समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः - १५१ ते १६४
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
सहस्राणि निकेतानां सङ्ख्यया सप्तसप्ततिः ।
सविंशतिः पञ्चशती त्रयोदशभिरीरिता ॥१५१॥
अष्टात्रिंशत्सहस्राणि तथा सप्तशतानि च ।
स्युश्चतुर्दशभिः षष्ट्या वेश्मनामन्वितानि च ॥१५२॥
स्यात्पञ्चदशसाहस्री शतैः पञ्चभिरन्विता ।
मूषाभिः पञ्चदशभिश्चत्वारि भवनानि च ॥१५३॥
स्युः सहस्राणि चत्वारि तद्वदष्टौ शतानि च ।
तथा षोडशमूषाणां चत्वारिंशच्च पञ्च च ॥१५४॥
सहस्रं सप्तदशभिः शतमेकं च वेश्मनाम् ।
चत्वारिंशच्च वेश्मानि भवन्ति परिसङ्ख्यया ॥१५५॥
शतं नवत्यभ्यधिकमष्टादशभिरुच्यते ।
भवत्येकोनविंशत्या मूषाणां वेश्मविंशतिः ॥१५६॥
एकमेव गृहं मूषाविंशतेर्वहनाद्भवेत् ।
सङ्ख्येयं दशशालानां मूषाभेदप्रचारतः ॥१५७॥
प्रयुतं चत्वार्ययुतान्यष्टसहस्राणि पञ्च शतानि च ।
षट्सप्ततिर्गृहाणि च दशशालेष्वेकसङ्ख्येयम् ॥१५८॥
चतुःशालादिगेहानि यावन्त्यादशशालतः ।
चतुर्गुणानि प्रत्याशं तान्यलिन्देन निर्दिशेत् ॥१५९॥
एकद्वित्रिचतुःशालवेश्मनां सङ्गमान्मिथः ।
गृहाणि दशशालान्तान्येवमुक्तानि विस्तरात् ॥१६०॥
समारभ्य चतुःशालं दशशालान्तवेश्मनाम् ।
सङ्ख्यामिदानीमैक्येन सर्वेषामभिदध्महे ॥१६१॥
मूषाभेदेन लक्षाणि स्युस्त्रयोदश वेश्मनाम् ।
सहस्राण्यष्टनवतिस्तथा वेश्मानि षोडश ॥१६२॥
मूषासंस्थानभेदेन भिन्नानां वेश्मनां पुनः ।
जायन्ते कोटिशो भेदा यस्मान्नोक्तानि तान्यतः ॥१६३॥
इत्थं चतुःशालमुखानि वेश्मान्युक्तानि यावद्दशशालमत्र ।
शालाप्रभेदेन मिथोऽभिषङ्गात्सङ्ख्या च तेषामुदिता यथावत् ॥१६४॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP