संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः

मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


कुम्भकः सार्धभागेन तदर्धेन म--- ।
---पञ्जरात् ।
त्रिभागेन तु भागस्य अष्टशृङ्गस्य पक्षकः ।
नष्टशृङ्गस्य शृङ्गस्य चान्तरे सलिलान्तरम् ॥
अन्योन्यं शृङ्गनिष्कासो भागेनैकेन शस्यते ।
दशभागायतं भद्रं चतुर्थांशेन निर्गम ॥
एवमेष तलच्छन्दः कथितः सुरसुन्दरे ।
ऊर्वमानमथ ब्रूमो भागशुद्ध्या यथाक्रमम् ॥
पीठादारभ्य विस्तारो द्विगुणा स्यात्समुन्नतिः ।
उपपीठेऽप्यलंकुर्याद्भागमेकं समुन्नतम् ॥
पदेन पादहीनेन द्वारसमुन्नतिः ।
उच्छ्रितिर्जाड्यकुम्भस्य सार्धभागा विधीयते ॥
कलशोत्तरपत्रे च पादहीनपदोन्नते ।
अस्यादूर्ध्वं तु कर्तव्या पदार्धं ग्रासपट्टिका ॥
आयपीठोच्छदा प्रोक्ता मूलभूतोभिवास्तुनः ।
खुरकश्च पदार्धेन सार्धभागे कुम्भपूरकः ॥
भागेनैकेन कलशः समवृत्तोऽतिसुन्दरः ।
भागं सपादं कुर्वीत मेखलान्तरपत्रके ॥
षड्भागेनु च्छ्रिता जङ्घा भागार्धं ग्रासपट्टिका ।
कर्णे चैकेन भागेन भागार्धं कुणपो भवेत् ।
भागेन हीरकं कुर्याद्यथा शोभा प्रजायत ।
मेखलान्तरपत्रे च सार्धभागेन कारयेत् ।
ऊर्ध्वतः पदयोर्मध्ये स्यात्सार्धद्वादशांशकम् ।
तन्मध्ये सार्धभागं तु राजसेनं सपट्टकम् ॥
द्वौ भागौ वेदिका भागस्यार्धमासनपट्टकः ।
भागं चन्द्रा वलोकं स्यात् स्तम्भमासनमूर्धनि ॥
निवेशयेत्पञ्चभागं भरणं भागिकं ततः ।
भागमेकं समुच्छ्रायां शीर्षकं द्विगुणायतम ॥
पट्टस्य कुर्यादुत्सेधं भागमर्धसमन्वितम् ।
सार्धभागद्वयं बाह्यं तद्रू पं दूतावलं छिवितम् ॥
द्वौ भागौ छाद्यकस्योर्ध्वे कार्या वासनपट्टिका ।
विराजमाना सा कार्या रूपग्रासवरालकैः ॥
मेखलान्तरपत्रेषु तु भागाद्रू पसमन्विते ।
भागद्वयेन कर्तव्या द्वितीया मेखला बुधैः ॥
कूटान्यतः परं कुर्यात्कर्मयुक्तानि सर्वतः ।
कूटेषु कुर्यात्प्रत्येकं सिंहकुम्भसमन्वितम् ॥
उरोमञ्जरिका तानि भवत्येव यथाक्रमम् ।
अष्टाण्डकत्रयान्तेषु षडण्डं स्याच्चतुष्टयम् ।
चतुरण्डं द्वयं कृत्वा त्वेवं कर्णे विदुर्बुधाः ।
नव कुण्डानि तुल्यानि विस्तारेण पदद्वयम् ।
साधं भवति प्रत्येकं सार्धमुच्चैः पदद्वयम् ।
एवं निकर्त एकैकं स्यात्तत्पदं वांशदण्डकम् ॥
सिंहकर्णः षडुच्छ्रायो भद्रे स्यात्प्लवविस्तृतिः ।
द्वितीयश्चानुदन्तश्चा शोभितश्चारुकर्मणा ॥
तृतीयो द्विपदः कार्यः सिंहकर्णो मनोरमः ।
विस्तारो मूलमञ्जर्याश्चतुर्दशपदो भवेत् ।
भागसप्तदशोच्चे तु मातृभिः पद्मकोशवत् ।
स्कन्धश्चाष्टपदः प्रोक्तो ग्रीवा सार्धपदोच्छ्रिता ॥
द्विपदश्चाण्डकोत्सेधश्चन्द्रि कार्धपदोन्नतः  ।
कलशं त्रिपदं प्राहुर्मातुलिङ्गस्य मुद्भवम् ॥
मध्ये तु मूलमञ्जर्याः कुर्वीत शिखरत्रयम् ।
सुरेखं सुप्रसन्नं च सर्वदेशिविभूषितम् ॥
षट्पञ्चाशं भवेदस्मिन्नण्डकानां शतद्वयम् ।
एवं श्रेष्ठोऽयमाख्यातः प्रासादोऽण्डकमानतः ॥
सप्तशतमेकान्नसप्तत्या युतं स्यान्मध्यमे पुनः ।
एकोत्तरं शतं प्राहुरण्डकानां कनीयसाम् ॥
मन्दारकुसुमाकाराण्यानि सुरसुन्दरे ।
कुर्यादेनं प्रासादमीदृशं सुरसुन्दरम् ॥
स वैरिञ्चं युगशतं सूर्यलोके महीयते ।
सुरसुन्दरः ।
नन्द्यावर्तमथ ब्रूमः प्रासादं नृपवृद्धिदम् ॥
भूषितं मनानागकन्याभिर्वल्लभं पृथिवीभुजाम् ।
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥
पदद्वयमिदं यत्र नादाय ब्रह्मणः पदात् ।
वृत्तं समालिखेद्गर्भा वस्मैलं च तुलं भवेत् ॥
भागेन च तुलो भित्तिर्भागेन स्याद्भ्रमन्तिका ।
भागेन बाह्यभित्तिः स्यात्पदपञ्चकवर्जिता ॥
कन्दे विभागं कुर्वीत पुष्पशेखरकं ततः ।
द्विपदा बाह्यतः कर्णा विधातव्यास्तु वर्तुलाः ॥
यथागात्रं विधातव्याः स्वस्तिकाकृतयश्च ते ।
चत्वारो रथिकाकन्दो कोणे कर्णे चतुष्टयम् ॥
पञ्चभागायतं भद्रं सार्धभागविनिर्गमम् ।
भद्रा न्तपातिनी कुर्यात्प---ङ्गे पदसंमिते ॥
शेषं भद्रं तु कर्तव्यं विस्तारेण त्रिभागिकम् ।
भागस्यार्धेन विस्तीर्णं तथा भागप्रवेशकम् ॥
एतत्प्रमाणं कर्तव्यमिह प्राज्ञैर्जलान्तरम् ।
तलच्छन्दानुगं भद्रं नन्द्यावर्त्तं यथाक्रमम् ॥
ऊर्ध्वमानमथ ब्रूमो नन्द्यावर्तं यथाक्रमम् ।
सार्धभागद्वयोच्छ्रायामासनं तस्य ऊर्ध्वतः ॥
कार्यतुलोदयस्य मध्ये भागैस्तथाष्टभिः  ।
तुलोदयस्य मध्ये स्याद्वेदीबन्धो द्विभागिके ॥
भागिकः कुम्भकोसेन मेखलाकलशान्वितः ।
चतुर्भागा भवेज्जङ्घा भागिकं भरणं भवेत् ॥
मेखलान्तरपत्रे तु भागेनैकेन कल्पयेत् ।
पादेन राजसेनं स्याद्वद्वत्तच पट्टतः ॥
वेदी साष्टपदोत्सेधा भागपादेन चासनम् ।
भागार्धेन नतं कुर्याद्भागं पञ्चवलोकत ॥
पादोनत्रिपदः स्तम्भः पल्लवैरुपशोभितः ।
हीरग्रहणशीर्षं च कुर्याद्भागसमुछ्रिति ॥
पट्टमेकपदोत्सेधं छाद्यकंद्विपदायतम् ।
भागेन कुर्यादुपरि पट्टिकां चारुकर्मणाम् ॥
अंशांस्त्रीनुच्छ्रितः सिंहकर्णः स्याच्चतुरायतः ।
भूषितः स्वरसे --- न स च कार्योऽतिशोभनः ॥
विस्ताराद्द्विपदे शृङ्गे सार्धंभागद्वयोच्छ्रिते ।
अस्योर्ध्वमन्यशृङ्गं स्यात्सदृशोच्छपरिस्तृति ।
प्रत्यङ्गस्तु वङ्गेषु च कूटानि सार्धांशोच्छ्रायवन्ति च ।
द्वितीयः सिंहकर्णः स्यात्सिंहकर्णस्य मस्तके ॥
ततो शृङ्गं तृतीयः स्याच्चतुर्थस्तस्य चोपरि ।
षडभागविस्तृता कर्ण कूटस्था मूलमञ्जरी ॥
सप्तभागोच्छ्रिता च स्याट्स्कन्धस्यच्च शोच्छ्रितिः ।
स्यादुरोमञ्जरी मूलमञ्जर्या मध्यसंश्रया ॥
भागैश्चतुर्भिर्विस्तारः षड्भिश्चास्याः समुच्छ्रितिः ।
कलशाण्डकसंयुक्ता कर्णाभ्यन्तरमञ्जरी ॥
स्यादण्डकैकविंशत्या नन्द्यावर्तः सुलक्षणः ।
भक्त्या ये कारयन्त्येनं नद्यावर्तमनुत्तमम् ॥
विमानं शुभमारुह्य शक्रलोकं व्रजन्ति ते  ।
नन्द्यावर्तः ।
प्रासादमथ वक्ष्यामः पूर्णं पूरितवाञ्छितम् ॥
वन्दितैः किन्नरैर्यक्षैर्मनुष्यपितृवल्लभम् ।
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥
विस्तार द्विपदो गर्भः कार्या भित्तिस्तु भागिकः ।
द्विपदं कन्दभद्रं च निर्गमोऽस्यार्धभागिकः ॥
शोभना दिषु सर्वासु द्विपदा च भ्रमन्तिका ।
पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः ॥
आयत्या चतुरो भागावण्डभित्तेर्विनिर्गमा ।
भद्रं सुशोभनं तस्या द्विधातव्यं द्विभागिकम् ॥
पर्णस्तु पदिका पक्षभद्रं भागार्धनिर्गतम् ।
जलान्तरं तु भागार्धमायामक्षेपयोः समम् ॥
चतुर्भागो वलस्यास्य गर्भो भित्तिस्तु भागिकी ।
यामायुर्वित्तगोस्त्रीणां वलभी कीर्तिकारयेत्
पूर्वतः कारयेद्द्वारं चतुर्गर्भेऽत्र मन्दिरे ।
ऊर्ध्वमानं तु वक्ष्यामः प्रासादस्यास्य सम्प्रति ॥
पीठं द्विभागिकं कार्यं वेदीबन्धो द्विभागिकः ।
जङ्घा पदचतुष्कं च शोभिता रूपकर्मणा ॥
पदद्वयं तु कर्तव्यं सातपत्रकम् ।
कलशाण्डकयुक्तानामुच्छ्रायस्त्रिपदो बुधैः ॥
कर्तव्यः कर्णशृङ्गाणां सर्वेषामपि मानतः ।
चतुष्पदोच्चा वलभी घण्टाकलशसंयुता ॥
मल्लच्छाद्यत्रयं कुर्यात्कर्णशृङ्गस्य चोपरि ।
युक्तमन्तरपत्रेण भागोच्छ्रायं पृथक्पृथक् ॥
भागेनैकेन घण्टा स्याद्भद्रा भ्यां कलशाण्डके ।
समूलकलशे कर्णे सूत्रं सम्पातयेद्बुधः ॥
मल्लच्छाद्यं विधातव्यं सूत्रेणैकेन लाञ्छितम् ।
प्रासादमेवं पूर्णायुर्यः कुर्याद्भक्तिमानिमम् ॥
सप्तकामः --- पुरुषः सर्वलोके महीयते ।
पूर्णः ।
सिद्धार्थमथ वक्ष्यामः सर्वकामार्थसिद्धिकम् ॥
कामाः सिध्यन्ति यत्कर्तुरिहलोके परत्र च ।
चतुरश्रे समे क्षेत्रे विभक्ते दशभिः पदैः ॥
कुर्वीत षट्पदं गर्भं --- चास्य चतुष्पदम् ।
भागेनैकेन रमणीं बाह्यभित्तिं च भागिकीम् ॥
कुर्वीत द्विपदान् कर्णाञ्शालां षड्भिः पदैर्बुधैः ।
तदूर्ध्वं कर्णशृङ्गाश्च यथाशोभं प्रकल्पयेत् ॥
त्रिपदं निर्गमं तस्याश्चतुष्कीश्च चतुर्दिशम् ।
मध्ये बहिश्च कुर्वीत तस्या द्वारचतुष्टयम् ॥
उन्नतं भागविंशत्या मानमस्योर्ध्वतो भवेत् ।
त्रिपदः पीठबन्धः स्याद् द्विगुणोच्छ्रायबाह्यतः ॥
सार्धं भागद्वयं कार्यो वेदिबन्धस्तु शोभनः ।
अर्धकुम्भेकमर्दे च मेखलां समसूरकः ॥
जङ्घा सार्धचतुर्भागा कार्योच्छ्रायेण शोभना ।
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥
खुरका मेखला यावत्सप्तभागान्तरं भवेत् ।
भागाभ्यां राजसेनं च कुर्याद्वेदीं च सासनाम् ॥
त्रिभागं स्तम्भमुत्सेधाद्भागस्यार्धेन हीरकम् ।
भागार्धं स्तम्भशीर्षं स्याद्भागः पट्टस्य चोन्नतिः ॥
सूर्यच्छाद्यो द्विभागः स्याद्भागेनैकेन लम्बना ।
शृङ्गोत्सेधस्त्रिभागश्च कलशाण्डकसंयुतम् ॥
चतुर्भागोन्नतः सिंहकर्णः षड्भागविस्तृतः ।
कुर्वीत शृङ्गयोरूर्ध्वं शोभनां मूलमञ्जरीम् ॥
अष्टभागप्रविस्तीर्णां नवभागसमुच्छ्रित ।
स्कन्धः पञ्चपदो ज्ञेयो ग्रीवा चार्धपदोच्छ्रिता ॥
अण्डकं भागमात्रं स्यादूर्ध्वं भागेन चन्द्रि का ।
वर्तुलः समविस्तारः कलशस्तु द्विभागिकः ॥
भद्रे वराटकाश्चेह कर्तव्या हेमकूटवत् ।
यः कुर्यात्कारयेद्यस्तु सिद्धाथं सर्वकामदम् ॥
स भवेत्सर्वकामाप्तिः शिवलोके च शाश्वतः ।
सिद्धार्थः ।
अथाभिधीयते सर्वपापघ्नः शङ्खवर्धनः ॥
आलयः सर्वदेवानां प्रासादो भूभृतां प्रियः ।
चतुरश्रे समे क्षेत्रे गर्भाकर्णे विशोधितम् ॥
कारयेत्पश्चात्सर्वकोणेषु लाञ्छितम् ।
विस्तारार्धे भवेद्गर्भो यच्छेषं तेन भर्तिवः ॥
द्विगुणं कारयेदूर्ध्वं भागविंशतिभाजिते ।
तुलोदयोऽष्टभागः स्याद्द्वादशांशा च मञ्जरी ॥
कुम्भकं कलशं द्वाभ्यां कपोतालीं च कल्पयेत् ।
पञ्चभागोच्छ्रिता जङ्घा मध्येऽस्या ग्रासपट्टिका ॥
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ।
भागार्धं कारयेत्प्राज्ञः संख्या वर्तकमञ्जरीम् ॥
शङ्खवर्तककूटांश्च विदधीत विस्तरात् ।
शतवास्तुविभक्तेऽस्मिन् या मानानुसारतः ॥
स्कन्धो विधेयो ग्रीवा च भगार्धेन समुच्छ्रिता ।
चन्द्रि का शिरसा सार्धं कार्या सार्धपदोन्नता ॥
द्विपदः कलशोच्छ्रायः कर्तव्यः शङ्खवर्धने ।
गर्भश्चाच्छादनं कुर्यात्संख्या वर्तवितानकम् ॥
यः शङ्खवर्धनं कुर्यात्स भुनक्ति चिरं महीम् ।
वशगा चास्य सततं भवेल्लक्ष्मीजलाञ्चलिः ॥
शङ्खवर्धनः ।
त्रैलोक्यभूषणं ब्रूमो वन्दितं त्रिदशैरपि ।
आश्रयं सर्वदेवानां पापस्य च विनाशनम् ॥
त्रिंशद्धस्तः कनीयान् स्यान्मध्यमस्त्रिदशाधिकः ।
पञ्चाशद्धस्त उत्कृष्टस्त्रिविधं हस्तसंख्यया ॥
चतुरश्रे समे क्षेत्रे त्रिंशद्भक्तोपकल्पयेत् ।
दशभागायतं गर्भं कन्दं द्विगुणसप्तकम् ॥
चतुष्पदं कन्दकर्तं भद्रं चास्य द्विभागिकम् ।
कुर्वीत षट्पदां शालां भागेनैकेन निर्गताम् ॥
अन्धोऽर्धद्विपदे चास्य द्विपदाश्चात्र भित्तयः ।
शृङ्गमेकं भवेन्मध्ये विस्तारेण चतुष्पदम् ।
मध्ये शृङ्गस्य चान्तः --- षड्दारुकं भवेत् ।
द्व्यंशा द्वितीया रमणी बाह्यभित्तिर्द्विभागिका ॥
कर्णशृङ्गद्वयं कार्यं विस्तारेण चतुष्पदम् ।
द्वाडशांशमिता शाला निर्गमोऽस्याः पदत्रयम् ॥
प्राक्कर्णशृङ्गमष्टांस्तिस्यादुर्जनफलोपमम् ।
---द्विशृङ्गभागेन विनिष्क्रान्तं चतुष्पदम् ॥
द्विपदं तस्य भद्रं च निर्गमो द्विपदं भवेत् ।
शृङ्गयोरुभयोर्मध्ये पदार्धं पक्षभद्र कम् ॥
पदार्धं वारिमार्गश्च प्रक्षेपः पदसंमितः ।
ऊर्ध्वमानमथ ब्रूमः षष्टिभागसमुच्छ्रितम् ॥
तुलोदयस्ततो विंशपञ्चसूदनुमञ्जरी ।
स नृप्तंसत्यदोच्छ्रायो भागेष्वेषु विधीयते ॥
तुलोदयस्य मध्ये तु वेदी पञ्चपदोदया ।
तदर्धं कुम्भकं कुर्यात्तद्वत्कलशमेखला ॥
एकादशपदा जङ्घा हीरकं तु पदत्रयम् ।
द्वौ भागौ मेखला तद्वद् द्वितीयापि सतारका ॥
ऊर्ध्वतस्तलपट्टस्य प---षोडशभिः पदैः ।
राजसेनं सार्धभागं वेदी कार्या द्विभागिका ॥
पदार्धमासनं सार्धपदं चन्द्रा वलोकनम् ।
स्तम्भः सप्तपदो दैर्घ्यहार सार्धत्रिभागिकम् ॥
शीर्षं सार्धपदोत्सेधं पक्षस्तु द्विपदो भवेत् ।
त्रिपदं छाद्यकं कुर्याद् भागेनैकेन लम्बितम् ॥
द्विपदां छेदहारां तु द्व्यंशा वा सन्तु पट्टिकाः ।
तदूर्ध्वं मञ्जरीं कुर्याद्द्राविडक्रमभूषितम् ॥
सप्तोच्छ्रितं कोणकूटं सघण्टाकलशाण्डकम् ।
द्वितीयामेतदूर्ध्वं च तन्मानेनैव कारयेत् ॥
कर्णे कर्णं समाश्रित्य षट्पदानि तु कारयेत् ।
षष्ठाण्डके द्वे कुर्वीत षडण्डकचतुष्टयम् ॥
एवं कर्णाण्डकानि स्युश्चत्वारिंशत्समासतः ।
द्वादशांशकविस्तारमुच्छ्रायान्नवभागिकम् ॥
आद्यक्रमे विजानीयाद् द्रा विडाभक्रियान्वितम् ।
अष्टाण्डकं समुत्सेधाद्विस्ताराद् दशभागिकम् ॥
भद्र क्रमं द्वितीयं तु विद्यात्कर्मविभूषितम् ।
विस्तारो मूलमञ्जर्या द्वाविंशत्यंशसंमितः ॥
त्रयोविंशतिरुच्छ्रायः स्कन्धाश्चैव त्रयोदश ।
ग्रीवा पट्टद्वयोत्सेधात्त्रिपदोन्नतमण्डकम् ॥
कर्परं द्विपदं भागचतुष्कं कलशोच्छ्रयः ।
प्रासादादे द्वादशैतस्मिन्नुरोमञ्जरिका मताः ॥
अण्डकानां तु विज्ञेयं त्रिसप्तत्यधिकं मतम् ।
त्रैलोक्यभूषणं कृत्वा त्रिदशानन्दकारकम् ॥
कल्पान्तं यावदध्यास्ते पुरुषस्त्रिदशालयम् ।
त्रैलोक्यभूषणः ।
प्रासादमथ पद्माख्यं कथयामोऽश्विनोः प्रियम् ॥
चतुरश्रीकृते क्षेत्रे सप्तभागविभाजिते ।
त्रीन् भागान् मध्यमे त्यक्त्वा द्वौ कोणेषु लाञ्छयेत् ॥
सा द्वयेद्वभिरष्टौ च पश्चादपि च षोडश ।
विस्तारार्धेन गर्भः स्याद्विस्तारार्धं तथा बहिः ॥
ऊर्ध्वमानमथ ब्रूमः पद्माख्यस्य यथाक्रमम् ।
विस्ताराद् द्विगुणोत्सेधं भागविंशतिभाजितम् ॥
वेदी जङ्घा तथैतस्मिन् कार्या मालाथ मञ्जरी ।
ग्रीवाण्डकलशाश्चेह शङ्खवर्धनवर्त्मना ॥
पद्माख्यः कारितो येन प्रासादो दश वल्लभः ।
आत्मा समुद्धृतस्तेन पापपङ्कमहोदधेः ॥
पद्माख्यः ।
पक्षबाहुमथ ब्रूमः प्रासादं कुलनन्दनम् ।
सर्वरोगहरं पुण्यं सर्वलोकक्षणं भवं ॥
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।
अष्टभागायतं गर्भं कुर्याद् भित्तिर्द्विभागिका ॥
द्विपदं कारयेत्कर्णं भागार्धमुदकान्तरम् ।
प्रत्यङ्गं सार्धभागे सा शाला चैव चतुष्पदा ॥
निष्क्राममुभयोर्भागाद्भागार्धेन पृथक्पृथक् ।
कर्तव्या पक्षयोर्बाहू विस्तारेष्वष्टभागिकौ ॥
चतुष्पदस्तयोर्गर्भो द्विपदा भित्तिविस्तृतिः ।
चतुर्भागं भवेद्भद्रं कोणश्चैव द्विभागिकः ॥
ऊर्ध्वमानमथ ब्रूमश्चतुर्विंशतिभागिकम् ।
त्रिपदो वेदिकाबन्धो जङ्घा पञ्चपदोन्नता ॥
द्वौ भागौ कलशः कार्यो द्वौ भागौ चन्द्रि काण्डकम् ।
मध्ये तु मञ्जरी कार्या घण्टाबध चपार्श्वयोः ॥
पक्षबाहुः कृतो येन त्रिगर्भः कर्मभूषितः ।
स त्रिनेत्रप्रतापः स्याच्चतुरङ्गव्रातनायकः ॥
पक्षबाहुः ।
विशालं सम्प्रवक्ष्यामि विशालैरन्वितं गुणैः ।
दयितं कृत्तिकासूनोः पूजितं गणकिन्नरैः ॥
क्षेत्रे दशांशं कुर्वीत षड्भागा मध्यमञ्जरी ।
भागिक्यो भित्तयः कार्या भ्रमन्त्यभि तथाविधाः ॥
भागद्वयं भवेत्कर्णो वारिमार्गेण संयुतः ।
पदेन तिलकं कुर्याद्भागार्धेन विनिर्गतम् ॥
आयामनिर्गमा चास्य चतुर्भागा चतुष्किका ।
चतुष्पदो मध्यगर्भः चतुर्द्वारस्य शस्यते ॥
विस्ताराद् द्विगुणोच्छ्रायान्यूर्ध्वमानं विधीयते ।
विदध्याद्वेदिकाबन्धं सार्धभागय संमितम् ॥
सार्धैश्चतुर्भिः कुर्वीत भागैर्जङ्घोच्छ्रितिं बुधः ।
मालामन्तरपत्रं च भागेनैकेन कारयेत् ॥
साधद्विभागिकं शृङ्गं कलशाण्डकसंयुतम् ।
तस्यार्धमपरं शृङ्गं तावन्मानं विधीयते ॥
षड्भागविस्तृतां जङ्घामन्तर्या भागसप्तकम् ।
तद्विस्तारदशांशै स्यात् षड्भिः स्कन्धस्य विस्तृतिः ॥
ग्रीवायास्तु विधातव्या पदस्यार्धं समुन्नतिः  ।
भागेनाण्डकमुच्छ्रायो भागेनार्धेन चन्द्रि का ॥
द्विपदं कलशं कुर्यात्समसूत्रं सुशोभनम् ।
प्रासादोऽयं विशालः स्यादेवं सप्तदशाण्डकम् ॥
यः करोति स लोकेऽस्मिन् नागाधिपो भवेत् ।
लभते च बहून् कामान् देहान्ते चोत्तमं पदम् ॥
विशालः ।
ब्रूमोऽथ लक्ष्मदयितं प्रासादं कमलोद्भवम् ।
सिद्धगन्धर्वसहितं स्कन्दो यत्र व्यवस्थितः ॥
चतुरश्रं समं क्षेत्रं भुवि दिक्षु विदिक्षु च ।
कृत्वा वृत्तं समालिख्य भागैर्द्वात्रिंशता भवेत् ॥
भागौ द्वौ द्वौ ततः कुर्यादेकैकां दलपट्टिकाम् ।
कर्णं षोडशभिः कार्यादम्भोजसदृशाकृतिः ॥
पञ्चभिर्भाजिते सीम्नि गर्भो भागत्रयं भवेत् ।
अधस्तादासमत्तस्यात्पद्मपीठं प्रकल्पयेत् ॥
कृत्वा द्विगुणमूर्ध्वानद्विंशत्या प्रविभाजयेत् ।
तुलोदयोऽथ भागः स्याद् द्वादशांशा च मञ्जरी ॥
वेदी जङ्घा च माला च स्याद्यथा शङ्खवर्धने ।
तदूर्ध्वं पद्मकूटानि चोन्नत्तं पद्मपत्रवत् ॥
भूमिका पञ्च कर्तव्या पदहीना यथोत्तरम् ।
देविका तस्य कर्तव्या विकासिशतपत्रवत् ॥
पादोनभागो ग्रीवा च सपादं पदमण्डकम् ।
चन्द्रि का चैव भागेन विकासिकमलाकृतिः ॥
द्विपदं कलशं कुर्यात्साब्जपत्रं सपल्लवम् ।
आरोग्यं स्यात्पुरोदेशे कारिते कमलोद्भवे ॥
आयुःश्रीवृद्धिपुत्राः स्युरपयानां च संख्यया ।
कमलोद्भवः ।
हंसध्वजमथ ब्रूमो हंसक्रीडाविभूषितम् ॥
सेवितं सुरसङ्घेन वल्लभं पद्मजन्मनः ।
विभज्य दशधा क्षेत्रमारभ्य ब्रह्मणः पदात् ॥
आदाय पार्श्वयोर्भागांस्त्रींस्त्रीन् वृत्तं प्रकल्पयेत् ।
एवं गर्भो विधातव्यश्छाद्यस्य जगतालुभिः ॥
द्विपदा बाह्यतो भित्तिः कर्णः कार्यो द्विभागिकः ।
भद्रं पञ्चपदं कार्यं पदार्घमुदकान्तरम् ॥
द्वौ भागौ निर्गतं भद्रं स्तम्भद्वयसमन्वितम् ।
मध्ये तु च्छादकं कुर्याद्वातोच्छ्रायं द्विविस्तृतम् ॥
कुर्याद्भागं सविस्तारं तोरणं चतुरुन्नतम् ।
वरालमकरैर्युक्तं स्तम्भेषु स्यात्तथेल्लिकाः ॥
पुरस्तान्मण्डपं प्राज्ञो रवायन्मानपूर्वकम् ।
ऊर्ध्वमानमथ ब्रूमः सूत्रं स्याद्भागविंशतिः ॥
मेखलावेदिकाजङ्घाः शङ्खवर्धनवन्मताः ।
कर्तव्याः कर्णरथिकास्त्रिपदाः कलशान्विताः ॥
चतुष्किका पञ्चपदा वराटीघटयान्विता ।
कार्या कलशसंयुक्ता विस्तारोच्छ्राययोः समा ॥
काणशृङ्गोर्द्वयः कुर्यादष्टांशां मूलमञ्जरीम् ।
उच्छ्रिता नवभिर्भागैः पञ्चभौमास्तु संवृताः ॥
प्रथमा द्विपदा भूमिर्हेमकूटक्रियोपमा ।
अन्यास्तु पदपादार्धहीनाः कार्या यथोत्तरम् ॥
महारत्नपुनः कार्यो भूमिकापरिवर्तने ।
भागेन वेदिकोच्छ्रायः स्कन्धस्तु शतवास्तुवत् ॥
ग्रीवाण्डकसमुत्सेधं विदधीत पदद्वयम् ।
अण्डके वर्तना कार्या कङ्कतीफलसन्निभा ॥
चन्द्रि का भागमेकं च द्वौ भागौ चेत् --- ।
हंसध्वजः कृतो येन वल्लभः पद्यजन्मनः ॥
स याति विविधैर्यानैर्देहान्ते वसु--- गतिम्  ।
हंसध्वजः ।
अथ लक्ष्मीधरं ब्रूमो यं कृत्वा विजयं नरः ॥
राज्यमायुष्यपूजा च गुणानाप्नोति चैश्वरान् ।
चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः ॥
कर्तव्यः षट्पदः कन्दो गर्भसूत्रचतुष्पदः ।
चतुसृष्वपि दिक्षु स्यात्त्रिभिर्भागैर्भ्रमन्तिका ॥
द्विपदा बाह्यभित्तिः स्याच्छुभा कार्या चतुर्दिशम् ।
कर्णेषु शृङ्गमेकैकं द्वे द्वे शृङ्गे तु मध्यगे ॥
द्व्यंशानि तानि विस्ताराद्दशशृङ्गाणि द्विक्रयेत् ।
षट्शालाश्च विधातव्याः शुभा दिक्षु तिसृष्वपि ॥
याम्येन चतुर्भागा भागद्वितयनिर्गताः ।
तलच्छन्दोऽयमुद्दिष्टो मण्डपः पुरतो भवेत् ॥
विस्ताराद् द्विगुणा सासः प्रासादस्यास्य चोच्छ्रयः ।
स्यात्त्रयोदशभागोऽत्र प्रमाणेन तुलोदयः ॥
ऊर्ध्वं च विंशतिपदं वेदीबन्ध पदत्रयम् ।
उत्सेधात् षड्पदा जङ्घा भागेन भरणं भवेत् ॥
भागैस्त्रिभिर्मेखले द्वे शृङ्गं च कलशं त्रिभिः ।
उच्छ्रयेण विधातव्यः सिंहकर्णचतुष्पदः ॥
दश शृङ्गाणि कुर्वीत घण्टा च विक्रये ।
चतुर्दशांशविस्तारा पञ्चगा मूलमञ्जरी ॥
ऊर्ध्वं सप्तदशांशा च ग्रीवोच्छ्रायः पदद्वयम् ।
अण्डकं द्विपदं कार्यं भागेनैकेन कर्परम् ॥
कलशं त्रिपदं मूर्ध्नि वर्तयेत्सुमनोरमम् ।
लक्ष्मीधराख्यं प्रासादं यः कुर्याद्वसुधातले ॥
अक्षये स पदे तत्त्वे लीयते नात्र संशयः ।
लक्ष्मीधरः  ।
महावज्रमथ ब्रूमः प्रत्य पापहरं शुभम् ॥
प्रासादे कारये यत्र सुरेन्द्रः परितुष्यति ।
अष्टौ हस्तान् कनीयान् स्यान्मध्यो द्वादश मानतः ॥
उत्तमः षोडश प्रोक्तस्त्रिधैवं करसंख्यया ।
स्वविस्तारस्य सूत्रेण क्षेत्र मालिख्य वर्तुलम् ॥
कोणेषु लाञ्छितं कृत्वा भागैः षट्त्रिंशता भजेत् ।
द्विपदाः कर्णिकाश्चेह कार्या द्वादशसंख्यया ॥
कर्णिकाद्वयमध्ये तु स्तम्भो भागे च वर्तुलः ।
शतपत्राकृतिः कार्या द्वौ भागौ मूर्धमानतः ॥
अधस्तान्मेखलायाश्च कमलोद्भववद्भवेत् ।
स्तम्भयेत्कर्णिकामध्ये तेषु कूटानि कारयेत् ॥
कुर्यादालेखमुपरि कर्णिकायाः सुशोभनम् ।
कर्तव्या भूमयः पञ्च क्रमेणायतयान्विता॥
स्याद्भागार्धोदया ग्रीवा विस्तारेण चतुष्पदा ।
अण्डकं साधभागेन विधातव्यं सकर्परम् ॥
भागद्वयं तु कलशः शृङ्गकर्णैः सपल्लवैः ।
यः करोति महावज्रं प्रासादं पुरभूषणम् ॥
तुष्टोदिवि सदाम्पत्यो रमते सोऽप्सरोगणैः ।
महावज्रः ।
रतिदेहमथ ब्रूमः प्रासादं सुमनोरमम् ॥
अप्सरोगणसंकीर्णं कामदेवस्य मन्दिरम् ।
अष्टभागीकृते क्षेत्रे समभागे समायते ॥
द्विपदं कर्णकूटं स्याद्वारिमार्गसमन्वितम् ।
अलिन्दस्य चतुर्भागा विस्तारायामतः समाः ॥
भागिकी बाह्यभित्तिस्तु शेषं गर्भं प्रकल्पयेत् ।
मध्ये चतुष्किका कार्या यत्र स्तम्भाः सुशोभनाः ॥
नेकरका त्रिवक्त्रैश्च हस्ते सर्वैः सपत्रकैः ।
पल्लवैर्नागबन्धैश्च सालभञ्जिभिरन्विताः ॥
खेल्लिक्रा तत्र कर्तव्या मकरास्यविनिर्गता ।
चत्वारो बाह्यतोऽलिन्दाः स्तम्भद्वितयभूकुलम् ॥
सदृशं प्रथमं कार्यं भवनं कर्मयुक्तिमत् ।
द्वितीयं भवनं कार्यं बाह्यालिङ्गविवर्जितम् ॥
शेषं कर्म तथा कार्यं प्रथमायां यथा भवति ।
तृतीयायां पुनः कार्या चतुःस्तम्भा चतुष्किका ॥
खेलिकातोरणन्यस्ता समुखाश्च वरालकाः ।
स्तम्भानां कुटकान् पूर्वान् सिंहकर्णश्चमध्यतः ॥
मध्यल्लच्छाद्यानि वायार्धं भागोच्छ्रायान्यनुक्रमात् ।
त्रीणि कुर्वीत युक्तानि शुभैरन्तरपत्रकैः ॥
घण्टां च भागिनीं कुर्यादूर्ध्वनामलसारकीम् ।
चन्द्रि कां भागपादेन द्विभागां कलशोच्छ्रितिम् ॥
एवंविधं यः कुरुते प्रासादं रतिवल्लभम् ।
सन्तोषयति कन्दर्पं स्याज्जनेषु स पुण्यभाक् ।
रतिदेहः ।
सिद्धिकाममथ ब्रूमः प्रमथैरुपशोभितम् ।
धनपुत्रकलत्राणि कृते यत्राप्नुयान्नरः ॥
चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते ।
गर्भं द्विभागं कुर्वीत भित्तिर्भागेन शोभनम् ॥
भद्रं द्विभागविस्तारं भागेनैकेन निर्गतम् ।
कर्णमेकेन भागेन कुर्यात्प्रतिदिशं बुधः ॥
अस्योर्ध्वं द्विगुणं कुर्यात्षष्ठभागविभाजितम् ।
भागे च वेदिकाबन्धं जङ्घा सार्धपदोन्नता ॥
मेखलान्तरद्र त्रे च पादहीनं पदं मते ।
स्यादुच्छ्रितीश्चामा जङ्घा पादोनं पदपञ्चकम् ॥
त्रिभागविस्तृता ग्रीवा भागपादसमुच्छ्रिता ।
पदार्धमण्डकं प्राहुः पदपादेन चण्डिकाम् ॥
भागस्यार्धेन कलशसमुच्छ्रायो मतः समः ।
---गुणसूत्रास्या द्वितीयाः पञ्चभूतिकाः ॥
यः सिद्धिकामं कुरुते सर्वपापविमोचनम् ।
सर्वेऽस्य कामाः सिध्यन्ति ये केचिन्मनसि स्थिताः ।
सिद्धिकामः ।
अथाभिधीयतेऽस्माभिः प्रासादः पञ्चचामरः ।
यो भक्त्या कारयत्येनं स चिरं दिवि मोदते ॥
भक्ते द्वादशभिः क्षेत्रे चतुरश्रे समन्ततः ।
चतुर्भागे भवेद्गर्भो भित्तिं भागेन कल्पयेत् ॥
अन्धारिका तु भागौ द्वौ बाह्यभित्तिस्तु भागिकी ।
त्रिभागैर्विनिष्क्रान्तं तेषु कार्याश्चतुष्किकाः ॥
द्विगुणं कथिते चोर्ध्वमानं घण्टाण्डकान्वितम् ।
प्रमाणेन विधातव्यो दश भागास्तुलोदयः ॥
त्रिपदो वेदिकाबन्धो जङ्घा स्यात् षडंशकः ।
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥
पदत्रयेण सादूर्ध्वं शृङ्गं कलश चाण्डकम् ।
शिखरा विंशतिः कार्याः सभित्ताः सर्वमण्डपैः ॥
शृङ्गादधो विधातव्या मल्लच्छाद्यं मनोहरम् ।
एवं सर्वचतुष्केषु मल्लच्छाद्यानि कारयेत् ॥
छाद्यकैः पञ्चभिः कार्यो मध्ये प्रासादनायकः ।
घटिकानां समुच्छ्रायः सपादं पदमिष्यते ॥
घण्टायाः सार्धभागेन ग्रीवायाश्च पदादिका ।
कर्तव्यामलसारी तु पादोनांशायबण्डिकाम् ॥
द्विपदः कलशः कार्यो बीजस्वरसमन्वितः ।
पञ्चघण्टावृतं कृत्वा विमाना पञ्चचामरम् ॥
अतीतविस्त्वयान्सर्वान् लोकः प्राप्नोति सम्भव ।
पञ्चचामरः ।
नन्दिघोषमथ ब्रूमो विपक्षभयनाशनम् ॥
य एनं भक्तितः कुर्यात्स भवेदजरामरः ।
चतुरश्रे समे क्षेत्रे चतुर्भागविभाजिते ॥
भद्रं द्विभागविस्तारं कुर्याद्भागविनिर्गमम् ।
भित्तिरत्र न कर्तव्या दिशि कस्यामपि ध्रुवम् ॥
कुर्वीत राजसेनं तु वेदिचन्द्रा वलोकनम् ।
दिक्षु क्रमोऽयं सर्वासु त्यक्त्वा मार्गचतुष्टयम् ॥
विस्तारसदृशोच्छ्राया कर्तव्या पूर्वभूमिका ।
वक्ष्यमाणैर्विभागैश्च विप्रभज्यासणाः --- ॥
भागेन राजसेनं स्याद्वेदिर्भागद्वयेन च ।
भागेन चन्द्रा लोकः स्यादर्धेनासनपट्टकः ॥
स्तम्भोच्छ्रायस्त्रिभिर्भागैस्ततो भागेन शीर्षकम् ।
पट्टोच्छ्रायो भागमेकं स्याच्चतुर्विंशतिर्धराः ॥
नानासङ्घैः पल्लवैश्च चारुकर्मकराननैः ।
द्वितीया भूमिका कार्या स्तम्भैः षोडशभिर्युता ॥
एवं भूमौ द्वितीयायामपि कर्म विधीयते ।
स्तम्भैश्चतुर्भिः संयुक्ता तृतीयायां चतुर्थिका ॥
नन्दिघोषः कृतो येन मूयं तेजो स जायते ।
कर्मक्षयात्तनुं त्यक्त्वा प्राप्नोति परमं पदम् ॥
नन्दिघोषः ।
प्रासादमभिधास्यामो मनूत्कीर्णं महाद्रुतम् ।
विमृश्य बुद्ध्या निपुणं निर्मितं प्राक्स्वयम्भुवा ॥
क्षेत्रे षड्भागविस्तारे गर्भे भागचतुष्टये ।
कुर्वीत वृत्तं मध्ये च नवभिर्वृत्तिमालिका ॥
अष्टौ रथिकाः कार्याः क्षेत्रे दिक्षु विदिक्षु वा ।
ऊर्ध्वमानमथ ब्रूमो द्विगुणं द्विपदान्वितम् ॥
छाद्ययावद्विधातव्या तत्सार्धाङ्गैकपञ्चकम् ।
भागानष्टार्धसहितान् कुर्यादूर्ध्वं तुलोदयात् ॥
सार्धभागेन कर्तव्यो वेदीबन्धश्च शोभनः ।
भागद्वयं ततः सार्धं कार्या जङ्घासमुच्छ्रितिः ॥
भागार्धं हीरकं कुर्यान्मनोज्ञं कर्तिकान्वितम् ।
मेखलान्तरपत्रे च भागेनैकेन कारयेत् ॥
शृङ्गोच्छ्रायस्ततः कार्यः सार्धभागद्वयोन्मितः ।
मध्येन सर्वशृङ्गाणां मस्तके वृत्तमालिखेत् ॥
षड्भागविस्तृतं तस्य षड्भागसमुच्छ्रितम् ।
यावन्मात्राचरेत्प्रोक्ता तावत्कार्या च मञ्री ॥
त्रिभौमं पञ्चभौमं विचित्रं कारयेदिमम् ।
ग्रीवा स्याद्भागपादेन विस्ताराद्द्विपदायता ॥
पादहीनं पदं कुर्यादण्डकं मनुसंभवेत् ।
चन्द्रि का भागपादेन पादोनं कुशलः पदम् ॥
प्रासादं मनसाप्येवं मनुकीर्तणं करोति यः ।
स गंध्या भवनं शम्भोर्गाणपत्यमवाप्नुयात् ॥
मानकीर्णः ।
अथ सुप्रभनामानं प्रासादमभिदध्महे ।
यं कृत्वा प्रभयान्येषां प्रभा हन्ति रविर्यथा ॥
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।
कुर्याच्चतुष्पदं गर्भं विस्तारो यामतः समः ॥
प्रासादार्धं भवेत्कन्दः कन्दभद्रं पदद्वयम् ।
भ्रमन्ती द्विपदा दिक्षु चतसृष्वपि शोभना ॥
पदिका बाह्यभित्तिस्तु द्विपदा कर्णविस्तृतिः ।
चतुष्पदं मध्यभद्रं विनिष्क्रान्तं त्रिभिः पदैः ॥
अस्यैर्वात पुनः कार्या द्विपदा तु चतुष्किका ।
सोलायाः पार्श्वतः कुर्यादतिभद्र द्वयं बुधः ॥
तयोः पादेन निष्कासं पार्श्वयोरुभयोरपि ।
पार्श्वभद्र स्य कर्णस्य चान्तरं पदिके नयेत् ॥
जालैर्विचित्रितं कुर्यान्मध्ये ज्योतिर्यथा भवेत् ।
एवं दिक्षु समस्तासु कुर्वीतैनमनुक्रमात् ॥
प्रासादभागविधिना पुरः कुर्वीत मण्डपम् ।
चतसृष्वपि मञ्जर्यो दिक्षु कार्या यथाक्रमम् ॥
लीयमूलसजङ्घात्रा स्वसार्धा च यथादिमम् ।
उच्छ्रायो मूलविस्ताराद्द्विगुणो द्विकलाधिकः ॥
तुलोदयो दशपदो मञ्जरी षोडशांशिका ।
वेदीबन्धसमुत्सेधः सार्धभागद्वयोन्मितः ॥
पञ्चभागोच्छ्रिता जङ्घा हीरं भागसमुन्नतम् ।
सार्धभागेन कर्तव्ये मेखलान्तरपत्रके ॥
कर्णशृङ्गसमुत्सेधः कलशान्तस्त्रिभागिकः ।
दिङ्मञ्जरी तु कर्तव्या विस्तारेण चतुष्पदा ॥
उदयेन विधातव्या पञ्चभागा प्रमाणतः ।
ग्रीवा पदस्य पादेन कलशोऽर्धपदं भवेत् ॥
विस्तारो मूलमञ्जर्याः कर्तव्यो दशभागिकः ।
---भागत्रयोत्सेधो ग्रीवा पादेन भागिका ॥
अण्डकं सार्धभागेन द्विपदा कलशोच्छ्रितिः ।
देशांशषट्कतो मूलास्कन्धोरेषोऽन्तको भवेत् ॥
विस्तारो मूलमञ्जर्याः कर्तव्यो दशभागिकः ।
नवाण्डकोऽयं कर्तव्यः प्रासादः शुभलक्षणः ॥
यः प्रासादमिमं कुर्यात्सुप्रभं भक्तिमान्नरः ।
दिव्यते जारवहस्यास्य देहान्ते मुक्तिमाप्नुयात् ॥
शुभलक्षणः ।
सुरानन्दमथ ब्रूमः प्रासादमतिसुन्दरम् ।
चतुरश्रं समं क्षेत्रे दशधा प्रविभाजयेत्
षड्भागो गर्भविस्तारो द्वौ भागौ भित्तिविस्तृतिः ।
कर्तव्या सार्धभागेन भागार्धेन जलाश्रयः ॥
प्रत्यङ्गस्थानकं कुर्यात्सप्रसं वृत्तभागिकम् ।
शालास्त्रिभिः पदैः कार्याः शुभरूपाश्चतुर्दिशम् ॥
शालायाः पार्श्वयोः कार्यो वारिमार्गः पदार्धकः ।
परस्परं तु निष्कासो भागं भागं विधीयते ॥
ऊर्ध्वमानं विधातव्यं विस्ताराद्द्विगुणो बुधैः ।
गर्भच्छाद्यं पदान्यष्टौ भागा द्वादश मञ्जरी ॥
वास्तुविस्तारपादेन वेदीबन्धो विधीयते ।
चतुष्पदोर्ध्वतो जङ्घा भागार्धं ग्रासपट्टिका ॥
मेखलान्तरपत्रे च विधातव्ये पदोच्छ्रिते ।
कोणा द्र विडकूटस्य वृत्तस्तम्भा वराटका ॥
मध्याङ्गतोरणानां स्युद्विशतिश्चतुरो भवेत् ।
षट्पदः स्कन्धविस्तारो ग्रीवा भवति भागिकी ॥
शिरः सार्धं पदं ज्ञेयं भागमेकं च चन्द्रि का ।
कलशॐऽशद्वयोच्छ्रायः कार्यः पल्लवभूषितः ॥
यः करोति सुरानन्दं वरदास्तस्य मातरः ।
सुरास्तस्य ह्यनिस्तार्यमपमृत्युं हरन्ति च ॥
सुरानन्दः ।
अथ हर्षं प्रवक्ष्यामि सर्वलोकप्रहर्षणम् ।
नित्यं वसति यत्र श्रीः स्थानं यद्विश्वकर्मणः ॥
चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः ।
प्रतिकोणं विधातव्याः कर्णभागौ स्त्रिभिस्त्रिभिः ॥
द्विपदं कर्णभद्रं च भागेनैकेन निर्गतम् ।
वारिमार्गं पदं कुर्यात्प्रवेश्ययामतः समम् ॥
त्रिभागमस्य प्रत्यङ्गं पदद्वितयनिर्गमम् ।
वेदिचन्द्रा वलोकाभ्यां प्रत्यङ्गे कर्म कल्पयेत् ॥
चतुष्पदं मध्यभागं द्विपदं चास्य भद्र कम ।
विनिर्गतं च भागेन विदधीत विचक्षणः ॥
वलभ्यश्च द्विभागाः स्युः खानुरूपाश्चतुर्दिशम् ।
गर्भो भागैश्चतुर्भिस्तु वलभीनां विधीयते ॥
द्विपदा बाह्यतो भित्तिर्द्विपदा च भ्रमन्तिका ।
स्कन्धः स्याद्दशभिर्भागैर्गर्भः षट् त्रिंशता पदैः ॥
ऊर्ध्वप्रमाणमेतस्य स्याच्चत्वारिंशता पदैः ।
भागैः षोडशभिश्चास्य विदध्याच्छादनं शुभम् ॥
वेदीबन्धः पञ्चपदो जङ्घा चाष्टपदा भवेत् ।
शाला चान्तरपत्रं च कुर्याद्भागत्रयाद्बुधः ॥
ऊर्ध्वमन्तरपत्रं स्याद्विधातव्यं यथाक्रमम् ।
वलभीसंवृतिः प्राज्ञैरुच्छ्रायात्पञ्चभागिकी ॥
सा शृङ्गैः सिंहकर्णैश्च कार्यो भागसमुच्छ्रितिः ।
वर्धमानेन कर्तव्या त्रिपदा कर्णमञ्जरी ॥
ऊर्ध्वं पदेभ्यस्त्रिभ्यः स्याद्भागेन कलशाण्डकम् ।
विस्तारात् षोडशपदा कर्तव्या मूलमञ्जरी ॥
ऊर्ध्वं विंशतिभागास्य स्कन्धो नवपदायतः ।
ग्रीवा सार्धपदं कार्या ततो द्विपदमण्डकम् ॥
चन्द्रि कैकेन भागेन कलशस्त्रिपदात्ततः ।
हर्षणः क्रियते यत्र स देशः सुखमेधते ॥
क्षेमं गोब्राह्मणानां स्यात्पूर्णकामश्च पार्थिवः  ।
हर्षणः ।
इदानीं दुर्धरं ब्रूमः प्रासादं शुभलक्षणम् ॥
चतुरश्रे समे क्षेत्रे चतुर्विंशतिभाजिते ।
कर्णाः षडापदाः कार्या प्रतिरथं च द्व भवेत् ॥
कर्तव्याष्टपदा शाला निर्गमोऽस्य चतुष्पदः ।
पदद्वयं विनिष्क्रान्ता सर्वतः कर्णशोभिता ॥
द्विपदा बाह्यभित्तिः स्याच्चतुर्भागान्धकारिका ।
द्विपदा कन्दभित्तिस्तु गर्भश्चाष्टपदायतः ॥
षट्पदा कन्दशाला च कन्दकर्णाः पदत्रयम् ।
ऊर्ध्वप्रमाणं विस्ताराद्द्विगुणं द्विपदाधिकम् ॥
विंशत्यम तुलोच्छ्रायाः शिखरं त्रिंशता पदैः ।
कुम्भः सार्धद्विभागश्च कलशो भागमुच्छ्रितिः ॥
भागार्धेनान्तरं पत्रं भागेनैकेन मेखला ।
दशभागोच्छ्रिता जङ्घा हीरकं भागिकं भवेत् ॥
भागैश्चतुर्भिः कर्तव्यं मेखलाद्वितयं ततः ।
अधस्तादूर्ध्वपट्टस्य तलपट्ठस्य चोपरि ॥
भवेत् षोडशभिर्भागैरनयोरन्तरं द्वयोः ।
द्विपदो वेदिकाबन्धो वेदी काया चतुष्पदा ॥
आसनं चैव भागेन स्तम्भः पञ्चपदैर्भवेत् ।
भागेनैकेन भरणं शीर्षकं भागमुन्नतम् ॥
पट्टो भागद्वयोत्सेधश्छाद्यं च त्रिपदायतम् ।
मूलभरणानि चत्वारि कोणभद्रा णिकं भवेत् ॥
कर्णशृङ्गाणि दश च द्वयमथस्मिंश्चतुर्दिशम् ।
ग्रीवां भगसन्तानां शृङ्गाणां त्रिपदोच्छ्रिति ॥
षट्पदाः कर्णमञ्जर्यः सप्तभागसमुच्छ्रिताः ।
ग्रीवार्धभागिकी भागः स्यादुच्छ्रायोऽण्डकस्य तत् ॥
पदत्रयोन्नता कार्या सिंहकर्णश्चतुष्पदा ।
मध्ये भद्रे तदुत्सेधो विस्तारादर्धभागिकः ॥
विस्तारो मूलमञ्जर्याः पदैः षोडशभिर्भवेत् ।
अष्टादशभिरुच्छ्रायो ग्रीवा सार्धपदोच्छ्रिता ॥
अण्डकं द्विपदं कार्यं चन्द्रि का पदमुच्छ्रिता ।
कलशं त्रिपदं विद्यात्सर्वलक्षणसंयुतम् ॥
अण्डकैः सप्तदशभिः प्रासादो दुर्धरो भवेत् ।
दुर्धरं यः करोतीह भागाच्छक्तिं समाप्नुयात् ॥
कालेन शिवसायुज्यं निगधिश्च प्रद्यते ।
दुर्धरः ।
इदानीं दुर्जयं ब्रूमः प्रासादं शत्रुमर्दनम् ॥
यं कृत्वा दुर्जयं लोके भवेत्क्रीडति च क्षितौ  ।
चतुरश्रीकृते क्षेत्रे पञ्चभागविभाजिते ॥
गर्भं नवपदं कुर्याद्भित्तिः षोडशभागिकी ।
भागेन कर्णरथिका भागाभ्यां मध्यमे रथः ॥
भागेन निर्गमंस्तस्य विधिरेष चतुर्दिशम् ।
भद्र कर्णान्तरे कुर्याद्वारिमार्गं पदाधिकम् ॥
ऊर्ध्वमानं विधातव्यं त्वमस्मि दशभागिकम् ।
वेदिबन्धः सपादांशौ जङ्घांसौ पादसंयुतौ ॥
मेखलान्तरपत्रे तु पदार्धेन प्रकल्पयेत ।
शिखरः सार्धं भागषट्कोछ्रितो भवेत्
त्रिपदः स्कन्धविस्तारो रेखा पद्मदलाकृतिः
भूमयः पञ्च कर्तव्या न्यूनमाना यथाक्रमम् ॥
प्रथमा साधभागान्या पदपादोनिता क्रमात् ।
स्कन्ध पादोनभागेन स्याद् ग्रीवार्धं पदेन च ॥
अण्डकं त्वेकभागेन कर्परं चार्धभागिकम् ।
भागोत्सेधस्तु कलशः समवृत्तः सुशोभनः ॥
दुर्जयः क्रियते यत्र पुरे वा नगरेऽथवा ।
न भवेत् तत्र दुर्भिक्षं न च व्याधिकृतं भयम् ॥
दुर्जयः ।
ब्रूमस्त्रिकूटं ब्रह्माद्यैः सेवितं त्रिदशैस्त्रिभिः ।
फलं क्रतुसहस्रस्य येन मोक्षं च विन्दति ॥
ससाध्यतुल्यन्निभजं क्षेत्रमिष्टप्रमाणतः ।
ततोऽस्य बाहुमेकैकं चतुर्भिर्विभजेत्पदैः ॥
द्विभागं मध्यमं भद्रं भागिकीं कर्णपक्षिकाम् ।
अर्धेन गर्भमर्धेन कुर्याद्भित्तित्रयं बुधः ॥
विस्तारं पश्चधा भक्ता कुर्याद् द्विगुणमुच्छ्रयम् ।
वेदिबन्धो विधातव्यः सपादं भागमुच्छ्रितः ॥
जङ्घा सपादौ भागौ द्वौ कार्या तस्य समुच्छ्रितिः ।
मेखलान्तरपत्रे च भागस्यार्धेन कारयेत् ॥
मञ्जरी भागषट्केन पञ्चभागविभाजिता ।
आसप्रन्तात्स्तम्भस्कन्धः कार्यः पूर्वोक्तवर्त्मना ॥
पादभागेन तु ग्रीवामर्धभागेन चाण्डकम् ।
चन्द्रि का भागपादेन कलशं भागमुच्छ्रितम् ॥
त्रिकूटं कारयेद्यस्तु ब्रह्मेशानहरिप्रियम् ।
सिद्धा भूत्वा पुरीं तेषां यात्यसौ नात्र संशयः ॥
त्रिकूटः ।
इदानीमभिधास्यामः प्रासादं नवशेखरम् ।
चतुरश्रं भजेत्क्षेत्रं विंशत्यकोनया पदैः ॥
कर्णाश्चतुष्पदा कार्यास्तेषां भद्रं द्विभागिकम् ।
विनिर्गतं पदार्धेन जलमार्गस्त--- ॥
---भागायता कार्या सा भवेहि विचक्षणैः ।
शाला कर्णपदाद्वतु प्रत्यङ्गं भागमानतः ॥
त्रिपदो रथकः कार्यो मञ्जरीणां चतुष्टयम् ।
चतुष्पदा भवेद्भित्तिर्गर्भश्चैकादशांशकः ॥
चत्वारिंशत्पदादूर्ध्वं यावत्स्कन्धं समस्तकम् ।
तुलोदयः षोडशभिर्मञ्जरी चाष्टकैस्त्रिभिः ॥
चतुष्पदो वेदिबन्धो जङ्घा साष्टपदा भवेत् ।
भागेन भरणे त्र्यंशं मेखलान्तरपत्रकम् ॥
उच्छ्रायतः पञ्चपदा कर्तव्या कर्णमञ्जरी ।
ग्रीवाधभागेन भवेदण्डकं चैव भागिकम् ॥
भागेन चन्द्रि कामूर्ध्वं भागेन कलशं तथा ।
सपादमुदयं शाला मञ्जर्या विस्तृते विदुः ॥
ग्रीवा पादेन भागेन सपादासमताण्डकम् ।
भागाद्धि चन्द्रि का भागद्वयेन कलशोदयः ॥
विस्तारो मूलमञ्जर्याः कार्यः पञ्चदशांशकः ।
तथा सप्तदशोच्छ्रायः स्कन्धायामो नवांशकः ॥
ग्रीवा चास्यार्धभागेन सार्धद्विपदमण्डकम् ।
वण्डिका सार्धभागेन त्रिपदः कलशोदयः ॥
एवं यः कारयत्येनं प्रासादं नवशेखरम् ।
नवभिः सहितां खण्डैः स भुनक्ति वसुन्दराम् ॥
नवशेखरः ।
पुण्डरीकमथ ब्रूमो यशसो वर्धनं परम् ।
यस्मिन् कृते स्थिरा कीर्तिर्भवेद्यावद्वसुन्धरा ॥
चतुरश्रं समं क्षेत्रं विभजेत्पञ्चभिः पदैः ।
त्रिपदं कल्पयेद्गर्भं तस्य भित्तिं च भागिकाम् ॥
त्रिपदं तस्य भद्रं स्यात्साधभागविनिर्गमम् ।
भद्रे षु वर्तुलं दिक्षु रथिकानां चतुष्टयम् ॥
भागेनैकेन रथिका मूलच्छन्दोऽयमीरितः ।
ऊर्ध्वमानं भवेद्यस्य द्विगुणो दशभागिकम् ॥
भागेनोच्छालकं विद्याद्भागार्धेन तु मेखला ।
वेदिबन्धं न कुर्वीत जङ्घा सार्धद्विभागिका ॥
मेखला चार्धभागेन भवेत्सान्तरपत्रका ।
पदानि पञ्च सार्धानि मञ्जर्याः स्यात्समुच्छ्रितिः ॥
त्रिपदः स्कन्धविस्तारो ग्रीवा वा पदसादिकाः ।
अण्डकं स्यात्पदार्धेन भागपादेन चन्द्रि का ॥
भागोच्छ्रायस्तु कलशः कर्तव्यः शुभलक्षणः ।
मध्येन मूलमञ्जर्यास्त्रिपदा भद्र मञ्जरी ॥
सार्धा त्रिपदोच्छ्राया ग्रीवा भागसमुच्छ्रिता ।
अण्डकं च त्रिभागेन कलशो भागमुच्छ्रितिः ॥
पञ्चाण्डः पुण्डरीकोऽयं कर्तव्यः शुभवर्धनः ।
पुण्डरीकः ।
सुनाभमथ ब्रूमो वन्दितो देवदानवैः ॥
वल्लभं लोकपालानां पृण्यमुत्कृष्टलक्षणम् ।
विभजेत् सप्तदशभिः समक्षेत्रं चतुर्भुजम् ॥
पञ्चभागायताः कोणा गर्भः कार्यस्त्रिभिः पदैः ।
उभयोः कोणयोर्मध्ये सप्तभागिकमन्तरम् ॥
व्यक्षेपात्कर्णयोर्मध्ये प्राञ्छयेत् पदमन्तरम् ।
भागप्रवेशं भागार्धे विस्तारमुदकान्तरम् ॥
द्विपदा बाह्यभित्तिः स्यात्त्रिपदाथ भ्रमन्तिका ।
पञ्चभागायतो मध्ये भवेत्प्रासादनायकः ॥
त्रिपदस्तस्य गर्भस्तु भित्तिर्भागं विधीयते ।
त्रिपदं कर्णभद्रं च भागेनैकेन निर्गतम् ॥
पदप्रमाणकोणांस्तु चत्वारोपनिवेशयेत् ।
यथा कन्दस्तथा कोणो विभागैः स विधीयते ॥
पञ्च गर्भास्तु कर्तव्याः सममानप्रकल्पिताः ।
द्विगुणं चोर्ध्वमानं स्याद् ग्रीवाण्डकविवर्जितम् ॥
त्रिभिः पदैर्वेदिबन्धो जङ्घा सप्तपदा भवेत् ।
पदत्रयेण कर्तव्यं मेखलाद्वितयं बुधैः ॥
ऊर्ध्वतो बाह्यच्छन्दस्या कर्तव्या कर्णमञ्जरी ।
षट्पदाः कर्णमञ्जर्यो द्विपदं कलशाण्डकम् ॥
द्वादशा सप्तविस्तारा कर्तव्या मूलमञ्जरी ।
त्रयोदशपदोच्छ्राया ग्रीवास्या भागमुच्छ्रिता ॥
अण्डकं द्विपदोत्सेधं भागोत्सेधा तु चन्द्रि का ।
कलशस्त्रिपदोत्सेधो वर्तुलः शुभलक्षणः ॥
यावत् क्षितिर्यावदब्धिर्यावच्छशिदिवाकरौ ।
कर्तास्य तावद्दिव्यास्ते यावत्सुरगुरुः सुराः ॥
सुनाभाः ।
माहेन्द्र मथ वक्ष्यामः प्रासादं भूषणं क्षितेः ।
सेवितं यक्षगन्धर्वैः फणीन्द्रै श्च महाप्रभैः ॥
माहेन्द्रं पञ्चदशभिर्भागैः प्राज्ञो विभाजयेत् ।
नवभागायतं गर्भं कुर्याद्भित्तिं त्रिभागिकीम् ॥
विस्तारेणास्य विख्याता तज्ज्ञैः शाला पदत्रयम् ।
शालायाः पार्श्वयोः कार्यौ रथौ सार्धपदौ बुधैः ॥
रथशालान्तरेणैव कर्तव्यमुदकान्तरम् ।
रथस्याप्रातः पञ्चारि गृहकार्यं पदार्धकम् ॥
प्रत्यङ्गानि पदं साधं --- जलान्तरम् ।
द्विपदं कर्णमानं च कार्यं कोणचतुष्टये ॥
भागेनान्योन्यमेतेषां विधातव्यो विनिर्गमः ।
ऊर्ध्वमानं तु कर्तव्यं द्विगुणं सीमविस्तृतेः ॥
तुलोदयो दशांशः स्याद्विंशत्यंशा च मञ्जरी ।
वेदिबन्धं प्रकुर्वीत साधभागद्वयं बुधः ॥
जङ्घयोस्तु समुच्छ्रायमर्धपञ्चमभागिकम् ।
भागेन भरणं कुर्गाल्लाञ्छितं पत्रभङ्गिभिः ॥
तदूर्ध्वं मेखला कार्या भागद्वितयमुच्छ्रिता ।
ऊर्ध्वतो मञ्जरी कार्या क्रमेणैव मनोहरा ॥
नवभागायतं रुद्धो ग्रीवा भागसमुन्नता ।
अण्डकं द्विपदोत्सेधं चन्द्रि का भागमुच्छ्रिता ॥
द्विपदं कलशं कुर्याद्विस्तारोत्सेधतः समाः ।
लताः सप्त विधातव्या रेषा ब्रूम कुलाकृति ॥
मध्ये लतायाः कर्णस्य वेलकः षड्विधः क्रमः ।
प्रत्यङ्गे तिलका कूटाः पञ्चालार्धा द्विपक्षकः ॥
कोणे वराटका कूटाः कार्या माहेन्द्र मन्दिरे ।
कृत्वा महेन्द्रं राजा स्याद्माहेन्द्र स्य वसेद्दिवि ॥
महेन्द्रः ।
अथो ब्रूमो वराटाख्यं प्रासादं शुभलक्षणम् ।
दयितं किन्नरेन्द्रा णां नागानां चातिवल्लभम् ॥
चतुरश्रं समं क्षेत्रं विभजेद्दशभिः पदैः ।
कुर्यात् षड्भिः पदैर्गर्भं भित्तिं भागद्वयेन च ॥
द्विपदं कर्णविस्तारं कुर्यात्कोणचतुष्टयम् ।
उदकान्तरविस्तारमर्धभागप्रवेशकम् ॥
पञ्चभागायतं भद्र मन्तरं वारिमार्गयोः ।
विस्तारार्धेन कर्तव्यस्तस्य भद्र स्य निर्गमः ॥
कुर्यान्मध्येऽष्टभिर्भागैः सपादैर्वृत्तमुत्तमम् ।
सहितो वारिमार्गेण तलच्छन्दोऽयमीरितः ॥
ऊर्ध्वप्रमाणमेतस्य विस्ताराद्द्विगुणं भवेत् ।
तुलोच्छ्रायोऽष्टभिर्भागैः पदानि द्वादशोर्ध्वतः ॥
पदत्रितयमुत्सेधात्कर्तव्यं भद्र पीठकम् ।
विस्तारार्धार्धमुत्सेधं वेदिबन्धस्य कारयेत् ॥
चतुर्भागोच्छ्रितां जङ्घां हीरकं चार्धभागिकम् ।
मेखलान्तरपत्रं च कुर्याद्भागमुच्छ्रितम् ॥
त्रिपदं शृङ्गमुत्सेधाद् ग्रीवा च कलशाण्डकम् ।
षतदूर्ध्वं पञ्चविस्तारा स्यादुरोमञ्जरी शुभा ॥
ग्रीवा कार्या पदार्धेन भागेनैकेन चाण्डकम् ।
कलशॐऽशोच्छ्रितोऽष्टांशविस्तारा मूलमञ्जरी ॥
तस्याः कार्यः समुत्सेधः प्रमाणान्नवभागिकाः ।
स्कन्धः पञ्चपदो ग्रीवा पादहीनं पदं भवेत् ॥
सपादं पदमञ्जर्या पदस्यार्धेन चन्द्रि का ।
कलशो द्विपदोच्छ्रायः प्रासादे स्याद्वराटके ॥
वराटं कारयेद्यस्तु प्रासादं भक्तिमान्नरः ।
स याति यानैर्विविधैः स्वर्गं प्राप्नोति चाक्षयम् ॥
वराटः ।
सुमुखस्याधुना लक्ष्म प्रकामागतमुच्यते ।
भागैरेकोनविंशत्या चतुरश्रे विभाजिते ॥
तत्रैकादशभिर्गर्भश्चतुर्भिर्भित्तिरंशकैः ।
कोणो द्विभागिकस्तत्र भागपादो जलान्तरम् ॥
भागार्धेन प्रवेशोऽस्य चतुरंशकविस्तृतम् ।
भद्र मेवं विनिर्दिष्टमर्धभागेन निर्गतम् ॥
पादोनभागद्वितयादन्तरे कर्णभद्र योः ।
त्रयः प्रतिरथाः कार्याः सहिताः सलिलान्तरैः ॥
अर्धभागोऽर्धभागश्च मिथस्तेषां विनिर्गमः ।
ऊर्ध्वमानं भवेदस्य द्विगुणं द्विकलाधिकम् ॥
अंशकैः पञ्चमश्चैव विधेयोऽस्य तुलोदयः ।
विभागैः पञ्चविंशत्या तदूर्ध्वं मञ्जरी भवेत् ॥
वेदीबन्धो विधेयोऽस्य सार्धभागचतुष्टयात् ।
जङ्घाशैरष्टभिः साधं वरण्डी तु द्विभागिका ॥
लताभिर्नवभिर्युक्ता प्राग्वत् कार्यास्य मञ्जरी ।
स्यडेकादशभिर्भागैरेतत्स्कन्धस्य विस्तृतिः ॥
चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ।
कोणासन्नप्रतिरथो द्रा विडोऽस्य विधीयते ॥
भूमिका नव कर्तव्याः शेषं कार्यं महेन्द्र वत् ।
पादोनभागद्वितया ग्रीवास्य च विधीयते ॥
सार्धभागद्वयमितं विदध्यादण्डकं शुभम् ।
चण्डिका सार्धभागेन कलशश्चाण्डकैस्त्रिभिः ॥
इत्येष कथितः सम्यक्प्रासादः सुमुखाभिधः ।
य एनं कारयेद्भक्त्या स कामानश्नुतेऽखिलान् ॥
भुक्त्वेह विपुलान् भोगान् पदमभ्येति शाश्वतम् ।
सुमुखप्रासादः ।
चतुर्मुखा श्रीधरादीनां ये प्रोक्तास्तान् प्रचक्ष्महे ॥
लक्षणैरधुना सम्यग् देवानामनिवर्तनात् ।
यत्स्याद्विजयभद्र स्य रूपं तस्मिन्नथास्थिते ॥
विजयो नाम कर्तव्यः प्रासादो देवताप्रियः ।
कर्णे केसरि -- सर्वतो भद्र कः पुनः ॥
निवेशनीयो रथकैः सर्वलक्षणसंयुतः ।
तस्योपरि विधातव्या मञ्जरी चारुरूपिणी ॥
विस्तारादुदयात्तस्याः कुर्वीतैककलाधिकम् ।
स्कन्धस्तु षट्पदः कार्यो ग्रीवा भागसमुच्छ्रिता ॥
अण्डकं सार्धभागेन चन्द्रि कापि च तत्समा ।
तस्या एव हि मध्ये तु कुर्यादामलसारकम् ॥
सार्धभागद्वयोत्सेधं कलशं च तदूर्ध्वतः ।
द्रा विडैश्च वराटैश्च प्रकुर्वीतास्य मञ्जरीम् ॥
---प्रपन्ना नापि जन्मनि जन्मनि ।
नन्दः ।
महाघोषाभिधानोऽथ प्रासादः कथ्यतेऽपरः ॥
नन्दिघोषस्य संस्थाने रूपे चास्य व्यवस्थितः ।
अस्य कर्तृषु सर्वेषु भद्रा णि विनिवेशयेत् ॥
भद्रे चतुष्किका कार्या द्विपदायामनिर्गमा ।
भागिकी भित्तिरन्तश्च शेषं गर्भगृहं स्मृतम् ॥
शृङ्गाणि कर्णे कुर्वीतेत्येषा प्रथमभूमिका ।
द्वितीया तु पुनः कार्या भित्तिविन्यासवर्जिता ॥
चतुर्दिशं विधातव्यं वेदीचन्द्रा वलोकनम् ।
विदधीत चतुःस्तम्भां तृतीयामपि भूमिकाम् ॥
छाद्यकैरूर्ध्वेन तस्या कार्या संवरणा बुधैः ।
कारयेन्नन्दिघोषं यः प्रासादमिममुत्तमम् ॥
विभूतिर्वाञ्छिता तस्य कुलेऽपि न विनश्यति  ।
महाघोषः ।
प्रासादो मिश्रकेष्वेव वृद्धिरागो विधीयते ॥
स्त्रीनिसस्य संस्थानं यत्तदस्यापि कीर्तितम् ।
गर्भकन्दं परित्यज्य स्तम्भैः षोडशभिर्वृतम् ॥
अस्य मध्यं विधातव्यं शेषं च श्रीनिवासवत् ।
उरोघण्टाभिरष्टाभिरश्वशालाभिरेव च ॥
अस्य भद्रा णि कुर्वीत सर्वालङ्कारवन्ति च ।
वसुन्धरस्य ये भेदास्तैः सर्वैरन्वितः शुभः ॥
कलशैरेकविंशत्या वृद्धिरामः प्रशस्यते ।
प्रासादस्यास्य कर्ता च यावच्चन्द्रा र्कतारकम् ॥
तावदिन्द्र इव स्वर्गे क्रीडत्यप्सरसां गणैः ।
वृद्धिरामः ॥
वृद्धिरामस्य संस्थाने प्रासादः स्याद्वसुन्धरः ॥
बाह्यभित्तीः परित्यज्य गर्भभित्तिर्विधीयते ।
वेदिकाकालरूपाद्यो भद्र तोरणभूषितः ॥
एतद्भेदसमायुक्तः प्रासादः स्याद्वसुन्धरः ।
भक्त्या यः कारयेदेनं सोऽधितिष्ठत्यसंशयम् ॥
दुष्प्रापमपि देवानां महादेवस्य मन्दिरम् ।
वसुन्धरः ।
प्रासादं मुद्गनामानमिदानीमभिदध्महे ॥
चतुरश्रीकृते क्षेत्रे षड्भिर्भागैर्विभाजिते ।
कुर्वीत भागिकीं भित्तिं गर्भं चैवास्य वर्तुलम् ॥
भद्रं चतुष्पदं वृत्तं निर्गमेण पदद्वयम् ।
स्वस्तिकश्च समाकाराश्चत्वारो रथिकाः स्मृताः ॥
कर्णाश्च सर्वे कर्तव्या अश्रिभिः षड्भिरावृताः ।
जङ्घा वेदी च पीठं च तत्र कीर्तिनिभानि च ॥
विस्तृतान्येकभागेन द्विभागोत्सेधवन्ति च ।
कर्णकूटानि कुर्वीत सपत्रामकराणि च
भद्रं चतुष्पदायामं पञ्चभागसमुच्छ्रितम् ।
ग्रीवाण्डकं सकलशं कुर्यात्सार्धपदद्वयम् ॥
विस्तारं मूलमञ्जर्याः षट्पदं ---मालिखेत् ।
उच्छ्रयं दशभिर्भागैर्ग्रीवाकलशसंयुतम् ॥
मञ्जरीमत्र कुर्वीत मन्नकीर्त्ते यथा कृता ।
प्रासाद्रं --- यो भक्तितः कारयेदिमम् ॥
गायन्ति तस्य किन्नर्यो दिवि चन्द्रा मलं यशः ।
मुद्गप्रासादः ॥
इदानीं म--- हच्छालं सुरालयम् ॥
कमलोद्भवसंस्थाने कुर्वीतेमं यथास्थितम् ।
दिक्सूत्रे कर्णसूत्रेण रथ---त् ॥
कर्णान्ते भद्र मध्ये च कारयेदुदकान्तरम् ।
पदपादेन विस्तीर्णं प्रक्षेपेण पदार्धकम् ॥
कर्णाध --- तव्या षड्भिरमृलिङ्गवृत्ताः ।
पीठं वेदी च जङ्घा च मेखलान्तरपत्रकम् ॥
कमलोद्भववत्कार्यं बहुधा क---षितम् ।
कर्तव्यशिखरं कुर्यात् --- ॥
इलिकामकरग्रासैर्वरालैः सासुरैश्चिता ।
कथिता पुष्पके यादृग्जङ्घातादृगिहेष्यते ॥
ऊर्ध्वपीठप्रमाणस्य तथावच्छादकस्य च ।
यन्मध्यं तत्र कुर्वीत षड्दारुकनिवेशनम् ॥
रुष्टिकातोरणश्चारुसालभञ्जाविराजितम् ।
वेदिकाराजसेनाढ्यं शमूतेद्ववलोकनम् ॥
सस्तम्भशीर्षभरणं पट्टरङ्गोपशोभितम् ।
म्लल्लं च्छाद्यं विधातव्यं सिंहकर्णविभूषितम् ॥
सिंहरूपैः समाक्रान्तं विचित्रैश्च वरालकैः ।
त्र्यंशोच्छ्रितं कर्णकूटं कुर्याद्द्विपदविस्तृतम् ॥
ग्रीवाण्डकसमेतं च वरण्ड्यां कलशान्वितम् ।
कर्णाः पृथक्पृथक्चेह स्युः षट्पञ्चाशदण्डकाः ॥
उरोमञ्जरिकाभिस्ते तिसृभिः स्युर्विभूषिताः ।
कर्णान्ते मूलरेखा च विस्तारात्सप्तभागिका ॥
सार्धभागाष्टकं चास्या विधातव्या समुच्छ्रितिः ।
उरोमञ्जरिका कार्या चतस्रोऽनुदिशं था ॥
प्रथमा स्यादुरोरेखा द्वादशाण्डकभूषिता ।
चतुर्दशाण्डका चान्या तृतीया षोडशांशका ॥
अष्टादशाण्डकोपेता चतुर्थी परिकीर्तिता ।
षट्त्रिंशताण्डकैर्युक्ता मूलरेखा विधीयते ॥
ग्रीवा पदं स्यात्पादोनं सपादं पदमण्डकम् ।
लवलीफलतुल्यं तच्चन्द्रि का च पदोच्छ्रिता ॥
द्विपदं कलशं विद्यात्समवृत्तं मनोरमम् ।
अर्धोतु द्व विधातव्यं बुजं तस्य चोपरि ॥
विचित्रभूमिके सप्तदशम्मिल्लिख्यराक्षणण्यपि ।
स्तम्भैर्विविधविन्यासैर्बहुभङ्गविनिर्मितैः ॥
भूषितैः कर्मभिश्चित्रैः सर्वत्र शुभलक्षणैः ।
चन्द्र शालादिसंयुक्तैस्तोरणैश्चारुचामरैः ॥
तथाक्षतमुकग्रासैर्घनरूपतया स्थितैः ।
व्यालैर्व्यालोलजिझैश्च मकरग्राससंयुतैः ॥
मदान्धालिकुलाकीर्णगजवक्रविभूषितैः ।
विद्याधरवधूवृन्दैः क्रीडारम्भविभूषितैः ॥
सुराणां सुन्दरीभिश्च वीणाहस्तैश्च किन्नरैः ।
सिद्धगन्धर्वयक्षाणां वृन्दैश्च परितः स्थितैः ॥
अप्सरोभिश्च दिव्याभिर्विमानावलिभिस्तथा ।
चारुचामीकरान्दोलाक्रीडासक्तैश्च निःसराम् ॥
नागकन्याकदम्बैश्च सर्वतः समलङ्कृतम् ।
एवंविधाभिः सर्वत्र भूमिकाभिर्निरन्तरम् ॥
अलङ्कृतो विधातव्यो मेरुः प्रासादनायकः ।
मध्यमद्विगुणैर्ज्येष्ठः कर्तव्यो मेरुरण्डकैः ॥
कनीयान् मध्यमार्धेनेत्यण्डकस्थितिरीरिता ।
उत्तमेषूत्तमं न्यस्येन्मध्यमेषु च मध्यमम् ॥
अधमेष्वधमं लिङ्गमेवमन्येषु धामसु ।
मेरोस्तु त्रिविधस्यापि लिङ्गमुत्तममृद्धिदम् ॥
अन्यथाविहित---दिरोषकृत् ।
मेरुं मेरूपमं दिव्यं यः कारयति पार्थिवः ॥
स प्राप्नोति परां मुक्तिं --- सदाशिवाम् ।
मेरुं प्रदक्षिणीकृत्य काञ्चनं यत्फलर्द्धिभाक् ॥
शैलेष्टकादारुमये कृतेऽस्मिंस्तत्फलर्द्धिभाक् ।
मेरुः ॥
लक्षणं मन्दरस्याथ प्रासादस्याभिधीयते ॥
सिद्धिप्रदस्य पुण्यस्तुतस्य त्रिदशैरपि ।
चतुरश्रीकृतेक्षेत्रे --- भागविभाजिते ॥
गर्भः कार्यश्चतुर्भागो भित्तिरेकांशविस्तृता ।
अन्धारिकैकभागेन बाह्यभित्तिस्तु भागिकी ॥
कोणेषु रथिकाः कार्याः पदद्वितयसंमिताः ।
चत्वारो मण्डपाः कार्याः षट्त्रिंशत्पदसंमिताः ॥
चतुर्दिशमलिन्दाश्च विधातव्याश्चतुष्पदाः ।
भागेन निर्गतास्ते सर्वतः शुभलक्षणाः ॥
अस्योर्ध्वमानं कर्तव्यं विस्तराद्द्विगुणं बुधैः ।
कर्णावेधश्च विस्तारसीमा सर्वत्र गृह्यते ॥
प्रासादे मूलमानं यत्तच्च सम्यक् प्रकल्पयेत् ।
द्विपदं पीठमुत्सेधात्कार्यं प्राङ्मुनतो बहिः ॥
तत्पद्मैरङ्कितं कार्यं सिंहैरपि च मन्दिरे ।
पदार्धं खुरकः कार्यः प्रासादसमवर्जितः ॥
सार्धं पदद्वयं कार्यो वेदीबन्धः सुशोभनः ।
चतुर्भागोन्नता जङ्घा भागार्धं रूपपट्टिका ॥
मेखलान्तरपत्रं च कार्यं पदसमुच्छ्रितम् ।
पदद्वयायतानि स्युः कर्णे शृङ्गाणि मानतः ॥
उच्छ्रयस्त्रिपदस्तेषां ग्रीवाण्डकलशैः सह ।
मूलरेखा विधातव्या कर्णकूटस्य चोपरि ॥
नवभागोच्छ्रिता शस्ता विस्तारेणाष्टभागिका ।
विस्तारं दशधा कृत्वा तैः षड्भिः स्कन्धविस्तृतैः ॥
लताः पञ्च विधातव्याः श्रीवत्से कथिता यथा ।
कुर्वीत पञ्चभौमं वा सप्तभौममथापि वा ॥
ग्रीवा पादोनभागा स्यात्सपदमण्डकम् ।
चन्द्रि कैकपदा कार्या कलशो द्विपदोदयः ॥
त्रिश्वरं त्रिपदं कुर्यात्तत्रैकं भागमुत्सृजेत् ।
शुकनासोत्सृतं कुर्यात्सिंहस्थानविभूषितम् ॥
कनकाभरणैर्युक्तः पुमान्यद्वद्विराजते ।
तथा प्रासादराजोऽयं शोभते चित्रकर्मभिः ॥
मञ्जरीं दशधा कृत्वा कर्मशोभां प्रकल्पयेत् ।
भागैर्भद्र स्य विस्तारः षड्भिर्भागेन निर्गमः ॥
भागिक्यौ रथिके तत्र कुर्याद्भागाद्विनिर्गमः ।
भागद्वयमितान् कर्णान् विदिक्षु च निवेशयेत् ॥
शालाश्चतस्रः कर्तव्या युक्ताः कूटैर्मनोरमैः ।
नीरान्तराणि ता अष्टौ मञ्जर्या द्विगुणान्विता ॥
कूटेऽर्धे प्रथमा भूमिः कार्या भागद्वयोच्छ्रिता ।
पदपादविहीनास्तु क्रमेणोपरि भूमिकाः ॥
अर्धभागोच्छ्रिता ग्रीवा भागिकोच्छ्रायमण्डकम् ।
भागेन कलशः कार्यः सर्वलक्षणसंयुतः ॥
विस्तारार्धेन कर्तव्यो वेदीबन्धो विबन्धुरः ।
षड्गुणेनैव सूत्रेण मध्यरेखां समालिखेत् ॥
द्वितीयामालिखेत्पञ्चगुणितेन विचक्षणः ।
सार्धत्रिगुणसूत्रेण --- रेखां समालिखेत् ॥
मञ्जरीभिर्विचित्राभिः सर्वत्रैव विराजितः ।
प्रासादो मन्दरः कार्यः प्रमाणेनामुना शुभः ॥
मन्दरं मन्दराकारं कृत्वा प्रासादमुत्तमम् ।
प्राप्नोतीह परं सौख्यं परत्र च शुभां गतिम् ॥
मन्दरः ।
कथयामोऽथ कैलासमशेषसुरसेवितम् ।
प्रमथप्रवरैर्जुष्टं प्रासादं पुण्यवर्धनम् ॥
चतुरश्रीकृते क्षेत्रे शतधा प्रविभाजिते ।
शाला षड्भागविस्तारा कर्तव्या भागनिर्गमा ॥
कलात्रिभागिका कुर्यात्सलिलान्तरसंयुतान् ।
आरभ्य ब्रह्मणः स्थानात्समा इव पादद्वयम् ॥
भ्रमयित्वा समं वृत्तं गर्भमंशं प्रकल्पयेत् ।
तथा भित्तिर्विधातव्या समन्तादर्धभागिका ॥
भागिका बाह्यभित्तिः स्यात्भद्र भूषिता ।
अन्तराले तु सर्वत्र विदध्यादन्धकारिकाम् ॥
अलिन्दकाश्चतुर्भागाः कर्तव्या दिक्त्रये बुधैः ।
भागद्वयेन निष्क्रान्ताः सर्वतः शुभलक्षणाः ॥
चतुर्थोकां विधातव्यास्तेषु स्तम्भद्वयान्विताः ।
मुखे तु मण्डपः कार्यः स्तम्भपङ्क्तिविराजितः ॥
अथोर्ध्वमानं वक्ष्यामः कैलासस्य यथास्थितम् ।
पीठं तस्य पदे द्वे तु कर्तव्यं गणभूषितम् ॥
पदस्यार्धेन कर्तव्यः खुरकस्तु खुरादिति ।
तदूर्ध्वं द्विगुणा ज्ञेया प्रासादस्य समुच्छ्रितिः ॥
एकेन कुम्भकः कार्यो भागेन समवर्जितः ।
मसूरकस्तु भागेन पादोनेन विधीयते ॥
कार्यं पदस्य पादेन ततश्चान्तरपत्रकम् ।
मेखलार्धपदेन स्याच्चन्द्र शालाविभूषिता ॥
जङ्घा तदूर्ध्वं कर्तव्या सार्धं पदचतुष्टयम् ।
भागेनैकेन कुर्वीत मेखलान्तरपत्रकम् ॥
कर्णशृङ्गं त्रिभिर्भागैः कुर्यात्सकलशाण्डकम् ।
तदूर्ध्वं द्विपदानि स्युः कूटान्युच्छ्रायमानतः ॥
पूर्वोक्तानाममीषां च प्रक्षेपः स्यात्पदांशतः  ।
चतुर्धा कूटविस्तारं संविभज्य पदद्वये ॥
संद्र स्यादितिक्तयनि सिंहक्रान्तानि कारयेत् ।
विस्तारं मूलमञ्जर्याः कुर्यात् षड्भागसंमितम् ॥
सप्तभागिकमुच्छ्रायं कैलासेऽस्याः प्रकल्पयेत् ।
भागार्धेन भवेद्भागिकोच्छ्रायमण्डकम् ॥
चण्डिकामर्धभागेन कलशं सार्धभागिकम् ।
कुर्वीत शिखरं चास्य स्वस्तिकस्य यथोदितम् ॥
युक्तं भूमीभिरष्टाभिर्मञ्जरीभिरलङ्कृतम् ।
सिंहकर्णैर्विचित्रैश्च भद्रा ण्यस्य विभूषयेत् ॥
कर्तव्यः स्कन्धविस्तारस्तस्मिन्पदचतुष्टयम् ।
विदधीत समालेखसूत्रेण त्रिगुणेन च ॥
एवं --- कैलासं विदधाति यः ।
विभूतिं लभते सोऽत्र सुखसौभाग्यसंयुताम् ॥
कामानवाप्य विविधान् कीर्तिमारोग्यमेव च ।
भुक्त्वा भोगांश्च कैलासे कल्पान्ते यावदीप्सितम् ॥
शार्वं पदमवाप्नोति शान्तं ध्रुवमनामयम् ।
कैलासः ।
त्रिविष्टपमथ ब्रूमः प्रासादममरप्रियम् ॥
सेवितं यक्षगन्धर्वसिद्धविद्याधरादिभिः ।
चतुरश्रीकृते क्षेत्रे विंशत्यंशविभाजिते ॥
षड्भागविस्तृता शाला स्याच्चतुर्भागनिर्गमा ।
चतुरंशती कोष्ठकानां द्वासप्तत्यधिका भवेत् ॥
आशात्रयस्थितैर्भद्रैः सार्धमेवं प्रजायते ।
कुर्याद्गर्भगृहाण्यष्टौ दिक्षुष्वास्वपि तानि तु ॥
कोणे तु षोडशांशानि तन्मध्ये चतुरॐऽशकान् ।
भित्तिर्द्वादशभिर्भागैर्गर्भाणामिति निर्णयः ॥
चतुःषष्टिपदः कार्यो मध्ये प्रासादनायकः ।
पदैः षोडशभिस्तस्य मध्ये गर्भं प्रकल्पयेत् ॥
द्विभागविस्तृता भित्तिः कर्तव्या तस्य बाह्यतः ।
चतुद्विशतिं भ्रमन्ती स्य --- पञ्चपदायता ॥
वलभीः कारयेत्तद्वद्द्विभागेषु चतुर्ष्वपि ।
प्रत्यङ्गं द्विपदं कर्णशालावलभिकान्तरे ॥
तच्च द्विपदमुद्दिष्टं जलमार्गे पदार्धिके ।
पदैर्द्वादशभिर्दिक्षु चतसृष्वपि मण्डपान् ॥
प्रासादस्य प्रकुर्वीत कर्मशोभाविभूषितान् ।
मूलाप्रासादगर्भस्य कुर्याद्द्वारचतुष्टयम् ॥
विज्ञेये तच्च दिग्भद्रे सूत्रमार्गानुसारतः ।
जलान्तराणि कुर्वीत प्रत्यङ्गे पार्श्वयोरपि ॥
बाह्यभित्तिं तु कुर्वीत भागेनैकेन संमिताम् ।
एवं विभज्य कुर्वीत पुरतो मुखमण्डपम् ॥
ऊर्ध्वमानमथस्त्रिंशा तत्र पीठं चतुष्पदम् ।
मध्यप्रासादजङ्घा च तद्वदेव समुच्छ्रिता ॥
अतः पदैः स्याद्विस्ताराद्द्विगुणा शिखरोन्नतिः ।
तस्याश्च मध्ये कुर्वीत षोडशांशं तुलोदयम् ॥
तुलोदयस्य मध्ये द्वे वेदीबन्धं सपञ्चकाम् ।
जङ्घा चाष्टपदा कार्या मध्ये चासनपट्टिका ॥
एषामन्तरपत्रं च कर्तव्यं त्रिपदोच्छ्रितम् ।
तुलोदयस्योपरिष्टात् प्रमाणमथ कथ्यते ॥
चतुष्पदेषु कर्णेषु कूटं पञ्चपदोदयम् ।
ग्रीवा पदस्य पादोनत्रिभिः पादैस्तथाण्डकम् ॥
चन्द्रि काकलशोत्सेधं पाडेनैकेन कल्पयेत् ।
प्रत्यङ्गे तिलकास्त्र्यंशा घण्टाकलशसंयुताः ॥
मध्ये तु वलभीशृङ्गमुन्नतं सप्तभिः पदैः ।
ऊर्ध्वतस्तिलकानां स्यादुरोमञ्जरिका द ॥
विस्तारेण पदान्यूर्ध्वं भवेद्द्वादशभागिका ।
स्कन्धपट्टादिविस्तारो ग्रीवा पादोनभागिका ॥
अण्डकं सार्धभागेन चन्द्रि का भागमुच्छ्रिता ।
द्विपदः कलशोच्छ्रायस्तद्वद्बीजपूरकम् ॥
विस्तारो मूलमञ्जर्याः कार्यः षोडशभिः पदैः ।
उच्छ्रायः सप्तदशभिः स्कन्धो नवपदः स्मृतः ॥
कार्या सप्तलतोपेता प्रशस्ता मूलमञ्जरी ।
ग्रीवास्य भागिका भागद्वयमामलसारकम् ॥
चन्द्रि का भागमेकं स्यात्त्रिपदा कलशोच्छ्रितिः ।
उक्ता या मूलमञ्जर्यः प्राक्प्रासादेषु तास्वियम् ॥
कार्ये माहामाकारा चारुकर्मोपशोभिता ।
बाह्यभित्तिसमायुक्तं प्रासादस्य चतुर्दिशम् ॥
मल्लच्छाद्यं प्रकुर्वीत यथाशोभं विचक्षणः ।
सर्वतश्चारुरूपाद्यैर्विचित्रैः शुभलक्षणैः ॥
विभूषयेत्सिंहकर्णैर्मल्लच्छाद्यं मनोहरैः ।
वलभीत्रयसंयुक्तं कर्णकूटचतुष्टयम् ॥
यथाशोभं विधातव्यं प्रासादेऽस्मिंस्त्रिविष्टपे ।
वास्तौ शतपदे यानि मर्माण्युक्तानि सर्वतः ॥
उत्सृज्य तानि यत्नेन परिकर्मात्र कारयेत् ।
प्रासादं कारयित्वैनमुक्तरूपं त्रिविष्टपम् ॥
लभेतेह यशो राज्यं परत्रानन्त्यमेव च ।
कृत्वा त्रिविष्टपं दिव्यं प्रासादं पुरभूषणम् ॥
वसेत्त्रिविष्टपे तावद्यावदाभूतसंप्लवम् ।
तस्यान्ते तु परे तत्त्वे लयमाप्नोति मानवः ॥
त्रिविष्टपः ।
अथाभिधीयते सम्यक्प्रासादः पृथिवीजयः ।
किन्नरासुरयक्षाद्यैर्वन्दितः सुरसत्तमैः ॥
चतुरश्रीकृते क्षेत्रे विभागाष्व विभाजिते ।
चतुर्भागा भवेच्छाला सपादांशविनिर्गता ॥
कर्णशृङ्गद्वयं कार्यं प्रत्येकं भागविस्तृतम् ।
पादोनपदनिष्क्रान्तं --- ॥
भागैश्चतुर्भिर्गर्भः स्याद्भित्तिः कार्या तु भागिका ।
भ्रमन्तिकापि भागेन बाह्यभित्तिश्च भागिकी ॥
भागद्वयेन कुर्वीत दिक्त्रयेऽस्य चतुष्किकाम् ।
पुरतो मण्डपं कुर्यादुपेतं कर्मशोभया ॥
एवं विभागान् संकल्प्य यथोद्देशं विचक्षणः ।
मन्दरस्येव कुर्वीत कर्मशोभां समन्ततः ॥
ऊर्ध्वतो यत्प्रमाणं स्यात्तदस्येहाभिधीयते ।
अधस्तान्नागपीठः स्यात्प्रमाणेन पदद्वयम् ॥
हीरकं भागपादेन तस्य मध्ये निवेशयेत् ।
विस्ताराद्द्विगुणं चोर्ध्वमानं भागार्धसंयुतम् ॥
ऊर्ध्वमानस्य मध्ये स्यात्षट्पदानिबर्हणादयः ।
वेदीबन्धश्च तन्मध्ये कर्तव्यः सार्धभागिकः ॥
ततो हीरकसंयुक्ता जङ्घा पदचतुष्टया ।
मेखलान्तरपत्रं च कार्यं भागार्धसंमितम् ॥
भागद्वयेन कर्तव्यं वेदिका राजसेरका ।
चन्द्रा वलोकं भागेन विदधीत विचक्षणः ॥
कुर्यात्पदस्य पादेन तत्रैवासनपट्टकम् ।
पदद्वयेन सांशेन स्तम्भमूर्ध्वं निवेशयेत् ॥
अर्धभागेन कुर्वीत भरणं स्तम्भशीर्षके ।
अर्धभागेन पट्टं च छाद्यं सार्धपदायतम् ॥
द्वे सन्त पठिका कार्या ततो भागार्धसंमिता ।
ऊर्ध्वमन्तरपत्रस्य कथमोथ यथाक्रमम् ॥
कुर्याद् ग्रीवाण्डकलशं चन्द्रि काभिः समं बुधः ।
उच्छ्रायं कर्णशृङ्गाणां सार्धभागं प्रमाणतः ॥
स्तम्भसूत्रेण कर्तव्यं नष्टशृङ्गं विचक्षणैः ।
कूटानि पञ्च कुर्वीत यथावत्प्रथमक्षितौ ॥
प्रा त्रीणि भूमौ द्वितीयायां तृतीयायां तु कूटकम् ।
कुर्यात्तुल्यसमुच्छ्रायविस्तारं तच्च मानतः ॥
कर्णे कर्णे तु कूटानि भवन्त्येवं पृथङ्नव ।
शुकनासोन्नतिः कार्या सार्धभागद्वयं बुधैः ॥
स्यादुरोमञ्जरी पूर्वा नष्टशृङ्गस्य चोपरि ।
विस्तारात्त्रिपदा सा स्यात्सार्धभागत्रयोन्नता ॥
भागं सपादं कुर्वीत ग्रीवां सकलशाण्डकम् ।
द्वितीयशृङ्गस्योर्ध्वं स्यादुरोमञ्जरिकापरा ॥
विस्तीर्णा चतुरो भागान्कार्या पञ्चपदोच्छ्रिता ।
स्कन्धावरोहणग्रीवाचन्द्रि काकलशैः सह ॥
एतेषां तु समुच्छ्रायः साधभागं विधीयते ।
उरःशिखरकाण्यष्टावेवं कुर्याच्चतुर्दिशम् ॥
तृतीयकर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी ।
सा भवेत्षट्पदोच्छ्राया पदपञ्चकविस्तृता ॥
त्रिपदः स्कन्धविस्तारो दिक्षु स्याच्चतसृष्वपि ।
कूटैश्च विविधन्यासैरलङ्कुर्वीत मञ्जरीम् ॥
अर्धभागोच्छ्रिता ग्रीवा सार्धांशद्वयविस्तृता ।
अण्डकस्य समुच्छ्रायस्त्रिभागोनपदं भवेत् ॥
कर्परं चार्धभागेन कलशः पदमुच्छ्रितः ।
नवभिः शिखरैर्युक्तः कर्तव्योऽयं समन्ततः ॥
वेदीबन्धस्तु सर्वत्र कर्तव्यः शतवास्तुवत् ।
कुर्यात्तेन विभागेन कलशानपि शोभनान् ॥
मञ्जरीः पद्मपत्राग्रतुल्याः सर्वत्र कारयेत् ।
अण्डकानि भवन्त्यत्र चत्वारिंशच्च पञ्च च ॥
एवंविधं विधत्ते यः प्रासादं पृथिवीजयम् ।
पृथ्वीं विजयते कृत्स्नां निर्गितारिः स पार्थिवः ॥
अन्योऽपि कश्चिद्यः कुर्याद्वर्णाच्छतभक्तिमानिमम् ।
सोऽपि सौख्यमवाप्नोति पश्चादन्ते परं पदम् ॥
पृथिवीजयः ।
अतः परं प्रवक्ष्यामि प्रासादं क्षितिभूषणम् ।
अमरैर्वन्दितं सर्वैस्तथा चाप्सरसां गणैः ॥
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ।
भद्रे पञ्च पदानि स्युः कोणे कार्यं पदत्रयम् ॥
गर्भं षोदशभिर्भागैस्तस्य कुर्याद्विचक्षणः ।
कर्तव्या पदविंशत्या कन्दभित्तिः समन्ततः ॥
प्रासादस्यास्य कर्तव्या रमणी तु पदद्वयम् ।
पट्टिका बाह्यभित्तिः स्याद्द्विपदो भद्र निर्गमः ॥
जलान्तरं तु भागस्तु---गवाक्षकाः ।
भद्रा णां मध्यतः पञ्च प्रकाशाः सुमनोरमाः ॥
बाह्यालिन्दं प्रकुर्वीत वेदीजालविभूषितम् ।
तस्योपरिष्टात्कुर्वीत माल्युच्छ्रायं सुशोभनम् ॥
ऊर्ध्वमानमथ ब्रूमः प्रासादे क्षितिभूषणे ।
क्षुरकं तस्य कुर्वीत त्रिपदं पीठसंयुतम् ॥
अस्योच्छ्रायस्ततः सार्धपदाः स्यात् पञ्चविंशतिः ।
एतन्मध्ये तु दशभिः पदैः कार्यस्तुलोदयः ॥
रेखा पञ्चदशांशा स्यात्स्कन्धशीर्षं पदार्धकम् ।
वेदीबन्धस्तु कर्तव्यः साधभागद्वयं बुधैः ॥
जङ्घा षड्भागिकोच्छ्राया भागार्धे षेचराः शुभाः ।
मेखलान्तरपत्रं च पदेनैकेन कारयेत् ॥
कार्या चतुष्किका पञ्चविस्तारा त्रिपदोच्छ्रिता ।
तदूर्ध्वतः क्रमः कार्यो द्विपदोऽन्योऽधिकं पदम् ॥
भूमयः पञ्च कर्तव्या न्यूना च यथोत्तरम् ।
प्रथमा भूमिका कार्या सार्ध द्विभागास्तु गवाक्ष भागत्रयं बुधैः ॥
सपादास्तु त्रयो भागा द्वितीयाया समुदाहृता ।
तृतीया त्रिपदा--- परा ॥
--- पञ्चमी भूमिरिष्यते ।
पादहीनपदं ग्रीवा सपादपदमण्डकम् ॥
चन्द्रि का भागमेकं स्यात्पद्मपत्रनिभा शुभा ।
त्रिपदं कलशं विद्यान्मातुलिङ्गसमन्वितम् ॥
द्रा विडं नागरं वापि वाराटं वास्तु शोभनम् ।
यदेकं तेवते कर्तुं तद्रू पं तं प्रकल्पयेत् ॥
नानाप्रकारैः स्तम्भैश्च नानाभूषणभूषितैः ।
कलशैः पद्मपत्रैश्च हीरकैश्चोपशोभितम् ॥
कृत्रिमग्रासयुक्ताभिश्चन्द्र शालाभिरन्वितम् ।
मकरग्राससंयुक्तैस्तोरणैर्लक्षणान्वितैः ॥
कोणोत्कण्ठैर्विचित्रैश्च रूपैश्चित्रैश्च शोभितम् ।
कर्म रम्यं प्रकुर्वीत यथावद्वित्तविस्तृतम् ॥
गुणवान् नृपतिर्यद्वद्भूषयत्यखिलां महीम् ।
क्षितिं विभूषयत्येवं प्रासादः क्षितिभूषणः ॥
द्र व्येषु रेणुसंख्या या सुधायामपि यावती ।
तावद्युगसहस्राणि कर्ता शिवपदे वसेत् ॥
क्षितिभूषणः ।
संस्थानं सर्वतोभद्र स्याधुना परिकीर्त्यते ।
चतुरश्रीकृतं क्षेत्रं विभजेद्दशभिः पदैः ॥
तत्र गर्भो भवेत्तावान् यावत्स्याद्ब्रह्मणः पदम् ।
--- भित्तिश्चेति पदं पदम् ॥
भागषट्केन भद्रं स्यात्सार्धभागविनिर्गतम् ।
कर्णं द्विभागिकं कुर्यात्---लमाग्रसमन्वितम् ॥
पदपादस्य पादेन विस्तारो जलवर्त्मनः ।
यत्रैकमेव भद्रं स्याच्चारुस्तम्भैरलङ्कृतम् ॥
संमोददं स्याट्तद्वस्तु धनधान्यसुखावहम् ।
चतुर्भिर्विस्तृतं भागैः सार्धभागविनिर्गतम् ॥
भद्र स्यैवाग्रतो भद्रं तच्छा बाह्योदरं विदुः ।
विस्ताराद्द्विगुणश्चास्य समुच्छ्रायः प्रकीर्तितः ॥
कुम्भकं भागिकं कुर्याद्भागार्धेन मसूरकम् ।
भागपादेन कुर्वीत ततश्चान्तरपत्रकम् ॥
मेखलायाः समुच्छ्रायमर्धभागेन कारयेत् ।
चतुर्भागोन्नता जङ्घा प्रासकिङ्किणिकान्विता ॥
पदं पादविहीनं स्यात्स्थानेषु हीरकम् ।
मेखलान्तरपत्रं च पदाधेन समुघृच्छ्रितम् ॥
त्रिभागविनतं कुर्याद्भागे चन्द्रा वलोकनम् ।
ऊर्ध्वमासनपट्टस्य स्तम्भं कुर्यात्पदद्वयम् ॥
हीरग्रहणशीर्षां च पदेनैकेन कारयेत् ।
भागेनैकेन कुर्वीत पट्टपिण्डं विचक्षणः ॥
द्विपदं छाद्यविस्तारं तदर्धेन तुलस्वनमः ।
जठरं बाह्यसीमा च भित्तयश्चान्धकारिका ॥
जङ्घोत्सेधश्च कर्णश्च---यथा भवेत् ।
कोणेषु रथिकाः कार्याः कलशान्ताः पदत्रयम् ॥
द्वितीया द्विपदोच्छ्राया रथिका परिकीर्तिता ।
उच्छ्रायः सिंहकर्णस्य प्रथमस्य पदत्रयम् ॥
पदद्वयं द्वितीयस्य तत एव समुन्नतिः ।
शृङ्गाणां स्यान्मिथः क्षेपो भागं प--- यथोत्तरम् ॥
भागान्सप्तोच्छ्रितं कुर्याच्छिखरं विस्तृतं षट् ।
अर्धभागोच्छ्रिता ग्रीवा स्यादेकं भागमण्डकम् ॥
चन्द्रि कार्धपदेन स्यात्सार्धं तु कलशः पदम् ।
मञ्जरीः पद्मपत्राग्रे तुल्याः सर्वत्र कारयेत् ॥
अधस्ताद्भद्र पीठं तु वास्तुपादेन शोभनम् ।
यः कुर्यात्सर्वतोभद्रं सर्वलक्षणसंयुतम् ॥
जयश्रीर्जायते तस्य --- ।
सर्वतोभद्रः ।
ब्रूतो विमानं दस्या सादस्याथ लक्षणम् ॥
गणगन्धर्वजुष्टस्य वल्लभस्य दिवस्पतेः ।
चतुरश्रीकृते क्षेत्रे शतधा प्रविभाजिते ॥
विमानं विभजेत् प्राज्ञः श्रेयःपुष्टिसुखावहम् ।
भदैश्चतुर्भिस्तं कुर्यात्कर्णप्राग्ग्रीवकैस्तथा ॥
विस्ताराधं भवेद्गर्भो यच्छेषं तेन भित्तयः ।
त्रिंशद्वा मतो ज्येष्ठो मध्यमः पञ्चविंशतिः ॥
कनीयांस्तु विधातव्यः षोडशाप्येकविंशतिः ।
जातिशुद्धो भवेदेको मञ्जरीभिस्तथापरः ॥
मिश्रकस्य विमानस्य त्रैविध्यमिति कीर्तितम् ।
ज्येष्ठो मिश्रको निर्मागेः सर्वः कैलास द्र वान् ॥
मध्यमो जातिशुद्धस्तु मञ्जरीभिर्विवर्जितः ।
कनीयांश्च विधातव्यो मञ्जरीभिरलङ्कृतः ॥
कर्णप्राग्ग्रीवविस्तारः कर्तव्यो भागसम्मितः ।
भागार्धं क्षोभणा कार्या यच्छेषं तच्च कर्णवत् ॥
भागस्यार्धेन कुर्वीत तस्माद्भद्र स्य निर्गमम् ।
मिश्रकस्य चतुर्भागः प्राग्ग्रीवो विस्तरेण तु ॥
मूलसूत्रानुसारेण पार्श्वयोः पदिकौ रथौ ।
ऊर्ध्वमानं विमानस्य यथावदथ कथ्यते ॥
द्विपदं पीठमाख्यातं किन्नरैरुपशोभितम् ।
स्कन्धं यावच्च भागानां द्वाविंशतिरुदाहृआ! ॥
वेदीबन्धो तु --- सार्धभागद्व --- भवेत् ।
चतुर्भागोऽत्र --- छाद्या भागार्धेन --- किन्नराः ॥
मेखलान्तरपत्रं च पदमेकं समुन्नतम् ।
रूपाणि जङ्घागात्रे स्युर्वा चारिणां रथके ॥
स्तरसेका तस्य मध्ये स्यान्मकरग्रासभूषिता ।
भल्लिकातोरणैश्चारुघण्टाचमरकिन्नरैः ॥
ऊर्ध्वं तुलाप्रमाणस्य चतुर्भोमं तु प्रथम ।
--- भूमिकायां चतुर्भागसमुन्नता ॥
सोर्धभागा त्वपरा विस्तारा सार्धभागिकी ।
संक्षेपः प्रथमोऽस्याः कलशान्ते पदं भवेत् ॥
तृतीया त्रिपदा कार्या सपादपदविस्तृता ।
पदार्धेन तु संक्षेपस्तस्याः कार्यो विचक्षणैः ॥
चतुर्थी त्रिपदा कार्या भूमिर्मेखलया सह ।
ललिता मञ्जरीभिश्च नीलोत्पलदलाकृतिः ॥
सीम्नः पञ्चगुणं सूत्रं रेखान्तं तत्र वर्तयेत् ।
व्यासहवसममात्रा प्रवेशः प्रथमो भुवः ॥
ततोऽर्धवृद्धिवृद्धौ द्वावन्यस्तुर्यस्तु तत्समः ।
पदार्धं वेदिकोत्सेध विस्तारात्पञ्चभागिकी ॥
ग्रीवा पादोनभागं स्यात्सपादं भगमण्डकम् ।
कङ्कतीफलरूपं च मन्दारकुसुमाकृति ॥
चन्द्रि का ग्रीवया तुल्या कलशो द्विपदोन्नतः ।
विमानं छन्दकं कुर्यात्सर्वलक्षणसंयुतम् ॥
अश्वमेधप्रधानैर्यदिष्टैः क्रतुशतैर्भवेत् ।
तदेकेन विभानेन फलमाप्नोति मानवः ॥
विमानम् ।
नन्दनस्याथ वक्ष्यामः प्रासादस्येह लक्षणम् ।
द्वाविंशतिकरं क्षेत्रमष्टधा प्रविभाजयेत् ॥
चतुर्भागप्रविस्तारं तस्य भद्रं प्रकल्पयेत् ।
भागेनैकेन निष्क्रान्तं प्राग्रीवं चास्य शोभनम् ॥
मूलकर्णस्य पदिकौ कर्तव्यौ पार्श्वगौ रथौ ।
षडङ्गुलं त्र्यङ्गुलं वा चतुरङ्गुलमेव च ॥
जलान्तरं प्रकुर्वीत दीयते तत्र मञ्जरी ।
गभश्चतुर्भिर्भागैः स्याच्छेषं भित्त्यन्धकारिका ॥
द्विपदं कन्दभद्रं स्यात्पदपादेन निर्गतम् ।
पुरतो मण्डपं चास्य सुग्रीवं नाम कारयेत् ॥
द्वैगुण्यं मूर्धविस्तारार्धे भ---वेदिका ।
रेखामस्य तथा कुर्यात्कैलासस्य यथोदिता ॥
भूमयः षड् विधातव्या द्वादशाण्डाः पृथक्पृथक् ।
नन्दयत्येष कर्तारमिह लोके परे च यत् ॥
नन्दनो नाम तेनोक्तः प्राज्ञैः प्रासादसत्तमः ।
नन्दनः ।
अभिदध्मः प्रासादं स्वस्तिकं स्वस्तिदायकम् ॥
देवासुरगणैर्वन्द्य पक्षसिद्धमहोरगैः ।
ज्येष्ठमध्यकनिष्ठस्य तलच्छन्दोऽस्य यदेशः ॥
यादृगूर्ध्वप्रमाणं च तत्सम्यगिहकथ्यते ।
चतुरश्रे समे क्षेत्रे पञ्चविंशतिहस्तके ॥
सूत्रपातं प्रकुर्वीत कर्णतिर्यङ्मुखायतम् ।
ततः सीमार्धसूत्रेण वृत्तमालिख्य निश्चितम् ॥
द्वात्रिंशता समन्ताद्रे खाभिर्विभजेत्ततः ।
वृत्तं तथोमुघाताक्षिर्दिर्विदस्थाभिरङ्कयेत् ॥
दिक्कर्णसूत्रयोर्मध्यं ततो सेवत्रयं बुधः ।
कुर्याद्द्वात्रिंशदेवं स्युर्भागास्तुल्यप्रमाणकाः ॥
ऐन्द्र या!दिष्वीशपर्यन्तास्वष्टौ शालाः प्रकल्पयेत् ।
शालान्तरेषु कुर्वीत कोणानष्टौ यथाक्रमम् ॥
कोणात्कोणं नयेत्सूत्रं त्यक्त्वा शालाद्वयं मुहुः ।
विदिक्ष्वष्टसु सूत्राग्रं पद्मपत्रवदानयेत् ॥
कोणाश्च रथिकाश्चैव भवन्त्येवं सुलक्षणाः ।
चतुरश्रा भवन्त्यष्टौ शाला भागद्वयायताः ॥
द्व्यंशानि कर्णभद्रा णि पद्मपत्रनिभानि च ।
ऊर्ध्वमानं भवत्यस्य द्विगुणं ह्यूर्ध्वमा---नात् ॥
विंशत्या विभजेदूर्ध्वं तत्राष्ट ष्टांशस्तुलोदयः ।
शेषां तु मञ्जरीं कुर्यादास्कन्धावधि बुद्धिमान् ॥
विस्तारपञ्चमांशेन पीठोच्छ्रायं प्रकल्पयेत् ।
त्रिपदं वेदिकाबन्धं सुएकेण समन्वितम् ॥
जङ्घांशलंबनां कुर्याच्चतुर्भागसमुच्छ्रिताम् ।
मेखलान्तरपत्रं च भागेनैकेन कारयेत् ॥
द्वादशांशोच्छ्रिता रेखा कार्या सप्त च भूमयः ।
अर्धभागोच्छ्रिता ग्रीवा विस्तारेण चतुष्पदा ॥
स्कन्धः षड्भागविस्तारः कार्यो वृत्तः सुशोभनः ।
समालिखेदेषु कोशं विस्तारात्त्रिगुणात्मना ॥
सूत्रेण येन वा स्कन्धो भवेत् षड्भागविस्तृतः ।
हस्तैः स्यात्पञ्चविंशत्या ज्येष्ठः षोडशभिः परः ॥
कनीयान् स्वस्तिको ज्ञेयः करैर्द्वादशभिः पुनः ।
भागषट्कसमुच्छ्राया जङ्घा ज्येष्ठस्य कीर्तिता ॥
मध्यमाधमयोः पञ्चचतुर्भागोच्छ्रिता क्रमात् ।
स्वस्तिके कारिते स्वस्ति सर्वलोकस्य जायते ॥
विशेषतश्च भूपानां कर्तुश्च स्यात् समीहितम् ।
स्वस्तिकम् ।
मुक्तकोणमथ ब्रूमः प्रासादं स्यात्स च त्रिधा ॥
हस्तैः क्रमेण ज्येष्ठादिः षोडशद्वादशाष्टभिः ।
ज्येष्ठो दश भागान्स्यान्मध्यमस्तु चतुर्दश ॥
कनीयान् दश भागान्स्यात्सदस्तस्याभिधीयते ।
चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः ॥
कोष्ठकानां विधातव्यं चतुर्विंशं शतत्रयम् ।
भागषट्त्रिंशता कुर्यान्मध्ये गर्भगृहं शुभम् ॥
बाह्यभित्तिस्तथान्धारी मध्यभित्तिरिति त्रयम् ।
पृथक्पृथक् स्याद्द्विपदविस्तारं परिमाणतः ॥
चतुर्भागायता शाला भागेनैकेन निर्गता ।
शालाया भूषणं भद्रं विधायैतत्पदद्वयम् ॥
तत्पार्श्वद्वितये कुर्यात्त्वधिके भागिके बुधः ।
वार्यन्तराणि कुर्वीत दिक्ष्वष्टचतसृष्वपि ॥
वार्यन्तरानन्तरं तु भागद्वितयसंमितान् ।
अष्टौ कुर्वीत रथिकांश्चतुर्दिशमनुत्तमान् ॥
कोणे द्विभागिकैः कुर्याद्र थानामांससंमिता ।
कोणे रथान्परित्यज्य शेषं कुर्याद्यथोदितम् ॥
मध्यमोऽयं समाख्यातः कनीयान् कथ्यतेऽधुना ।
चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥
चतुर्भागा भवेच्छाला भागेनैकेन निर्गता ।
एकभागप्रमाणानि पार्श्वे वार्यन्तराणि च ॥
तेषां मध्ये प्रकुर्वीत सरोजदलसंनिभम् ।
रथकर्णोन्यर्णे यथावच्च सलिलान्तरभूषणम् ॥
भागार्धं क्षोभणा कार्या चतुष्कोणे व्यवस्थिता ।
साधभागोन्मितान्कुर्यात्कर्णप्राग्ग्रीवकान्शुभान् ॥
वार्यन्तराणां प्रोक्ता भूषश्रोभिकनीयसि ।
प्रासादे मध्यमेऽप्येषा ज्यायस्यपि च कल्प्यवै ॥
त्रिविधोऽयं समाख्यातो मुक्तकोणः समासतः ।
ऊर्ध्वमानं भवेदस्य विस्ताराद्द्विगुणोच्छ्रयम् ॥
असिस्तु पश्चदशभिस्तन्मध्यं स्यात्तुलोदयः ।
चतुष्पदो वेदिबन्धो जङ्घा सार्धैश्च सप्तभिः ॥
मेखलान्तरपत्रं चार्धहीरकं पदम् ।
त्रिपदा कर्णशृङ्गास्य कलशान्तसमुच्छ्रयान् ॥
सिंहकर्णश्च कर्तव्यः स्व---भागे समुन्नतः ।
ऊर्ध्वतः कर्णशृङ्ग विधेया मूलमञ्जरी ॥
सावषो विस्तरो---पदान्यष्टादशोच्छ्रिताः ।
चतुर्दिशं समायामः स्कन्धः स्यान्नवभागिकः ॥
मञ्जर्यास्त्र्यंशपुरेमनः शुकनाससमुच्छ्रितिः ।
ग्रीवा--मेन भागेन कुर्याद्द्विपदमण्डकम् ॥
चण्डिकां सार्धभागेन त्रिपदं कलशोच्छ्रयम् ।
--- यन्नरः कश्चिन्मुक्तकोणं महायशाः ॥
संप्राप्नो ते महासौख्यं विमुक्तः सर्वपातकैः ।
सर्वद्वन्द्वविनिर्मुक्तः सर्वकिल्बिषवर्जितः ॥
सर्वपापविनिर्मुक्तो भोगं मोक्षं च विन्दति ।
मुक्तकोणः ।
श्रीवत्समथ वक्ष्यामः प्रासादं सुरपूजितम् ॥
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ।
षड्भिर्भागैर्भवेद्गर्भो भित्तिः कार्या द्विभागिकी ॥
रथकं त्रिपदं कुर्यात्प्रत्यङ्गात्सार्धभागिकात् ।
द्विपदं कर्णमस्याहुर्विदिक्षु चतसृष्वपि ॥
भागार्धं क्षोभणा क्षेपात्तदर्धार्धं जलान्तरम् ।
प्रक्षेपः स्यात्पदार्धेन पदमानस्य बाह्यतः ॥
द्वे पदे निर्गतं चास्य शुकनासं निवेशयेत् ।
वास्तुविस्तारपादेन कर्तव्या द्वारविस्तृतिः ॥
द्वारोच्छ्राय विस्तारात्कर्तव्यो द्विगुणो बुधैः ।
ऊर्ध्वमानमथ ब्रूमः श्रीवत्सस्य यथोदितम् ॥
पीठं प्रासादपादेन खुरकश्च पदार्धकः ।
विस्ताराद्द्विगुणं कर्तव्यं कुम्भकादितः ॥
अंशैर्द्वादशभिस्तेषु कुर्याच्छिखरमायतम् ।
अष्टभागं तुलोच्छ्रायं वेदी सार्धद्विभागिकी ॥
कुम्भकं पदिकं कुर्यात्पादोनांशं मसूरकम् ।
पादोनं पादेन स्यात् मेखलान्तरपत्रकम् ॥
चतुर्भागोच्छ्रिता जङ्घा भागार्धं हीरकं भवेत् ।
मेखलान्तरपत्रं तु भागेनैकेन कारयेत् ॥
षड्भागविस्तृतं स्कन्धं भाजयेद्दशभिः पदैः ।
यथा मूले तथा स्कन्धेऽप्यङ्गप्रत्यङ्गकल्पना ॥
स्कन्धपार्श्वे तु या रेखा व्यक्ताश्च स्कन्धबाह्यतः ।
भजेत्ता दशभिर्भागै रूढमेवं विभाजयेत् ॥
ऊर्ध्वाधः प्रतिभागस्तत्रास्यात्पत्रसंहतिः ।
तदाकृतिं बाह्यरेखां गात्रे गात्रे प्रकल्पयेत् ॥
अनुमात्रगुणं सूत्रं त्रिभागेन समन्वितम् ।
भ्रमयेत्कोणरेखा स्यात्प्रत्यङ्गेस्तत्रपञ्चकान् ॥
षड्गुणेन तु सूत्रेण रथरेखां समालिखेत् ।
अत्र स्युर्भूमयः सप्त प्रथमांशद्वयोच्छ्रिता ॥
द्वितीया पदपादार्धहीना भूमिस्ततो भवेत् ।
पादद्वयं भागहीनं तृतीयायां भवेद्भुवि ॥
सार्धभागविहीनं च चतुर्थी स्यात्पदद्वयम् ।
पञ्चमा सार्धभागेन पदं स्यात्स्कन्धशीर्षकम् ॥
एवं परस्परं भागं पादार्धेन जिता भुवः ।
त्रिभागीकृत्य शिखरं तत्रैकं भागमुत्सृजेत् ॥
शुकनासोच्छ्रितिः शेषं सिंहेनाधिष्ठिता भवेत् ।
पादोनभागा ग्रीवाण्डं सपादं पदमुच्छ्रितम् ॥
रेखा --- विधातव्यं --- न्यूनाधिकमण्डकम् ।
सपादभागमानेन कर्तव्यं चन्द्रि काद्वयम् ॥
पद्मपत्राकृतिं कुर्यान्मध्ये चामलसारिकाम् ।
द्विपदं कलशं कुर्याद्बीजपूरकवर्जितम् ॥
श्रीवत्सं कारयेद्यस्तु प्रासादमतिसुन्दरम् ।
कुलानां शतमुद्धृत्य स व्रजत्यमरावतीम् ॥
श्रीवत्सः ।
अथ हंसस्य वक्ष्यामः प्रासादस्येह लक्षणम् ।
चतुरश्रीकृते क्षेत्रे चतुर्भिर्विभजेत् पदैः ॥
भागैश्चतुर्भिर्गर्भः स्याद्भित्तिर्द्वादशभागिकी ।
भागद्वयेन भद्रा णि ततश्च परिकल्पयेत् ॥
चतुर्भागेन निष्क्रामस्तेषां गर्भस्य शस्यते ।
भागस्य षोडशांशेन कुर्याद् नीरन्तराणि च ॥
पीठिका वेदिकाबन्धो जङ्घा मेखलया सह ।
ऊर्ध्वमानं च कर्तव्यं स्वस्तिकस्य यथोदितम् ॥
मध्ये किन्नररूपाणि पद्मपत्राणि चाप्यधः ।
उपरि व्यालहाराश्च पीठमेवं विभूषयेत् ॥
त्रिभौमं पञ्चभौमं वा कुर्यादेनं विचक्षणः ।
नागरं द्रा विडेश्चेति कर्णे कर्णे निवेशयेत् ॥
भूमिकाभाञ्जि कूटानि कुर्यादेकान्तराणि च ।
रथिके रथिका कुर्याद् विन्यनागरकर्मणा ॥
विस्तारार्धेन वेदी स्याद् ग्रीवा चास्य पदार्धिका ।
अण्डकं पदिकं कार्यं कङ्कतीफलसन्निभम् ॥
--- चण्डिका कलशः स्यात्पदोच्छ्रितः ।
यथा विराजते हंसोमाशिरसि स्थितः ॥
प्रासादोऽपि तथा हंसः पुरमध्ये विराजते ।
हंसाख्यमेनं प्रासादं कारयेद्यो भरोत्तमा ॥
तावत्स्वर्गे वसेच्छ्रीमान् यावदिन्द्रा श्चतुर्दश ।
हंसः ।
रुचकाख्यमथ ब्रूमः प्रासादं पुरभूषणम् ॥
आदौ समस्तवस्तूनां कल्पितं पद्मजन्मना ।
चतुरश्रीकृते क्षेत्रे चतुर्भिर्भाजिते पदैः ॥
भागमेकं भवेद्भित्तिस्तस्य गर्भः पदद्वयम् ।
वेदीबन्धं तथा जङ्घां मेखलामूर्ध्वमेखलाम् ॥
मानमूर्ध्वमधश्चास्य श्रीवत्सस्येव कारयेत् ।
कोणेषु स्तम्भकाः कार्या हाइ हीइसार्षसमन्विता ॥
मध्ये तु रथिका कार्या चारकर्मविभूषिता ।
चतुर्भौममिदं कार्यंस्तवैवसट कर्मणा ॥
युक्तं मध्ये तु रथिका प्रतिभूमि विधीते ।
रुचकः कारितो येन प्रासादः शुभवास्तुनि ॥
कुलानां तारितं तेन शतमात्मा तथोद्धृतः ।
रुचकः ।
वर्धमानमथ ब्रूमो धर्मारोग्ययशस्करम् ॥
तस्याष्ठगुणमैश्वर्यं भवेद्यः कारयेद्यदि ।
चतुरश्रं समं क्षेत्रं भाजयेद्दशभिः पदैः ॥
ततो भागचतुष्केण कर्तव्यो मध्यमो रथः ।
एकैकेन विभागेन द्वौ रथौ वामदक्षिणौ ॥
कर्णास्तु पदा कार्या वर्जं चारिधर्मभिः ।
भद्र स्य निर्गमं तत्र भागेनैकेन कारयेत् ॥
भागस्यार्धेन पार्श्वस्थरथकानां विनिर्गतम् ।
विस्तारार्धेन गर्भः स्याद्यच्छेषं तेन भित्तयः ॥
ऊर्ध्वमानं भवेदस्य स्वस्तिकस्य यथोदितम् ।
वर्धमानोऽयमाख्यातो यशोलक्ष्मीविवर्धनः ॥
वर्धमानः ।
गरुडस्याधुना ब्रूमः प्रासादस्येह लक्षणम् ।
प्रासादः सर्वदैवायं गरुडध्वजवल्लभः ॥
द्वाविंशतिपदं क्षेत्रं भक्ताल्या समायतम् ।
पूर्वापरेण दशभिर्भागैर्भूयो विभाजितम् ॥
कुर्वीत मध्ये प्रासादं तस्मिञ्शतपदं बुधः ।
द्विपदं भित्तिविस्तारं कर्णांश्चापि द्विभागिकान् ॥
उत्सृष्टमूलप्रासादमुभयोरपि पक्षयोः ।
अग्रतः पृष्ठतश्चापि द्वौ द्वौ भागौ परित्यजेत् ॥
शेषेण षट्पदौ --- सहसायामविस्तृती ।
गर्भः षोडशभिर्भागैर्भित्तिः स्यात्पदमेतयोः ॥
रीवत्सहंसरुचकवर्धमानेषु कोऽपि यः ।
रोचते गरुडं कुर्यात्तमेकं स्वेच्छया बुधः
तस्य पक्षौ विधातव्यौ निर्गतौ वामदक्षणम् ।
एवमेते त्रयो गर्भा गरुडे परिकीर्तिताः ॥
गरुडः ।
प्रासादस्य गजस्याथ लक्षणं सम्प्रचक्ष्महे ।
चतुःषष्टिपदं क्षेत्रं विधाय विभजेद्गजम् ॥
ततः सीमाधसूत्रेण पृष्ठतो वृत्तमालिखेत् ।
गर्भं कुर्यात्तदर्धेन --- रेखाकृतिं त --- ॥
ऊर्ध्वप्रमाणमधुना गजस्य स्पष्टमुच्यते ।
स्तम्भाश्चतुष्पदोच्छ्रायाः कार्याः कोणचतुष्टये ॥
जङ्घेयमस्य निर्दिष्टा खल्लस्तम्भान्तरं भवेत् ।
पट्टिकान्तरपत्राभ्यां समभागेन मेखला ॥
अग्रतः शूरसेनं स्यात्पृष्ठतस्तु गजाकृतिः ।
गजः ।
प्रासादस्याधुना लक्ष्म सिंहसंज्ञस्य कथ्यते ॥
चतुरश्रं समं क्षेत्रं विभजेन्नन्दने यथा ।
गर्भो भागैश्चतुर्भिः स्यात्कञ्चभित्तिस्तु भागिकी ॥
भागेनान्धारिका कार्या बाह्यभित्तिश्च भागिकी ।
भद्रं भागैश्चतुर्भिः स्याद्भागेनैकेन निर्गतम् ॥
कर्णस्तु द्विपदः कार्यो जलमार्गसमन्वितः ।
द्विपदं पीठमुत्सेधात्सिंहरूपैरधिष्टितम् ॥
खुरकं च पदार्धेन कुर्यात्पीठस्य मध्यतः ।
कुर्यादूर्ध्वं ---विस्ताराद्द्विगुणं कलयाधिकम् ॥
द्विपदं वेदिकाबन्धं जङ्घा चास्य चतुष्पदम् ।
मेखलान्तरपत्रं च विदध्याद्भागिकोदयम् ॥
त्र्यंशानि कर्णशृङ्गाणि ग्रीवाण्डकलशैः सह ।
सिंहकर्णस्तु कर्तव्यः समुच्छ्रायाच्चतुष्पदः ॥
सिंहरूपसमाक्रान्ते प्रासादे सिंहसंज्ञिते ।
ऊर्ध्वतः कर्णशृङ्गस्य षट्पदा मूलमञ्जरी ॥
सप्तभागसमुत्सेधा लताभिः पञ्चभिर्युता ।
ग्रीवोच्छ्रायस्तु कर्तव्यः पदं पादेन वर्जितम् ॥
अण्डकं तु पदोत्सेधं रेखायां च द्विनिस्सृतम् ।
पादोनभागमुच्छ्रायश्चन्द्रि कायाः प्रकीर्तितः ॥
द्विपदं कलशं कुर्याद्बीजपूरकसंयुतम् ।
यदामं कारयेत्स स्यादजेयः पुरुषो ध्रुवम् ॥
व्यवहारे नृपकुले सङ्ग्रामे शक्रसंसदि ।
सिंहः ।
इदानीं पद्मकं ब्रूमः प्रासादं पदमसन्निभम् ॥
यः कसान् कारयत्येनं स कामाल्लँ भतेऽखिलान् ।
चतुरश्रीकृते क्षेत्रे --- दिक्षु विदिक्षु वा ॥
न्यस्येत्पृथक्पृथक्सूत्राण्यथ वृत्तं प्रसाधयेत् ।
दिधिसूत्रयोर्मध्ये चतुरश्रं तु रोमकम् ॥
तुल्यप्रामाण्यविन्यस्येत्स्युर्द्वात्रिंशदमीरितः ।
विस्तृतान्यथ भागौ द्वौ कर्णपत्राणि षोडश ॥
पद्मपत्रसमानानि वारिमार्गान्वितानि च ।
गर्भः स्याद्बाह्य संमोहा सीमाधं यच्छेषं तेन भित्तयः ॥
षडष्टद्वादशकरः पद्मो ज्येष्ठादिकः क्रमात् ।
द्वात्रिंशत् षोडशाष्टौ च तस्य स्यू रथकाः क्रमात् ॥
जलान्तराणि चैतस्य श्रीवत्सस्येव कारयेत् ।
पीठकं वेदिकाबन्धं जङ्घाशेखरचन्द्रि काः ॥
अण्डकं कलशं ग्रीवामेतस्योच्छ्रयमानतः ।
कुर्वीत स्वस्तिकस्येव स्वविस्तारानुसारतः ॥
पद्मः ।
अथाभिधीयते सम्यक् प्रासादो नन्दिवर्धनः ।
नन्दयत्येष कर्तारं पुत्रदारधनादिभिः ॥
चतुरश्रीकृते क्षेत्रे भजेत् षोडशभिः पदैः ।
शतद्वयं विभागाः स्युः षट्पञ्चाशत्तथा परैः ॥
गर्भः शतपदः कार्यो भित्तिश्च त्रिपदायता ।
कर्णप्रमाणं त्रिपदं ववबन्धसमन्वितम् ॥
भागायतं भागपदं विस्तीर्णं वारिवर्त्म च ।
विभजेत्पञ्चधा कर्णं तस्य भद्रं त्रिभिः पदैः ॥
भागं भागं भवेत्कर्णे भागार्धं भद्र निर्गमः ।
प्रत्यङ्गं द्विपदं कुर्याद्वारिमार्गेण संयुतम् ॥
निर्गमां सार्धभागेन पार्श्वयोरुभयोरपि ।
शालाषट्पदविस्तारा प्रत्यङ्गा भागनिर्गतम् ॥
भद्रं तदग्रतः कुर्याद्विस्तारेण चतुष्पदम् ।
भागार्धनिर्गमं सम्यग्दिक्षु सर्वास्वयं विधिः ॥
कर्णस्यार्धे नयेद्गर्भाद्वृत्तं तत्पूर्वमालिखेत् ।
अनुसारेण वितरेदङ्गप्रत्यङ्गनिर्गमम् ॥
सार्धभागं गजाधारं साब्जपत्रं समेखलम् ।
कुर्यात्पदं पादहीनं जङ्घाकुम्भसमुच्छ्रितम् ॥
भागपादेन कणकं पादोनान्तरपत्रकम् ।
तदर्धं ग्रासहारं च भागार्धं खुरकं तथा ॥
खुरकेण समं प्रोक्ता पीठस्यैषा समुच्छ्रितिः ।
विस्ताराद्द्विगुणश्चायं स्यादूर्ध्वकल्पयाधकः ।
तुलोदयो विधातव्यस्त्रयोदशभिरंशकैः ।
विंशत्यंशं तु शिखरं --- श्चतुष्पदम् ॥
पादोनभागद्वितयं कुम्भकं तेषु कारयेत् ।
भागेनैकेन कलशमर्धेनान्तरपत्रकम् ॥
पादहीनपदं कार्या मेखलास्य सुशोभना ।
जङ्घा षड्भागिकोच्छ्राया भागार्धं ग्रासपट्टिका ॥
हीरकं चैकभागेन कर्णस्थं परिकीर्तितम् ।
मेखलान्तरपत्रं च साधभागसमुन्नतम् ॥
जङ्घामध्ये तु कर्तव्या रथका रथकास्तथा ।
वृत्तस्तम्भैः समकरैर्ग्रासैर्मुक्तावरालकैः ॥
जङ्घा तु संवृता कार्या मल्लच्छाद्यैर्विभूषिता ।
जलान्तरेषु रूपाणि कुर्यात्सङ्घाटकैः शुभैः ॥
कुर्यात्तुलोदयस्योर्ध्वमिमि भूमिभिरष्टभिः ।
स्कन्धाष्टांशोऽस्य दूराद्या---सपदत्रयम् ॥
द्वितीया त्रिपदा प्रोक्ता तृतीया पादवर्जिता ।
सार्धद्व्यंशा चतुर्थी च पादोना पञ्चमी ततः ॥
षष्ठी तु द्विपदा कार्या पादोना सप्तमी ततः ।
अष्टमी तु कृतिः कार्या सार्धभागेन संमिता ॥
एकैकस्याः पदार्धेन प्रक्षेपः स्यात्परस्परम् ।
कोणे कूटानि कुर्वीत प्रत्यङ्गे तिका लकानि च ॥
भद्रे कुर्वीत रथिका विविधाः कर्मसङ्कुलाः ।
रथस्य पार्श्वयोर्लेखाः कर्तव्याश्चोभयोरपि ॥
वेदिकास्य विधातव्या भागमेकं समुन्नता ।
ग्रीवा तावद्भागमेकमण्डकं द्विपदोदयम् ॥
कुर्यात्सामलसारिं च चन्द्रि कां सार्धभागिकाम् ।
कलशस्त्रिपदः कार्यो बीजपूरं बहिस्ततः ॥
पुरतः शूरसेनं स्यान्मध्ये रूपसमाकुलम् ।
मिश्रकस्य विमानस्य सदृशं कारयेदमुम् ॥
भूषणं भवनस्यास्य प्रासादं नन्दिवर्धनम् ।
प्रासादविंशतिरियं परिकीर्तितेह ।
मेर्वादिका सकलनाकसदामभीष्टा ॥
तत्त्वेन वेत्ति य इमां स समग्रशिल्पि- ।
वर्गाग्रणीर्बहुमतश्च भवेन्नृपाणाम् ॥

इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP