तिष्यसन्तानः - अध्यायः २
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीरमे देवि तव भक्तकथानकम् ।
यथा त्वं ब्रदरीभावं प्राप्ता भक्तिवशानुगा ॥१॥
बदरो नाम राजर्षिर्हिमभूमौ पुराऽभवत् ।
महाभागवतो भक्तो वैष्णवोत्तम ऊर्ध्वगः ॥२॥
पृथिव्यर्धं शशासाऽसौ दिव्यसामर्थ्यसाधनैः ।
विमानान्यभवन् यस्य पारे लक्षं सुखानि च ॥३॥
सौवर्णानि कल्पवृक्षोद्यानोपशोभितानि हि ।
दिव्यकन्यानिवासानि स्मृद्धान्युच्चावचानि च ॥४॥
एकैकं सूर्यवद्भाति चन्द्रवत्तेजसां चयैः ।
यत्प्रभाभिर्निशा पृथ्व्यां लीनेव वर्तते तदा ॥५॥
भ्रान्तिर्नक्षत्रताराणां जायतेऽल्पे विमानके ।
चन्द्रज्योत्स्ना तु मिलिता तदा दुग्धायतेऽम्बरे ॥६॥
इन्द्रधनुःप्रकाशाश्चोत्प्रसरन्ति घनेष्वपि ।
विमानानां किरणानां बदरस्य महात्मनः ॥७॥
एकं सत्याभिधं दिव्यं विमानं सत्यसंचरम् ।
ब्रह्मसभायां नृपतिस्तेन याति हि योगिराट् ॥८॥
द्वितीयं चार्यमसंज्ञं पितलोकादिसञ्चरम् ।
तृतीयं त्रिदिवं नाम चैन्द्रपदं चतुर्थकम् ॥९॥
पञ्चमं भास्करं नाम षष्ठं कौमुदकं तथा ।
सप्तमं ध्रुवसंज्ञं चाऽष्टमं कैलासनामकम् ॥१०॥
धर्मसंज्ञं नवमं च मेरुसंज्ञं ततोऽधिकम् ।
श्वेतवाहं क्षीरवाहं तलाख्यान्यपराणि च ॥११ ॥
लोकालोकाभिधं चापि मनोजवानि तानि वै ।
यथाभिधानगुणकान्यतिदिगन्तगानि च ॥१२॥
सर्वभोग्यर्द्धिपूर्णानि यथा धिष्ण्यानि तानि ह ।
तेषु सर्वेषु रत्नानां सुवर्णानां च मूर्तयः ॥१३ ॥
अनादिश्रीकृष्णनारायणस्य प्रतिमाः शुभाः ।
श्रीमाणिक्यामहालक्ष्मीयुता युगलविग्रहाः ॥१४॥
गजासने स्थापिताः पूजिताः श्रीबदरेण ह ।
सर्वशृंगारशोभाढ्याः सर्वगन्धरसार्पिताः ॥१५॥
देवदूताः पार्षदाश्च भूसुराः साधवोऽमलाः ।
वैमानिकाः प्रविद्यन्ते तेषु भागवतोत्तमाः ॥१६॥
महाभागवतीसत्यः साध्व्यः शीलपरायणाः ।
चन्द्रानन्दाश्चन्द्रकान्त्याननाः स्वर्णप्रभान्विताः ॥१७॥
महाभक्तानिकास्तेषु विद्यन्ते बदरस्य ह ।
कीर्तनं सततं तेषु जायते बदरीश्वरि! ॥१८॥
यत्प्रसंगेन देवाद्या यान्ति ब्रह्म सनातनम् ।
नैतादृशोऽभवद् भक्तो येन जगत् प्रपूरितम् ॥१९॥
हरिकीर्तनभक्त्याढ्यमहाघोषैः समस्तकम् ।
स्थले स्थलेऽस्य नृपतेर्जयघोषः प्रवर्तते ॥२०॥
बदरस्य विमानानि यद्दिशं यन्ति तद्दिशि ।
नमन्ति देवमुनयो भक्त्या नृत्यन्ति तत्स्त्रियः ॥२१॥
पूजयन्ति विमाने श्रीकृष्णनारायणच्छविम् ।
नीराजयन्ति मुदिता दत्वोपदाः प्रयान्ति च ॥२२॥
बदरस्य महाराज्ये ग्रामे खेटे पुरादिषु ।
नगरे पत्तने राजधान्यां घोषेऽपि सर्वथा ॥२३॥
साधवो यतयः साध्व्यः पूज्यन्तेऽन्नाम्बरादिभिः ।
विप्रा दक्षिणया चापि निराश्रयाः शुभाश्रयैः ॥२४॥
अनाथाद्या यथापेक्षैर्नार्यः स्वेष्टसमर्पणैः ।
ग्रामे ग्रामे ब्रह्मयज्ञा जायन्ते बदरस्य वै ॥२५॥
अन्नसत्राणि भूभागे बदरस्य तु पद्मकम् ।
प्रपादानानि सर्वत्र चासन् कल्पलतास्तथा ॥२६॥
यात्रालवो लतामाप्य भुंजते भिक्षया फलम् ।
तृप्तिदं च रसं मिष्टं पिबन्ति च भजन्ति माम् ॥२७॥
वैष्णवानां मण्डलानि ह्यासन् वै प्रतिखर्वटम् ।
प्रातर्मध्याह्नके सायं कीर्तयन्ति भजन्ति माम् ॥२८॥
देवकथाकरा भूमावागत्य च कथां मम ।
वाचयित्वा संहितां च बोधयन्ति भजन्ति माम् ॥२९॥
उत्सवा उत्तमाः श्रेष्ठा जायन्ते च प्रजासु वै ।
ऊर्जाऽसिताष्टमीप्रभृत्यहस्सु द्वादशीष्वपि ॥३०॥
जयन्तीषु समस्तासु सत्संगाः संभवन्ति च ।
व्रतोत्सवानां सम्मानं पालनं पूजनादिकम् ॥३१॥
उद्यापनं चाऽऽदरश्च जायन्तेऽस्य प्रजास्वपि ।
नित्यं गवां तु बह्वीनां दानं नृपस्य जायते ॥३२॥
शेषो नवः कुतः स्वर्णमयो येन तु भूभुजा ।
प्रतिष्ठाप्य च तं शेषं नागं नीत्वा विमानके ॥३३॥
ययौ पातालके प्राह पूर्वशेषं निवर्तय ।
मम शेषो बलिष्ठोऽयं धारयिष्यति के भुवम् ॥३४॥
मूलशेषः परीक्षार्थं मुमोचाऽधो हि गोलकम् ।
सहसा स्वर्णनागस्तं भूगोलं के न्यधाद् द्रुतम् ॥३५॥
मूलशेषस्य मानं वै निर्मूलं संव्यजायत ।
गर्वो नष्टोऽथ नेमे तं बदरं स्वर्णशेषिणम् ॥३६॥
प्रार्थयामास मानार्थं धारणं निजमस्तके ।
अन्यथा भूभृता चाऽवमानितस्य यशोलयः ॥३७॥
अप्रतिष्ठा भवेल्लोके ययाचे गोलकं पुनः ।
धर्तुं निजफणायां वै तदा तु बदरो ददौ ॥३८॥
पूर्वशेषाय पृथिवीं स्वर्णशेषं निजालयम् ।
आनिनाय ततः स्वर्णशेषो विज्ञानवान् यतिः ॥३९॥
पतञ्जलिर्महायोगी विद्याधरो व्यजायत ।
सर्वयोगकलाभिश्च जगदुद्धारमाचरत् ॥४०॥
एवंविधस्य भक्तस्य बदरस्य गृहे गृहे ।
कृष्णधून्योऽभवन् बद्रि भक्तिश्चासीद् गृहे गृहे ॥४१॥
श्रीमाणिक्या सेवितस्य कृष्णनारायणस्य वै ।
मम मूलस्वरूपस्याऽऽश्रितं सर्वं जगद्ध्यभूत् ॥४२॥
शृणु बद्रीप्रभे देवि तदा राज्यं तु ऋद्धिमत् ।
स्वर्गोत्तरं भूतलं तु वीक्ष्याऽन्यभ्वर्धपालकाः ॥४३॥
पस्पर्धुर्बदरं भक्तं राजानं स्मृद्धिलालसाः ।
बहवो बदरं प्राप्याऽयुध्यन् पराजयं ह्यगुः ॥४४॥
भक्तो भक्त्या हि जीयेत नान्ययुद्धैः कदाचन ।
यद्गृहे भगवान् साक्षाद् वसति दुर्जयः कुतः ॥४५॥
राज्ञः शरैर्हि बहवो हता भूपा विरोधिनः ।
सर्वे ते निहता वार्धौ हिमवार्धिसमाह्वये ॥४६॥
किंपुरुषप्रदेशानां दक्षिणे मध्यसंस्थिते ।
द्विसाहस्रयोजनात्मविस्तृते मिष्टवारिणि ॥४७॥
मानसाख्यः समुद्रोऽयं मिष्टोदो ह्यभवत्तदा ।
सदा शीतलजलधिः सर्वरत्नसमन्वितः ॥४८॥
यत्रास्ते साम्प्रतं बद्रि हिमालयोऽद्रिराडिह ।
शृणु बद्रीप्रभे देवि जेतुं तु बदरं नृपम् ॥४९॥
आययौ त्वेकदा व्योम्ना हेमाऽनलोऽसुरो महान् ।
अपरं यत् पृथिव्यर्धं तस्मादर्बुदसैन्यवान् ॥५०॥
व्योममार्गेण सहसाऽयुतैर्विमानकै सह ।
खण्डे किंपुरुषे युद्धं बदरेण समाचरत् ॥५१॥
बदरस्य विमानानि ससैन्यानि तदाम्बरे ।
अभिपेतुश्चासुराणां सैन्येषु दिव्यशक्तयः ॥५२॥
सहस्रशो विमानानि नष्टान्यासुरकाणि वै ।
सैन्यानि मिष्टजलधौ भूत्वा यादांसि चाविशन् ॥५३॥
हेमानलोऽसुरवर्यो युयुधे बदरेण ह ।
मिथः सैन्यानि युयुधुः प्राणान्तनिश्चयानि वै ॥५४॥
दिव्यास्त्रवर्षणैर्दिव्यशरैर्दिव्यैश्च हेतिभिः ।
विद्युत्प्रवाहणैश्चापि पाशैर्वारुणजैस्तथा ॥५५॥
वज्रैश्च विविधैर्दण्डैः कालचक्रैर्विशालकैः ।
मन्त्रैस्तन्त्रैर्महायन्त्रैर्मायिकैरैन्द्रजालिकैः ॥५६॥
वाय्वग्निनागगवयैर्गरुत्मतैश्च वृश्चिकैः ।
पर्वतैश्चापि वृक्षैश्च युयुधिरे तु कृत्रिमैः ॥५७॥
हिमशैलैश्च विविधैर्ग्रहगोलैरनुत्तमैः ।
गदाभिश्चाण्डभेत्त्रीभिर्जघ्नुरन्योन्यमुद्रुषः ॥५८॥
आसुराणां हि सैन्यानि मारयित्वा मुहुर्मुहुः ।
मिष्टाब्धौ ते प्रविशन्ति स्वस्थास्तत्र भवन्ति च ॥५९॥
पुनर्बलं नीरुग्णत्वं प्राप्य चायान्ति संगरे ।
बदरेण हतास्ते च पुनर्विशन्ति सागरे ॥६०॥
अथाऽयं बदरो राजा भक्तराड् वीक्ष्य जीवितान् ।
समुद्रस्थानासुराँश्च चिन्तयामास चान्तरे ॥६१॥
कथमेषां समुद्रे वै विनाशं प्रतिपादये ।
पुनर्नैव यथा स्वस्था निर्गच्छेयुर्बहिर्युधि ॥६२॥
जलं सर्वं त्वब्धिरूपं हिमशैलात्मकं भवेत् ।
अन्तःस्थिता आसुरास्ते स्युर्मृताश्च शिलात्मकाः ॥६३॥
सञ्चिन्त्यैवं बदरोऽयं सस्मार चन्द्रदेवताम् ।
तूर्णं चोपस्थिता तत्र देवकार्यसहायिनी ॥६४॥
आसुराणां सुरघ्नानां विनाशार्थं मतिं दधे ।
आगत्य सहसोवाच बदराय महात्मने ॥६५॥
वद राजन् तव कार्यं सुरकार्यं तथा सुखम् ।
तूर्णं करोमि साध्यं ते दुःसाध्यमपि सर्वथा ॥६६॥
बदरः शशिनः पूजां स्वागतं वन्दनं स्तुतिम् ।
चकाराऽऽसनवर्यं च ददौ नेमे पुनः पुनः ॥६७॥
कृपालो शान्तिकृत् स्वर्गसुधाकर महाप्रभो ।
भक्तानुग्रहधातस्त्वं जयसे चामृतप्रद ॥६८॥
जीवनं सर्वलोकानां कलासु तव तिष्ठति ।
माधुर्यं चौषधीनां च तव योगात्प्रवर्तते ॥६९॥
वृद्धिः पुष्टिस्तव योगाज्जायते दाहरोधनम् ।
त्वदाधाराश्चौषधयस्तदाधाराश्च देहिनः ॥७०॥
चन्द्र कौमुदिकानाथ निशेश प्रियसंगकृत् ।
शशिन् नक्षत्रनाथ त्वं जयसे वै तमोनुद ॥७१ ॥
मृगांक दुग्धवर्ण त्व हिमांशो जयसे सदा ।
शीतलाब्धे सुधामूर्ते भक्तकार्यं दधात्विह ॥७२॥
असुरा मुहुरागत्य समर्दयन्ति मानवान् ।
देवान् पितॄन्मुनीन् भक्तान् क्लेशयन्ति मुहुर्मुहुः ॥७३॥
मद्बाणैरर्दिताश्चैते प्रविष्टा हिमसागरे ।
ते यथा स्युर्मर्दिता वै हिमपाषाणपर्वतैः ॥७४॥
पुनर्न ते बहिस्त्वत्राऽऽययुस्तथा विधेहि यत् ।
त्वमोषधिर्हि लोकानां चासुराणां निबर्हणम् ॥७५॥
शीतं शस्त्रं मतोऽस्येव शीघ्रं तदोषधं कुरु ।
इत्येवमर्थितो रात्रिनाथः श्रीबदरीप्रभे ॥७६॥
ददौ कण्ठात् समुत्तार्य चन्द्रकान्तमणिं शुभम् ।
बदराय स्वभक्ताय देवकार्यकराय च ॥७७॥
प्राह मणिं नृप चात्र शीताब्धौ सन्निवेशय ।
शीताब्धिः सहसा शीतशिलात्मको महान् गिरिः ॥७८॥
अत्रैव शीतलभूमिर्भविष्यति न संशयः ।
त्वं विमाने वस राजन्नम्बरे न तु भूतले ॥७९॥
शीतेनाऽभिभवं नैव व्रजेथास्तत्तथा कुरु ।
एषोऽहं संप्रयाम्येव शीघ्रं मणिं जले क्षिप ॥८०॥
एवमुक्तस्तु बदरो द्रुतं विमानमम्बरे ।
कृत्वा चन्द्रमसं नत्वा चिक्षेप मणिमब्धिषु ॥८१॥
तावज्जलानि सर्वाणि शीताग्निपीडितानि वै ।
पिण्डितान्यभवँस्तत्र शीताब्धौ शीतलोपलाः ॥८२॥
शीताब्धिः शीतभूभावं हिमभूतलतां गतः ।
जलान्यूर्ध्वं चोष्मणा चोत्क्षिप्यन्ते परितस्तदा ॥८३॥
शिखराणि श्वेतहैमशिलात्मकानि तानि च ।
सञ्जातान्येव सहसा चाम्बरं शीततां गतम् ॥८४॥
हिमानां करकावर्षाः सहसा पेतुरम्बरात् ।
ताभिश्च वर्धमानानि शृंगाणि पार्वतानि वै ॥८५॥
महःस्पर्शानि जातानि वर्धमानानि तानि वै ।
एवं स पर्वतो जातो ' युगसाहस्रयोजनः ॥८६॥
चन्द्रकान्तेन सम्पन्नो हिमवद्धिमवर्षणः ।
हिमांशुमणिना भूमौ हिमाद्रिर्बदरीप्रभे ॥८७॥
आसुरा युद्धकर्तारो जलोपलासु तत्तले ।
मर्दिताश्च निरुद्धाश्चोपलाभावं गता मृताः ॥८८॥
उपद्रवाः प्रशान्ताश्च महतः परिवर्तनात् ।
अथ लोकाश्च ऋषयो मुनयो देवतास्तथा ॥८९॥
श्रुत्वा हिमालयं भूमिं वीक्षितुं त्वाययुर्मुदा ।
राक्षसा असुरा दैत्या दानवा मानवाः खगाः ॥९०॥
पितरो लोकपालाश्च सिद्धाश्चारणनर्तकाः ।
गान्धर्वाः किन्नराः सूता मागधा बन्दिनस्तथा ॥९१॥
विद्याधरा अप्सरसः साध्यः शंकरयोगिनः ।
गणाश्च गणदेव्यश्च मातरो वसवस्तथा ॥९२॥
मेरुस्थाः परलोकस्था दिव्यदेहाः समाययुः ।
मुमुदुर्बहुधा हैमं शीतं चान्द्रं विलोक्यते ॥९३॥
वर्धयामासुरत्यर्थं भूपतिं बदरं तथा ।
प्रशशंसुश्च ते सर्वे दिक्पाला मानमादधुः ॥९४॥
ब्रह्मविष्णुमहेशाश्च प्रसन्नास्त्वभवन् बहु ।
बदरस्याऽभवद् राज्यं सर्वं हिमालयात्मकम् ॥९५॥
नवं त्वरण्यकं तस्य परितो नाऽभवत्तदा ।
देवाद्या वासयोग्यं तं मेरुतुल्यं तु भूभृतम् ॥९६॥
वीक्ष्य स्पृहां प्रचक्रुश्चार्थयामासुर्नृपं मुहुः ।
राजा वासं ददौ देवकोटिभ्यस्तु हिमालये ॥९७॥
देवजातयः सर्वे ये ते वासान् स्वकुलोचितान् ।
चक्रुः शृंगेषु हैमेषु देवालयो बभूव सः ॥९८॥
स्वर्गं वै चापरं भूमौ हिमालयो बभूव ह ।
कल्पद्रुमाः कल्पलतास्तथा कल्पतृणान्यपि ॥९९॥
हिमालयेऽभितो देवैः रोपितानि वनानि च ।
भूसन्धौ परितः शतयोजनानां तु वर्तुले ॥१००॥
दिव्यौषधीनां सर्वासां वनानि रोपितानि वै ।
उद्यानानि विचित्राणि फलपत्ररसादिभिः ॥१०१॥
स्मृद्धानि स्वर्गलोकाद् वै स्वस्वलोकात्तथाऽपरैः ।
आहृत्याऽऽहृत्य परितो निहितानि शुभानि च ॥१०२॥
सप्तर्षयो न्यवसँश्च शंकरोऽप्यवसत्ततः ।
ब्रह्मा विष्णुस्तथा देव्यो न्यवसन् चाप्सरोगणाः ॥१०३॥
गान्धर्वाश्चारणाः किंपुमांसश्च किन्नराः सुराः ।
अन्येऽपि बहवो देवा न्यवसन् वै हिमालये ॥१०४॥
एवं हिमगिरिर्जातो भूमौ चन्द्रगिरिर्महान् ।
भूतलं स्वर्गमिश्रं च जातं दिव्यांशशोभितम् ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने
महाभागवतस्य बदराख्यराजर्षेराख्यान, हेमानलासुरयुद्धं, बदरभयेन भूमध्यशीतवार्धौ त्वसुराणां प्रवेशनं, बदरस्तुत्या चन्द्रप्रदत्तचन्द्रकान्तमणेः शीतवार्धौ निक्षेपेण शीतोपलात्मक-
महाहिमाद्रिरूपपरिवर्तनं, चतुर्दशलोकवासिनां दिव्यहिमाद्रौ निवासाकांक्षया बदरप्रदत्तवसतयः स्वर्गीयौषधीनां देवाद्यैरोपितानि वनोद्यानारण्यानि चेत्यादिनिरूपणनामा द्वितीयोऽध्यायः ॥२॥
N/A
References : N/A
Last Updated : May 06, 2021
TOP