गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः - १०१ ते १४०
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
यदि भारतुलैकापि मध्ये विद्धा कथञ्चन ।
तदा वराङ्गं भज्येत धनं च परिहीयते ॥१०१॥
भित्तिभेदो न कर्तव्यस्तुलाग्रैरखिलैरपि ।
कुर्याद् ब्रह्मपदन्यस्तो भारपट्टः कुलक्षयम् ॥१०२॥
अयुक्तयोर्युक्तयोर्वा सन्धिश्चेद्भारपट्टगे ।
सन्धौ स्यात्तत्सुतो ज्येष्ठः कर्तुश्चापि विनश्यति ॥१०३॥
अनुवंशं न भुञ्जीत न शयीत कदाचन ।
भुञ्जानस्यार्थनाशः स्याच्छयानस्य महारुजः ॥१०४॥
नाशोऽनुवंशं रोगाः स्युस्तिर्यक्स्थे रक्षसो भयम् ।
शयनागारविन्यस्ते मरणं नागदन्तके ॥१०५॥
कर्णावात्पक्षिराङ्घण्टाध्वजच्छत्रकुमारकान् ।
सिंहकर्णकपोतालिं गृहेषु परिवर्जयेत् ॥१०६॥
इन्द्र कीलं शुक्रं तुम्बीमर्धवंशं च वेश्मनि ।
न कुर्यात्तत्र विहिताः सर्वदोषावहा यतः ॥१०७॥
अतिक्षिप्रचिरोत्पन्नं कृशद्र व्यमपाहितम् ।
अप्रतिष्ठितसंस्थानं गृहं नमति पञ्चधा ॥१०८॥
अतिस्थूलेन हस्वेन शरीरेण यथा नरः ।
विरूपो दुवलश्चव तथा द्र व्येण मन्दिरम् ॥१०९॥
जीर्णं घुणकृतं मिश्रं हीनं वक्रं विधिच्युतम् ।
चण्डं तुण्डं वक्रकोणं सन्धिविद्धाल्पमूलके ॥११०॥
वज्रमध्यं स्थूलमूलं कुक्षिभिन्नं च दारु यत् ।
भिन्नमूलं कूर्मपृष्ठं पक्षहीनं च वर्जयेत् ॥१११॥
पातितान्वर्जयेद्वृक्षान् द्विपाश्वाग्निजलानिलैः ।
प्रभूतपक्षिनिलयान् काककौशिकसेवितान् ॥११२॥
मधुग्रहपिशाचाहिदुष्टांश्चैत्यश्मशानजान् ।
चतुष्पथत्रिकमहानदीसङ्गममार्गजान् ॥११३॥
देवतायतनेजातानूर्ध्वशुष्कान् क्षतच्छदान् ।
वल्लीपिनद्धान्सुषिरकोटरग्रन्थिसङ्कुलान् ॥११४॥
याम्यापराशापतितांस्त्यजेत्कण्टकिनोऽपि च ।
कपित्थोदुम्बराश्वत्थशिरीषवटचम्पकान् ॥११५॥
कोविदारधवारिष्टश्लेष्मातकविभीतकान् ।
किञ्च सप्तच्छदक्षीरिफलदांश्च द्रुमांस्त्यजेत् ॥११६॥
मर्माणि यत्र पीड्यन्ते द्वारैर्भित्तिमिरेव वा ।
दारिद्रयं कुलहानिं वा गृहिणस्तत्र निर्दिशेत् ॥११७॥
स्तम्भैर्विनश्यति स्वामी तुलाभिः स्त्रीवधो ध्रुवम् ।
सङ्ग्रहैर्बन्धुनाशः स्याज्जयन्तीभिः स्नुषावधः ॥११८॥
मर्मस्थानस्थितैः कायैर्भर्तुः कायो निपीड्यते ।
मर्मस्थैः सन्धिपालैस्तु सुहृद्विश्लेषमादिशेत् ॥११९॥
गृहपीडा नागदन्तैर्नागपाशैर्धनक्षयः ।
कापिच्छकैस्तु प्रेष्याणां क्षयं मर्मस्थितैर्वदेत् ॥१२०॥
षड्दारुकान्यनुसरागवाक्षालोकनानि च ।
मर्मस्थाननिविष्टानि जनयन्ति महाभयम् ॥१२१॥
स्तम्भैर्वा द्वारमध्यैर्वा तुलाभिर्नागपाशकैः ।
वातायनैर्नागदन्तैर्द्वारमध्ये निपीडिते ॥१२२॥
व्याधयः संप्रवर्धन्ते धननाशः कुलक्षयः ।
राजदण्डभयं च स्यादपत्यानां च पीडनम् ॥१२३॥
षड्दारुकाणां मध्येषु द्वारमध्येषु वा पुनः ।
कर्णद्र व्यादिभिर्विद्धेष्वेतदेवादिशेत् फलम् ॥१२४॥
संविद्धा नागदन्तैर्या स्तम्भैर्वातायनैस्तथा ।
शय्या शस्त्राद्भयं भर्तुः कुर्यात्तस्करतोऽपि वा ॥१२५॥
गृहमध्ये कृत द्वारं द्र व्यकोशविनाशनम् ।
आवहेत्कलहं भर्तुर्भार्यां वास्य प्रदूषयेत् ॥१२६॥
द्र व्येणैकोत्तरेणापि महामर्मणि पीडिते ।
सर्वस्वनाशो गृहिणो मरणं वा ध्रुवं भवेत् ॥१२७॥
द्वारराम्भतुलालिन्दश्च यदोषैः समीरितैः ।
विसूत्रे नागदन्तेऽपि तच्छून्यं जायते गृहम् ॥१२८॥
विभागपदहीनेषु रूपस्थानेषु वास्तुषु ।
यक्षमातृक्रियाद्येषु रोगान्मृत्युर्न संशयः ॥१२९॥
कटुकण्टकिदुर्गन्धिगुह्यकाद्याश्रयान् द्रुमान् ।
न धारयेत् समीपस्थान् पुरप्रासादवेश्मनाम् ॥१३०॥
बदरी कदली चैव दाडिमी बीजपूरिका ।
प्ररोहन्ति गृहे यत्र तद्गृहं न प्ररोहति ॥१३१॥
द्र व्यं द्र व्याधिकं हन्ति कुलमायामतोऽधिकम् ।
उच्छ्रयाभ्यधिकं पूजां सन्ततिं विस्तराधिकम् ॥१३२॥
स्तम्भाङ्गैर्भित्तिभिः पट्टैः शीर्षकैर्भवनैस्तथा ।
आलोकनातोरणाद्यैश्छाद्यकैः कन्दकूटकैः ॥१३३॥
हीरशाखोत्तमाङ्गैश्च तुलाभिः सन्धिपालकैः ।
अर्गलाग्रैर्वेदिकाभिर्व्यालैर्जालैश्च नूतनैः ॥१३४॥
घातितैः पातितैर्नष्टैर्जायते गृहिणो ध्रुवम् ।
व्याधिदारिद्र य्दुःखार्तिर्निर्धनत्वं च जायते ॥१३५॥
उच्चच्छाद्यं छिद्र गर्भं भ्रमितं वमितं मुखे ।
हीनमध्यं नष्टसूत्रं शल्यविद्धं शिरोगुरु ॥१३६॥
भ्रष्टालिन्दकशोभं च विषमस्थं तुलातलम् ।
अन्योन्यद्र व्यविद्धं च कुपदप्रविभाजितम् ॥१३७॥
हीनभित्त्युत्तमाङ्गं च विनष्टं स्तम्भभित्तिकम् ।
भिन्नशालं त्यक्तकण्ठं निष्कन्दं मानवर्जितम् ॥१३८॥
विकृतं च गृहं भर्तुरनिष्टफलदायकम् ।
तस्माद्दोषानिमांस्त्यक्त्वा गृहं कुर्याच्छुभावहम् ॥१३९॥
एवंविधं दोषकरं गृहं स्याद्भर्तुश्च कर्तुश्च यतस्तदेते ।
ज्ञेयाः सदा शिल्पिभिरप्रमत्तैस्त्याज्याश्च दोषाः शुभकीर्तिकामैः ॥१४०॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP