राजगृहं नाम त्रिंशोऽध्यायः - ५१ ते १००
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
स्तम्भविंशतिसंयुक्तो द्वितीयः स्यादलिन्दकः ।
स्यादष्टाविंशतिस्तम्भस्तृतीयः स्याप्यलिन्दकः ॥५१॥
षट्त्रिंशता चतुर्थः स्यादलिन्दो भूषितो धरैः ।
पञ्चमः स्याच्चतुश्चत्वारिंशता भूषितो धरैः ॥५२॥
द्वापञ्चाशद्धरः षष्ठः सर्वेऽप्येतेऽस्य भागिकाः ।
भागार्धं शस्यते भित्तिः सर्वतः सुदृढा घना ॥५३॥
सार्धभागं परित्यज्य भागत्रितयविस्तृतः ।
कर्णप्राग्ग्रीवकश्च स्याद्भागमेकं च निर्गमः ॥५४॥
भद्र मस्यापि कर्तव्यं भागनिर्गमविस्तृतम् ।
मध्ये भद्रं विधातव्यं भागद्वयविनिर्गतम् ॥५५॥
अस्यापि भद्रं मध्ये स्याद्भागत्रितयविस्तृतम् ।
भागिको निर्गमश्चास्य तदन्तर्भागनिर्गतम् ॥५६॥
भागविस्तारसंयुक्तं भद्र मन्यत्प्रकल्पयेत् ।
दिक्षु सर्वास्वयं प्रोक्तो विधिर्भद्र प्रकल्पने ॥५७॥
स्तम्भानामस्य कर्तव्यं मध्ये षण्णवतं शतम् ।
भद्रे ष्वेषु च सर्वेषु भवेत् षष्ट्यधिकं शतम् ॥५८॥
समेन प्रविभागेन स्तम्भानामेकसङ्ख्यया ।
इत्थं समस्तस्तम्भानां षट्पञ्चाशं शतत्रयम् ॥५९॥
किन्तु जङ्घा भवेदस्य भूमिकात्रितयोन्मिता ।
शत्रुमर्दनसंज्ञस्य भाम्नो लक्ष्माथ कथ्यते ॥६०॥
पृथ्वीजयसमं मध्ये भित्तिश्चापि तथाविधा ।
सार्धं भागं परित्यज्य भागेनायतविस्तृतम् ॥६१॥
भद्रं विदध्यात्तन्मध्ये भगत्रितयविस्तृतम् ।
भद्र मेव विधातव्यं भागत्रितयनिर्गतम् ॥६२॥
पार्श्वयोर्भागिकं भद्र मायत्यां विस्तरेण च ।
भागत्रितयविस्तारं भागेनैकेन निर्गमम् ॥६३॥
मध्यभद्रं ततोऽपि स्याद्भागेनायतविस्तृतम् ।
क्रमोऽयं दिक्षु सर्वासु विधातव्योऽस्य सिद्धये ॥६४॥
ऊर्ध्वंपृथ्वीजयस्येव कार्यमस्यापरं पुनः ।
प्रतिभद्रं चतुश्चत्वारिंशत्स्तम्भसमन्वितम् ॥६५॥
मध्ये स्तम्भशतं चास्य विधेयं सुदृढं शुभम् ।
षट्सप्ततिस्तम्भशतद्वयमस्य भवेदिति ॥६६॥
पञ्चानामपि चैतेषां हस्ताष्टशतमुत्तमम् ।
मानमुत्सेधविस्तारात्कर्तव्यं श्रियमिच्छता ॥६७॥
मध्यमाधमयोर्मानं कीर्तितं पृथिवीजये ।
राज्ञः क्रीडार्थमन्यच्च कथ्यते गृहपञ्चकम् ॥६८॥
क्षोणीवि भूषणं त्वाद्यं पृथिवीतिलकं परम् ।
प्रतापवर्धनं चान्यच्छ्रीनिवासं ततोऽपि च ॥६९॥
लक्ष्मीविलाससंज्ञं च पञ्चमं परिकीर्तितम् ।
चतुरश्रीकृते क्षेत्रे दशभागैर्विभाजिते ॥७०॥
चतुष्को भागविस्तीर्णो मध्ये कार्यश्चतुर्धरः ।
बहिश्च भागिकोऽलिन्दस्तदन्तेंऽशत्रयायताः ॥७१॥
कर्णप्रासादकाः कार्या भागत्रितयविस्तृताः ।
तेषां षड्दारुकं मध्ये भित्तिर्भागार्धसम्मिता ॥७२॥
तद्बहिर्भागनिष्क्रान्तो भद्रे भागं च विस्तृतः ।
प्राग्ग्रीवत्रयसंयुक्तो भागिकालिन्दवेष्टितः ॥७३॥
अर्ध भागिकभित्त्या च चतुष्को वेष्टितो भवेत् ।
प्रासादोऽयं मनोहारी भवेदवनिशेखरः ॥७४॥
चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते ।
चतुष्को भागिको मध्ये बाह्यालिन्दौ च भागिकौ ॥७५॥
नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत् ।
षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ॥७६॥
ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः ।
भद्रे भागायतो भागविनिष्क्रान्तश्चतुर्दिशम् ॥७७॥
चतुष्को भागिकाऽलिन्दवेष्टितश्च विधीयते ।
अस्य भद्र त्रयं कार्यं भागविस्तारनिर्गमम् ॥७८॥
अर्धभागिकभित्त्या च वेष्टितं तद्विधीयते ।
कर्णे कर्णेऽस्य विस्तीर्णे द्वे भद्रे भागनिर्गते ॥७९॥
प्रासादमेवं भुवनतिलकं परिचक्षते ।
चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते ॥८०॥
चतुष्को भागिको मध्ये चतुःस्तम्भो विधीयते ।
तद्बहिर्भागिकोऽलिन्दो द्वितीयोऽपि अ भागिकः ॥८१॥
नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत् ।
षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ॥८२॥
ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः ।
भद्रे भागायतो भद्र विनिष्क्रान्तश्चतुर्धरः ॥८३॥
चतुष्को भागिकालिन्दद्वयेन परिवेष्टितः ।
त्रिभागविस्तृतं भद्रं तद्बहिर्भागनिर्गतम् ॥८४॥
भागिकं प्रतिभद्रं च कुर्यादुभयतः समम् ।
भागार्धं बाह्यतो भित्तिर्भद्र स्य परितो भवेत् ॥८५॥
विधिरेष विधातव्यो दिक्ष्वेवं चतसृष्वपि ।
विलासस्तबको नाम प्रासादोऽयं प्रकीर्तितः ॥८६॥
कर्णप्राग्ग्रीवकौ द्वौ द्वौ शालाप्राग्ग्रीवकौ यदा ।
स्यातामस्य तदा कीर्त्तिपताकः परिकीर्तितः ॥८७॥
अस्यैव पीठे निर्मुक्तशालाभिः परितोऽष्टभिः ।
अन्योन्यशालासंबद्धे यदासाबेव दीयते ॥८८॥
कर्णप्रासादकोपेतः कोणैः शालोज्झितैर्युतः ।
प्रासादसुन्दरो ज्ञेयस्तदा भुवनमण्डनः ॥८९॥
एते प्रोक्तास्तलच्छन्दा जङ्घासंवरणादिकम् ।
भूमिमानादिकं यच्च तत्पृथ्वीजयवद्भवेत् ॥९०॥
इदानीं कथ्यते लक्ष्म क्षोणीभूषणवेश्मनः ।
पञ्चपञ्चाशता हस्तैः कल्पिते चतुरश्रके ॥९१॥
विभक्ते चाष्टभिर्भागैश्चतुष्को भागिकः स्मृतः ।
चतुर्भिरन्वितः स्तम्भैरलिन्दश्चास्य भागिकः ॥९२॥
युक्तो द्वादशभिः स्तम्भैर्विंशत्या च द्वितीयकः ।
स्यादष्टाविंशतिधरस्तृतीयश्चाप्यलिन्दकः ॥९३॥
भित्तेरप्यर्धभागेन सार्धं भागं विमुच्यते ।
भागपञ्चकविस्तीर्णं भद्रं भागेन निर्गतम् ॥९४॥
तन्मध्यभद्र मन्यच्च भागत्रितयविस्तृतम् ।
भागेन निर्गतं कार्यं भद्र मन्यत्ततोऽपि च ॥९५॥
भागेन विस्तृतं कार्यं भागेनापि च निर्गतम् ।
दिक्षु सर्वासु कर्तव्यो विधिरेषोऽस्य सिद्धये ॥९६॥
मध्यस्तम्भैश्चतुःषष्ट्या संयुक्तं सारदारुजैः ।
प्रतिभद्रं धरैः कार्यमष्टादशभिरन्वितम् ॥९७॥
षट्त्रिंशं शतमेवं स्यात्स्तम्भानामिह सर्वतः ।
चतुर्द्वारमिदं कार्यं यशःश्रीकीर्तिवर्धनम् ॥९८॥
पृथिवीतिलकस्याथ लक्षणं परिकीर्त्यते ।
चत्वारिंशत्करे क्षेत्रे भागैर्भक्तेऽर्धषष्ठकैः ॥९९॥
भागिकः स्याच्चतुष्कोऽन्तश्चतुःस्तम्भविभूषितः ।
अलिन्दोऽपि च भागेन स्तम्भैर्द्वादशभिर्युतः ॥१००॥
N/A
References : N/A
Last Updated : November 26, 2017
TOP