संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १५०

यन्त्रविधानं नामैकत्रिंशोऽध्यायः - १०१ ते १५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


दृग्ग्रीवातलहस्तप्रकोष्ठबाहूरुहस्तशाखादि ।
सच्छिद्रं वपुरखिलं तत्सन्धिषु खण्डशो घटयेत् ॥१०१॥
श्लिष्टं कीलकविधिना दारुमयं सृष्टचर्मणा गुप्तम् ।
पुंसोऽथवा युवत्या रूपं कृत्वातिरमणीयम् ॥१०२॥
रन्ध्रगतैः प्रत्यङ्गं विधिना नाराचसङ्गतैः सूत्रैः ।
ग्रीवाचलनप्रसरणविकुञ्चनादीनि विदधाति ॥१०३॥
करग्रहणताम्बूलप्रदानजलसेचनप्रमाणादि ।
आदर्शप्रतिलोकनवीणावाद्यादि च करोति ॥१०४॥
एवमन्यदपि चेदृशमेतत्कर्म विस्मयविधायि विधत्ते ।
जृम्भितेन विधिना निजबुद्धेः कृष्टमुक्तगुणचक्रवशेन ॥१०५॥
पुंसो दारुजमूर्ध्वं रूपं कृत्वा निकेतनद्वारि ।
तत्करयोजितदण्डं निरुणद्धि प्रविशतां वर्त्म ॥१०६॥
खड्गहस्तमथ मुद्गरहस्तं कुन्तहस्तमथवा यदि तत्स्यात् ।
तन्निहन्ति विशतो निशि चौरान् द्वारि संवृतमुखं प्रसभेन ॥१०७॥
ये चापाद्या ये शतघ्न्यादयोऽस्मिन्नुष्ट्रग्रीवाद्याश्च दुर्गस्य गुप्त्यै ।
ये क्रीडाद्याः क्रीडनार्थं च राज्ञां सर्वेऽपि स्युर्योगतस्ते गुणानाम् ॥१०८॥
इदानीं प्रक्रमायातं वारियन्त्रं प्रचक्ष्महे ।
क्रीडार्थं कार्यसिद्ध्यै च चतुर्धा तद्गतिं विदुः ॥१०९॥
निम्नगं भवति द्रो णीदेशादूर्ध्वस्थिताज्जलम् ।
यत्र तत्पातयन्त्रः स्याद्वाटिकादिप्रयोजनम् ॥११०॥
उच्छ्रायसमपाताख्यं यत्रोर्ध्वा नाडिका पयः ।
जलाधारगुणान्मुञ्चेदधस्तात्समनाडिका ॥१११॥
यत्र पातसमुच्छ्रायं पतित्वोच्छ्रायतो जलम् ।
तिर्यग्गत्वा प्रयात्यूर्ध्वं सच्छिद्र स्तम्भयोगतः ॥११२॥
पतित्वोच्छ्रायतस्तोयं तिर्यगूर्ध्वोर्ध्वमेत्यथ ।
सच्छिद्र स्तम्भयोगेन तत्स्यात्पातसमोच्छ्रयम् ॥११३॥
वाप्यां वापि च कूपे विधानतो दीर्घिकादिका विहिता ।
यत्रोर्ध्वमम्बु गमयति तदिहोच्छ्रयसंज्ञितं कथितम् ॥११४॥
दारुजमिभस्य रूपं यत्सलिलं पात्रसंस्थितं पिबति ।
तन्माहात्म्यं निगदितमेतस्योच्छ्रायतुल्यस्य ॥११५॥
सलिलं सुरङ्गदेशानीतं निम्नेन वर्त्मना दूरे ।
अद्भुतमम्भस्थानं तदिह समोच्छ्रायतः कुरुते ॥११६॥
धारागृहमेकं स्यात्प्रवर्षणाख्यं ततो द्वितीयं च ।
प्राणालं जलमग्नं नन्द्यावर्तं तथान्यदपि ॥११७॥
प्राकृतजनार्थमेतन्न विधेयं योग्यमेतदवनिभुजाम् ।
मङ्गल्यानां सदनं दिव्यमिदं तुष्टिपुष्टिकरम् ॥११८॥
सलिलाशयस्य सविधे कस्याप्याश्रित्य शोभनं देशम् ।
यन्त्रोत्सेधाद्द्विगुणा त्रिगुणा वा नाडिका कार्या ॥११९॥
जलनिर्वाहसहासावन्तर्मसृणा बहिश्च नीरन्ध्रा ।
निर्व्यूढाम्भसि तस्यां शुभे मुहूर्ते गृहं कार्यम् ॥१२०॥
सर्वाभिरोषधीभिर्युक्तं सहिरण्यपूर्णकुम्भैश्च ।
सुविचित्रगन्धमाल्यं विनादितं भ्रमघोषेण ॥१२१॥
रत्नोद्भवैर्विचित्रैः स्तम्भैर्युक्तं हिरण्यघटितैर्वा ।
रजतोद्भवैः कदाचित्सुरदारुसमुद्भवैरथवा ॥१२२॥
श्रीखण्डोत्थैरथवा सालकमुख्यप्रशस्तवृक्षोत्थैः ।
शतसङ्ख्यैर्द्वात्रिंशत्सङ्ख्यैर्यदि वापि षोडशभिः ॥१२३॥
अथवा चतुस्समन्वितविंशतिसङ्ख्यैर्दिनेशसङ्ख्यैर्वा ।
भूषितमतिरमणीयैश्चतुर्भिरपि वा विधातव्यम् ॥१२४॥
प्राग्ग्रीवैरतिचित्रैः शालैर्जालैर्विभूषितं विविधैः ।
वेदीभिः परिकरितं कपोतपालीभिरभिरामम् ॥१२५॥
रमणीयसालभञ्जिकमनेकविधयन्त्रशकुनिकृतशोभम् ।
मिथुनैश्च वानराणां जम्भकनिवहैश्च नैकविधैः ॥१२६॥
विद्याधरसिद्धभुजङ्गकिन्नरैश्चारणैश्च रमणीयम् ।
नृत्यद्भिः परमगुणैः शिखण्डिभिर्मण्डितोद्देशम् ॥१२७॥
कल्पतरुभिर्विचित्रैश्चित्रलतावल्लिगुल्मसंछन्नम् ।
परपुष्टषट्पदालीमरालमालामनोहारि ॥१२८॥
प्रवहत्सकलस्रोतःसुश्लिष्टनिविष्टनाडिकं मध्ये ।
सच्छिद्र नाडिकयुतं नानाविधरूपरमणीयम् ॥१२९॥
सुश्लिष्टनाडिकाग्रे स्तम्भतुलाभित्तिसंश्रिते परितः ।
सम्यक्कृत्वा दृढतरविलेपनं वज्रलेपाद्यैः ॥१३०॥
लाक्षासर्जरसदृषन्मेषविषाणोत्थचूर्णसंमिश्रम् ।
अतसीकरञ्जतैलप्रविगाढो वज्रलेपः स्यात् ॥१३१॥
दृढसन्धिबन्धहेतोः स तत्र देयो द्विशः कदाचिद्वा ।
शणवल्कश्लेष्मातकसिक्थकतैलैः प्रलेपश्च ॥१३२॥
उच्छ्रययन्त्रेणैतद् भ्रान्तजलेनाथ तदभितः कृत्वा ।
चित्रानुपातयुक्तं प्रदर्शयेन्नृपतये स्थपतिः ॥१३३॥
कार्याण्यस्मिन् करिणां मिथुनान्यभितोऽम्बुकेलियुक्तानि ।
अन्योन्यपुष्करोञ्झितसीकरभयपिहितनयनानि ॥१३४॥
वर्षानुकृतं चास्मिन् प्रीतिमति प्रतिमङ्गजो वीक्ष्य ।
दृक्कटमेहनहस्तैर्मदमिव मुञ्चञ्जलं कार्यः ॥१३५॥
स्तनयोर्युगेन सृजती जलधारे तत्र कापि कार्या स्त्री ।
आनन्दाश्रुलवानिव सलिलकणान् पक्ष्मभिः काचित् ॥१३६॥
नाभिह्रदनदिकामिव विनिर्गतां कापि बिभ्रती धाराम् ।
काप्यङ्गुलीनखांशुभिरिव योषित्सिञ्चती कार्या ॥१३७॥
एवम्प्रायांश्चित्रान् स्वभावचेष्टान् बहूंश्च रमणीयान् ।
क्षोभान् विधाय कुर्यादाश्चर्यं नरपतेः स्थपतिः ॥१३८॥
मध्ये तस्य विधेयं सिंहासनममलहेममणिघटितम् ।
तत्रासीदेन्नरपतिरवनिपतिः श्रीपतिर्देवः ॥१३९॥
स्नायात्कदाचिदस्मिन् मङ्गलगीतैर्विवर्धितानन्दः ।
वादित्रनाट्यनिपुणैर्निषेव्यमाणः सुरेन्द्र इव ॥१४०॥
य एतस्मिन् गाढग्लपितघनघर्मव्यतिकरे ।
शुचौ धाराधाम्नि स्फुटसलिलधारे नरपतिः ।
सुखेनास्ते पश्यन् विविधजलशिल्पानि स भवे- ।
न्न मर्त्यः कन्त्वेष क्षितिकृतनिवासः सुरपतिः ॥१४१॥
जलदकुलाष्टकयुक्तं पूर्ववदन्यद्गृहं समारचयेत् ।
वर्षद्धारानिकरैः प्रवर्षणाख्यां तदाप्नोति ॥१४२॥
प्रतिकुलमस्मिन् कार्या दिव्यालङ्कारधारिणः पुरुषाः ।
विधिना त्रयः सुरूपाश्चत्वारः सप्त वा सुदृढाः ॥१४३॥
यन्त्रेण समोच्छ्रायेण तांश्चतुर्थेन वा ततः पुरुषान् ।
कृत्वा सवक्रनालानम्भोभिः पूरयेद् विमलैः ॥१४४॥
सलिलप्रवेशरन्ध्राण्यखिलानि पिधाय तत्र पुरुषाणाम् ।
अङ्गानि वारिमोक्षाण्यखिलान्यथ मोचयेत् तेषाम् ॥१४५॥
सलिलं सवक्रनालं द्वारप्रतिरोधमोचनैः पुरुषाः ।
मुञ्चन्ति स्वच्छममी विचित्रपातेन चित्रकरम् ॥१४६॥
इत्थमिमन् वारिधरान् सामस्याद् द्व्यन्तरेण वा सलिलम् ।
त्र्यन्ततो वा स्वेच्छं प्रवर्षयेदतिमहच्चित्रम् ॥१४७॥
इदं नानाकारं कुलभवनमाद्यं रतिपते- ।
र्निवासश्चित्राणामनुकरणमेकं जलमुचाम् ।
पयःपातैर्ग्रीष्मे रविकरपरीतापशमनं ।
न केषामत्यर्थं भवति नयनानन्दजननम् ॥१४८॥
एकेनाथ चतुर्भिः स्तम्भैरष्टभिरथार्कसङ्ख्यैर्वा ।
षोडशभिर्वा कुर्यान्मनोहरं गृहमिह द्वितलम् ॥१४९॥
भद्रै र्यतं चतुर्भिश्चतुरश्रं सर्वभित्तिसंयुक्तम् ।
ईलीतोरणयुक्तं कर्तव्यं पुष्पकाकारम् ॥१५०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP