैर्मेघैर्यद्वच्छारदः शीतरश्मिः ॥३५॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे तोरणभङ्गकपोतप्रवेशशान्तिका नाम षट्चत्वारिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP